प्रथम: पाद: - सूत्र २४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२४॥

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । चेतनं ब्रम्हौकमद्वितीयं जगत: कारणमिति यदुक्तं तन्नोपपद्यते ।
कस्मात् । उपसंहारदर्शनात् । इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधना: सन्तस्तत्त त्कार्य कुर्वाणा दृश्यन्ते ।
ब्रम्हा चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपग्रहे सति कथं स्रष्टुत्वमु पपद्येत तस्मान्न ब्रम्हा जगत्कारणमिति चेत् ।
नैष दोष: । यत: क्षीरवद्रव्यस्वभावविशेषदुपपद्यते ।
यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमतेऽनपेक्ष्य बाह्यां साधनं तथेहापि भविष्यति ।
ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाम्हां साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति ।
नैष दो:ष ।
स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवति तावत्यवे त्वार्यते त्वौष्ण्यादिना दधिभावाय ।
यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत ।
न हि वायुराकाशो वौष्ण्यादिना बलाद्दधिभावमापद्यते ।
साधनसामग्र्या च तस्य पूर्णता संपाद्यते ।
परिपूर्णशक्तिकं तु ब्रम्हा ।
न तस्यान्येन केनचित्पूर्णता संपादयितव्या ।
श्रुतिश्च भवति  :---

न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।

तस्मादेकस्पापि ब्रम्हाणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥२४॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP