संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७०

खण्डः २ - अध्यायः ०७०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
न शक्या ये स्वयं कर्तुं चोपायत्रितयेन तु॥
दण्डेन तान्वशीकुर्याद्दण्डो हि वशकृत्परः ॥१॥
सम्यक्प्रणयनं तस्य सदा कार्यं महीक्षिता॥
धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥२॥
तस्य सम्यक्प्रणयनं त्रिदशानपि पीडयेत्॥
वानप्रस्थांश्च धर्मज्ञ निर्देशान्निष्परिग्रहान् ॥३॥
स्वदेशे परदेशे च धर्मशास्त्रविशारदाः॥
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥४॥
आश्रमी यदि वा वर्णी पूज्योऽथवा गुरुर्महान्॥
नादण्ड्यो राम राज्ञा तु यः स्वधर्मे न तिष्ठति॥
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्॥
इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते ॥६॥
तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः॥
दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥७॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः॥
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥८॥
बाल वृद्धातुर यति द्विजाति विकलाबलाः॥
मत्स्यन्यायेन भक्षेरन्यदि दण्डो न पालयेत् ॥९॥
देवदैत्योरगनराः सिद्धभूतपतत्रिणः॥
उत्क्रामेयुः स्वमर्यादां यदि दण्डो न पालयेत् ॥१०॥
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च॥
सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति ॥११॥
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः॥
न ब्राह्मणं न धातारं न पूषार्यमणावपि ॥१२॥
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु॥
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा ॥१३॥
विष्णुं देवगणाँश्चान्ये दण्डिनः पूजयन्ति हि॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ॥१४॥
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥
राजदण्डभयादेव पापाः पापं न कुर्वते ॥१५॥
यमदण्डभयादन्ये परस्परभयादपि॥
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥१६॥
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥
तस्माद्दम्यान्दमयति उद्दण्डान्दण्डयत्यपि ॥१७॥
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः॥
दण्डस्य भीतैस्त्रिदशैः समस्तैर्भागो धृतः शूलधरस्य यज्ञे॥
चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्बलस्थम् ॥१८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० पुष्करोपाख्यानेषु दण्डप्रशंसा नाम सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP