प्रथम: पाद: - सूत्र २५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


देवादिवदपि लोके ॥२५॥

देवादिवदपि लोके स्यादेतत् ।
उपपद्यते क्षीरादीनामचतेनानामनपेक्ष्यापि बाहयं साधनं दध्यादिभावो द्दष्टत्वात् ।
चेतना: पुन: कुलालादय: साधनसामग्रीमपेक्ष्यैव तम्सै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते ।
कथं ब्रम्हा चेतनं सदसहायं प्रवर्तेतेति ।
देवादिवादिवदिति ब्रूम: ।
यथा लोके देवा: पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाहयं आधनमैश्चर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानसंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् ।
तन्तुनाभश्च स्वत एव तन्तून्सृजति ।
बलाका चान्तरेणैव शुक्रं गर्भं धत्ते ।
पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोऽन्तरात्सरोऽन्तरं प्रतिष्ठते ।
एवं चेतनमपि ब्रम्हानपेक्ष्य बाहयं साधनं स्वत एव जगत्स्त्रक्ष्यति ।
स यदि ब्रूयाद्य एते देवादयो ब्रम्हाणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रम्हाणा न समाना भवन्ति ।
शरीरमेव हयचेतनं देवादीनां शरीरान्तरादि विभूत्युत्पादन उपादानं न तु चेतन आत्मा ।
तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति ।
बलाका च स्तनयित्नुरवश्रवणाद्नर्भं धते ।
पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेनैव शरीरेण सरोऽन्तरात्सरोऽन्तरमुपसर्पति वल्लीव वृक्षं न तु स्वयमेवाचेतना सरोऽन्तरोपसर्पणे व्याप्रियते । तस्मान्नैते ब्रम्हाणो दृष्टान्ता इति ।
तं प्रतिब्रूयान्नायं दोष: ।
कुलालादिदृष्टान्तवैलक्षण्यमात्र्यस्य विवक्षितत्वादिति ।
यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादय: कार्यारम्भे बाहयं साधनमपेक्षन्ते न देवादयस्तथा ब्रम्हा चेतनमपि न बाहयं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्ष्याम: । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्राय: ॥२५॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP