प्रथम: पाद: - सूत्र २३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अशमादिवच्च तदनुपपत्ति: ॥२३॥

अशमादिवच्च तदनुपपत्ति: ।
यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैदूर्यादयोऽन्ये मध्यमवीर्या: सूर्यकान्तादयोऽन्ये प्रहीणा: श्ववायसप्रक्षेपणार्हा: पाषाणा इत्यनेकविधं विचित्र्यं द्दश्यते ।
यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते ।
यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति ।
एवमेकस्यापि ब्रम्हाणो ब्रम्हाणो जीवप्राज्ञपृथकत्वं कार्यवैचित्र्यं चोपपद्यत इत्यतस्तदनुपपत्ति: ।
परपरिकल्पितदोषानुपपत्तिरित्यर्थ: ।
श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नद्दश्यभाववैचित्र्यवच्चेत्यभ्युच्चय: ॥२३॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP