प्रथम: पाद: - सूत्र ४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न विलक्ष्णत्वादस्य तथात्वं च शब्दात् ॥४॥

सावकाशत्वम् ।
तद्यथाऽसङगो ह्ययं पुरुष इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्व निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ।
तथा च योगैरप्यथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रह इत्येवमादिश्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रयाद्युपदेशेनानुगम्यते ।
एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ।
तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम ।
तत्त्वज्ञनं तु वेदान्तवाक्येभ्य एव भवति नावेदविन्मनुते तं बृहन्तं तं त्वौपनिषदं पुरुषं पृच्छामीत्येवमादिश्रुतिभ्य: ॥३॥

ब्रम्हास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य  पक्षस्याक्षेप: स्मृतिनिमित्त: परिहत: ।
तर्कनिमित्त इदानीमाक्षेप: परिहियते ।
कुत: पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाश: ।
ननु धर्म इव ब्रम्हाण्यप्यनपेक्ष अगमो भवितुमर्हाति ।
भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्यागममात्रप्रमेयोऽयमर्थ: स्यादनुष्ठेयरूप इव धर्म: ।
परिनिष्पन्नरूपं तु ब्रम्हावगम्यते ।
परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशी यथा पृथिव्यादिषु ।
यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्त एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत ।
द्दष्टसाधर्म्येण चाद्दष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते ।
विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् ।
अनुभवावसानं च ब्रम्हाविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च द्दष्टफलतयेष्यते ।
श्रुतिरपि श्रोतव्यो मन्तव्य इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ।
अतस्तर्कनिमित्त: पुनराक्षेप: क्रियते न विलक्षणत्वादस्योति ।
यदुक्तं चेतनं ब्रम्हा जगत: कारणं प्रकृतिरिति तन्नोपपद्यते ।
कस्मात् ।
विलक्षणत्वादस्य विकारस्य प्रकृत्या: ।
इदं हि ब्रम्हाकार्यत्वेनाभिप्रेयमाणं जगद्ब्रम्हाविलक्षणमचेतनमशुद्धं च द्दश्यते ।
ब्रम्हा च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ।
न च विलक्षणत्वे प्रकृतिविकारभावो द्दष्ट: ।
न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिका: ।
मृदैव तु मृदन्विता विकारा: क्रियन्ते सुवर्णेन च सुवर्णान्विता: ।
तथेदमपि जगदचतनं सुखदु:खमोहान्वितं सदचेतनस्यैव सुखदु:खमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रम्हाण: ।
ब्रम्हाविलक्षणत्वं चास्य जगतोऽशुद्धाचेतनत्वदर्शनादवगन्तव्यम् ।
अशुद्धं हि जगत्सुखदु:खमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ।
अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् ।
न हि साम्ये सत्युपकार्योपकारकभावो भवति । न हि प्रदीपौ परस्परस्योपकुरुत: ।
ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तृरुपकरिप्यति । न ।
स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ।
यो ह्येकस्य चेतनस्य परिग्रहो बुम्हादिरचेतनभाग: स एवान्यस्य चेतनस्योपकरोति न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ।
निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते ।
तस्मादचेतनं कार्यकारणम् ।
न च काष्ठलोष्ठादीनां चेतनत्वे किंचित्प्रमाणमस्ति ।
प्रसिद्धश्चायं चेतनाचेतनविभागो लोके ।
तस्मादब्रम्हाविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् ।
योऽपि कश्चिदाचक्षीत श्रुत्या जगतश्चेतनप्रकृतिकतां तद्वलेनैव समस्तं जगच्चेतनमवगमिष्यामि ।
प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् ।
अविभावन तु चैतन्यस्य परिणामविशेषाद्भविष्यति ।
यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्ठादीनामपि चैतन्यं न विभावयिप्यते ।
एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते ।
यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति ।
प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति ।
तेनापि कथंचिच्चेतनाचेतनत्वलक्षणं विलक्षणस्वं परिह्रियेत ।
शुद्धयशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिहरियते ।
न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह ।
तथात्वं च शब्दादिति ।
अनवगम्यमानमेव

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP