प्रथम: पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असदिति चेन्न प्रतिषेधमात्रत्वात् ॥७॥

यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वादेअमचेतनस्यापि चेतनभावो नोपपद्यते ।
प्रत्युक्तत्वात्तु विलक्शणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति ॥६॥
असदिति चेन्न प्रतिपेधमात्रत्वात् ।
यदि चेतनं शुद्धं शब्दादिहीनं च ब्रम्हा तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत ।
अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् । नैष दोष: ।
प्रतिषेधमारत्वात् ।
प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति ।
न ह्ययं प्रतिषेध: प्रागुत्पत्ते: सत्त्वं कार्यस्य प्रतिषेहुं शन्कोति ।
कथम् । यथैव हीदानीमपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते ।
न हीदानीमपि कर्यं कारणात्मानमन्तरेण स्वतत्रमेवास्ति ।
सर्व तं परादाद्योऽन्यत्रात्मन: सर्वं वेदेत्यादिश्रवणात् ।
कारणात्मना तुसत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् ।
ननुशब्दादिहीनं ब्रम्हा जगत: कारणम् ।
न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वाऽस्ति ।
तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति ।
विस्तेरण चैतत्कार्यकारणानन्यत्ववादे वक्ष्याम: ॥७॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP