प्रथम: पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


यथा च प्राणादि ॥२०॥

यथा च प्राणादि । यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् ।
तेष्वेव प्राणभेदेषु पुन: प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते ।
न च प्राणभेदानां प्रभेदवत: प्राणादन्यत्वं समीरणस्वभावाविशेषात् ।
एवं कार्यस्य कारणादनन्यत्वम् ।
अतश्च कृत्न्नस्य जगता ब्रम्हाकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ॥२०॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP