संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१२

खण्डः २ - अध्यायः ०१२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
चमरीबालसम्भूताः शशाङ्कांशुसमप्रभाः॥
संहताः स्निग्धदीर्घाश्च तथा स्थालिनिबन्धनाः ॥१॥
दण्डश्च चामरे कार्यो रुक्मरूप्यमयस्तथा॥
प्रवालवैडूर्यमयस्तथैव कनकान्वितः ॥२॥
क्षीरवृक्षस्य वा कार्यो रुक्मरूप्यनिबन्धनः॥
रत्नैः प्रशस्तैश्चित्रो वा काञ्चनस्य प्रशस्यते ॥३॥
चन्दनस्याथ दन्तस्य शार्ङ्गः कार्यो यथा भवेत॥
अर्धहस्तान्न चाप्यूनो मध्यर्धान्न तथाधिकः ॥४॥
कर्तव्यं चामरं राज्ञा न च भार्गव रञ्जितम ॥५॥
आपीतवर्णं तु भवेत्प्रशस्तं सांवत्सरामात्यपुरोहितानाम्॥
नरेन्द्रपत्नीयुवराजसैन्यस्यालस्य शेषस्य जनस्य कृष्णः ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चामरलक्षणं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP