प्रथम: पाद: - सूत्र २१

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: ॥२१॥

इतरव्यपदेशाद्धिताकरनादिदोषप्रसक्ति : ।
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते ।
चैतनाद्धि प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषा: प्रसज्यन्ते ।
कुत: । इतरव्यपदेशात् । इतरस्य शारीरस्य ब्रम्हात्मत्वं व्यपदिशति श्रुति: स आत्मा तत्त्वमसि श्वेतकेतो इति प्रतिबोधनात्  ।
यद्वा । इतरस्य च ब्रम्हाण: शारीरात्म्त्वं व्यपदिशति तत्सृष्ट्वा तदेवानुप्राविशदिति रुटुरेवाविकृतस्य ब्रम्हाण: कार्यांनुप्रवेशेन शारीरात्मत्वदर्शनात् । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रम्हाणो भिन्न: शारीर इति दर्शयति ।
तस्माद्यहब्रम्हाण: स्रष्ट्टत्वं तच्छारीरस्यैवेति ।
अतस्च स्वतन्त्र: कर्तां सन्हितमेवात्मन: सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगादानेकानर्थजालम् ।
न हि कश्चिदपरतन्त्रो बन्धनागारमात्मन: कृत्वानुप्रविशति ।
न च स्वयमत्यन्तनिर्मळ: सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् ।
कृतमपि कथञ्चिद्यददु:खकरं तदिच्छया जहयात् ।
सुखकरं चोपाददीत । स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति ।
सर्वो हि लोक: स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति ।
यथा च मायावी स्वयं प्रसारितां मायामिच्छयाऽनायासेनैवोपसंहरत्येवं शारीरोऽपीमां सृष्टिमुपसंहरेत् ।
स्वमपि तावच्छरीरं शारीरो न शन्कोत्यनायासेनोपसंहर्तुम् ।
एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति मन्यते ॥२१॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP