प्रथम: पाद: - सूत्र ३४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥३४॥

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ।
पुनश्च जगज्जन्मादिहेबुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय ।
नेश्वरो जगत: कारणमुपपद्यते । कुत: ।
वैषम्यनैर्घृण्यप्रसङ्गत् ।
कांश्चिदत्यन्तसुखभाज: करोति देवादीन्कांश्चिदत्यन्तदु:खभाज: पश्चादीन्कांश्चिन्मध्यमभोगभाजो मनुष्यादीनित्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्ते: ।
श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोष: प्रसज्येत ।
तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिकूरत्वं दु:खयोगविधानात्सर्वप्रजोपसंहरणाच्च प्रसज्येत ।
तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वर: कारणमित्येवं प्राप्ते ब्रूम: ।
वैषम्यनैर्घृण्ये नेश्वारस्य प्रसज्येते । कस्मात् ।
सापेक्षत्वात् । यदि हि निरपेक्ष:  केवल ईश्वरो विषमां सृष्टं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च ।
न तु निरपेक्षस्य निर्मातृत्वमस्ति ।
सापेक्षो हीश्वरो विषमां सुष्टिं निर्मिमीते ।
किमपेक्षत इति चेत् ।
धर्माधर्मावपेक्षत इति वदाम: ।
अत: सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराध: ।
ईश्वरस्तु पर्जन्यवद्दृष्टव्य: ।
यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति व्रीहियवादिवैषम्ये तु तत्तद्वीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्त्येवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति ।
देवमनुष्ज्यादिवैषम्पे तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वर: सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति ।
कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ।
तथा हि दर्शयति श्रुति: । एष हयेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधोनिनीषत इति ।
पुण्यो वै पुण्येन कर्मणा भवति पाप: पानेनेति च ।
स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति ।
ये यथा मां प्रपद्यन्ते तांस्तथैय भजाम्यहमित्येवंजातीयका ॥३४॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP