संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६६

खण्डः २ - अध्यायः ०६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
दैवे पुरुषकारे च किं ज्यायस्तद्वदस्व मे॥
अत्र मे संशयो देव संशयच्छिद्भवाँस्तथा ॥१॥
पुष्कर उवाच॥
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम्॥
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥२॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते॥
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥३॥
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम॥
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥४॥
कर्मणा प्राप्यते लोके राजन्सम्यक्तथा फलम्॥
पौरुषेणाप्यते राम मार्गितव्यं फलं नरैः ॥५॥
दैवमेव न जानाति नरः पौरुषवर्जितः॥
तस्मात्सत्कार्ययुक्तस्य दैवं तु सफलं भवेत् ॥६॥
पौरुषं चैव सम्पत्त्या काले फलति भार्गव॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ॥७॥
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम्॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ॥८॥
तास्तु कालेन दृश्यन्ते नैवाकाले कथञ्चन॥
तस्मात्सदैव कर्तव्यं सधर्मं पौरुषं नृभिः ॥९॥
विपत्तावपि यस्येह परलोके फलं धुवम्॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः॥
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥१०॥
त्यक्तालसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः॥
अन्विष्य यत्नाद्वृणुते द्विजेन्द्र तस्मात्समुत्थानवता हि भाव्यम् ॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे पुरुषकाराध्यायो नाम षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP