संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४६

खण्डः २ - अध्यायः १४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच ॥
सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च॥
दण्डः सुदेशे कथितः परदेशे ब्रवीहि मे ॥१॥
पुष्कर उवाच॥
द्विविधः कथितो दण्डः परदेशे पुरातनैः॥
प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम ॥२॥
लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च॥
चतुरङ्गेण दण्डेन परेषां च तथा वधः ॥३॥
प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम्॥
अप्रकाशो विषं वह्निर्गूढैश्च पुरुषैर्वधः ॥४॥
दूषणं यवसादीनामुदकानां च दूषणम्॥
रसक्रियाश्च विविधाः सुभगा भेदनादिकम् ॥५॥
एवमादीनि कार्याणि परचक्रे महीक्षिता॥
स्वराष्ट्रे च द्विजश्रेष्ठ दूषणं बलिनामपि ॥६॥
चत्वार एते कथिताभ्युपायाः प्राधानभूता भुवि पार्थिवानाम्॥
अतः परं ते कथयामि राम शेषास्त्रयस्ते न मयेरिता ये ॥७॥
इति श्रीविष्णुधर्मार्त्तरे द्वितीयखण्डे मा० सं० दण्डप्रणयनवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥१४६॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP