प्रथम: पाद: - सूत्र १६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सत्त्वाच्चावरस्य ॥१६॥

सत्त्वाच्चावरस्य ।
इतश्च कारणात्कार्यस्यानन्यत्वं यत्कारणं प्रागुत्पत्ते: कारण्यात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते ।
सदेव सोम्येदमग्र आसीदात्मा वा इदमेक एवाग्र आसीदित्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् ।
यच्च यदात्मना यत्र न वर्तने न तत्तत उत्पद्यते यथा सिकताभ्यस्तैलम् ।
तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते ।
यथा च कारणं ब्रम्हा त्रिपु कालेषु सत्त्वं न व्यभिचरतीस्येवं कार्यमपि जगत्त्रिषु कालेषु सर्त्त्वं न व्यभिचरति ।
एकं च पुन: सत्त्वमतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥१६॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP