संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४०

खण्डः २ - अध्यायः १४०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥गर्ग उवाच ॥
कालप्रसवना नार्यः कालातीताः प्रजास्तथा॥
विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा ॥१॥
अमानुषा अरुण्डाश्च सञ्जातव्यसनास्तथा॥
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥२॥
पशवः पक्षिणश्चैव तथा चैव सरीसृपाः॥
विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत् ॥३॥
विवासयेत्तान्नृपतिः स्वराष्ट्रात्प्रियं च पूज्याश्च ततो द्विजेन्द्राः॥
किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिमुपैति पापम् ॥४॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्र संवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥१४०॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP