TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथम: पाद: - सूत्र १

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र १
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गत् ॥१॥

प्रथमेऽध्याये सर्वज्ञ: सर्वेश्वरो जगत उत्पत्तिकारणं मृत्सुवरर्णादय इव घटरुचकादीनाम् ।
उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणं मायावीव मायाया: ।
प्रसारितस्य च जगत: पुन: स्वात्मन्येवोपसंहारकारणमवनिरिव चतुर्विधस्य भूतग्रामस्य ।
स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्ययप्रतिपादनेन प्रतिपादितम् ।
प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृता: ।
इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहार: प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृष्टयादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते ।
तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति ।
यदुक्तं ब्रम्हौव सर्वज्ञं जगत:  कारणमिति तदयुक्तम् ।
कुत: । स्मृत्यनवकाशदोषप्रसङ्गत् ।
स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीताऽन्याश्च तदनुसारिण्य: स्मृतय एवं सत्यनवकाशा: प्रसज्येरन् ।
तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगत: कारणमुपनिबध्यते मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्य: सावकाशा भवन्ति अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनमीद्दशश्चाचार इत्थं वेदाध्ययनमित्थं समावर्तनमित्थं सहधर्मचारिणीसंयोग इति तथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधति नैवं कपिलादिस्मृतीनामनुष्ठेये विषयेऽवकाशोऽस्ति मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ता: प्रणीता: ।
यदि तत्राप्यनवकाशा: स्युरानर्थक्यमेवासां प्रसज्येत ।
तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्या: ।
कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रम्हौव सर्वज्ञं जगत: कारणमित्यवधारित: श्रुत्यर्थ: स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ।
भवेदयमनाक्षेप: स्वतन्त्रप्रज्ञानास ।
परतन्त्रप्रज्ञास्तु प्रायेण जना: स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्त: प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् ।
तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् ।
अस्मत्कृते च व्याख्याने न विश्चस्युर्बहुमानात्स्मृतीनां प्रणेतृषु ।
कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते ।
श्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येदिति ।
तस्मान्नैषां मतमतथार्थं शक्यं संभावयितुम् ।
तर्कावष्टम्भेन च तेऽर्थं प्रतिष्ठापयन्ति तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेप: ।
तस्य समाधिर्नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति ।
यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येतैवमप्यन्या  ईश्वरकारणवादिन्य: स्मृतयोऽनवकाशा: प्रसज्येरन् ।
ता उदाहरिष्याम: ।
यत्तत्सूक्ष्ममविज्ञेयमिति परं ब्रम्हा प्रकृत्य स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यत इति चोक्त्वा तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेत्याह ।
तथान्यत्राप्यव्यक्तं पुरुषे ब्रम्हान्निर्गुणे संप्रलीयत  इत्याद ।

अतश्च सङ्क्षेपमिमं शृणुध्वं नारायण: सर्वमिदं पुराण: ।
स सर्गकाले च करोति सर्वं संहारकाले च तदति भूय इति ।

पुराणे भगवद्रीतासु च ।
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथेति ।

परमास्मानमेव च प्रकृत्यापस्तम्ब: पठति तस्मात्काया: प्रभवन्ति सर्वे स मूलं शाश्वतिक: स नित्य इति ।
एवमनेकश: स्मृतिष्व पीश्वर: कारणत्वेनोपादानत्वेन च प्रकाश्यते ।
स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमस्य स्मृत्यनवकाशदोषोपन्यास: ।
दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् ।
विप्रतिप्रत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्य: स्मृतय: प्रमाणमनपेक्ष्या इतरा: ।
तदुक्तं प्रमाणलक्षणे विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति ।
न चातीन्द्रियानर्थाव्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् ।
शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेन्न ।
सिद्धेरपि सापेक्षत्वात् ।
धर्मानुष्ठानपेक्षा हि सिद्धि: ।
स च धर्मश्चोदनालक्षण: ।
ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते ।
सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिब्यपाश्रयादन्यन्निर्णयकारणमस्ति ।
परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषय: पक्षपातो यक्त: ।
कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्चरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् ।
तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया ।
या तु श्रुति: कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं कपिलमिति श्रुतिसामान्यमात्रत्वाम् ।
अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्न: स्मरणात् ।
अन्यार्थादर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् ।
भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिर्यद्वै किञ्च मनुरवदत्तद्भेषजमिति ।

मनुना च सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छतीति ।

सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ।
कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते ।
आत्मभेदाभ्युपगमात् ।
महाभारतऽपि ।
बहव: पुरुषा ब्रम्हान्नुताहो एक एव त्विति विचार्यं बहव: पुरुषा राजन्साङ्खययोगविचारिणामिति परपक्षमुपन्यस्य तद्वयुदासेन बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकमित्युपक्रम्य ।

ममान्तरात्मा तव च ये चान्ये देहसंस्थिता: ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्य: केनचित्क्वचित् ॥
विश्चमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिक: ।
एकश्चरति भूतेषु स्वैरचारी यथासुखमिति ॥

सर्वात्मतैव निर्धारिता ।
श्रुतिश्च सर्वत्मतायां भवति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-05T20:02:25.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खाकेस मारणें

  • १. आपल्‍याजवळ घेणें. २. एखादी वस्‍तु पळवून नेणें 
  • आपलीच आहे असे दाखवून घेऊन जाणें 
  • अपहार करणें 
  • दाबणें. 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.