TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथम: पाद: - सूत्र १८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र १८
युक्ते: शब्दान्तराच्च ॥१८॥

युक्ते: शब्दान्तराच्च ।
युक्तेश्च प्रागुत्पत्ते: कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते शब्दान्तराच्च ।
युक्तिस्तावद्वर्ण्यते ।
दधिघटरुचकाद्यर्थिभि: प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके द्दश्यन्ते ।
न हि दध्यर्थिभिर्मृतिकौपादोयते न न घटाद्यर्थिभि: क्षीरं  तदसत्कार्यवादेनोपपद्येत ।
अविशिष्टे हि प्रागुत्पत्ते: सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकाया: ।
एव च घट उत्पद्यते न क्षीरात् ।
अथाविशिष्टेऽपि प्रगस्तत्त्वे क्षीर एव दध्न:  कश्चिदतिशयो न मृत्तिकायां मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत ।
अतस्य्तहर्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानि: सत्कार्यवादसिद्धिश्च ।
शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्याऽसती वा कार्यं नियच्छेत् ।
असत्त्वाविशे षादन्यत्वाविशेषाच्च ।
तस्मात्कारणस्यात्मभूता शक्ति: शक्तेश्चात्मभूतं कार्यम् ।
अपि च कार्यकारणयोर्द्रव्यगुनादीनां चाश्चमहिषवद्भेदबुद्धयभावात्तादात्म्यमभ्युपगन्तव्यम् ।
समवायकल्पनायामपि समवायस्य समवायिभि: सम्बन्धेऽभ्युपगम्यामाने तस्य तस्यान्योऽन्य: सम्बन्ध: कल्पयितव्य इत्यनवस्थाप्रसङ्ग: ।
अनभ्युपगम्यमाने च विच्छेदप्रसङ्ग: ।
अथ समवाय: स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत ।
तादात्म्यप्रतीतेश्च द्रव्यगुणादीनं समवायकल्पनानर्थक्यम् ।
कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येपु वर्तमानं वर्तते ।
किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् ।
यदि तावत्समस्तेषु वर्तेत ततोऽवयव्यनुपलब्धि: प्रसज्येत समस्तावयवसन्निकर्षस्याशक्यत्वात् ।
न हि बहुत्वं समस्तेष्वाश्रयेपु वर्तमानं व्यस्ताश्रयग्रहणेन गृहयते ।
अथावयवश: समस्तेषु वर्तेत तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवा: कल्प्येरन्यैरवयवैरारम्भकेष्ववयवेष्ववयवाशोऽवयवी वर्तेत ।
कोशावयबव्यतिरिक्तैहर्यवयवैरसि: कोशं व्याप्नोति ।
अनवस्था चैवं प्रसज्येत ।
तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवरावानां कल्पनीयत्वात् ।
अथ प्रत्य प्रत्यवयवं वर्तेत तदैकत्रव व्यापारेऽन्यत्राव्यापार: स्यात् ।
न हिदेवदत्त: स्त्रुन्घे सन्निधीयमास्तदहरेव पाटलिपुत्रेपि सन्निधीयते ।
युगपदनेकत्र वृत्तावनेकत्वप्रसङ्ग: स्यात् ।
देवदत्तयज्ञदत्तयोरिव सुन्घपाटालिपुत्रनिवासिनो: ।
गोत्वादिवत्प्रयेकं परिसमाप्तेर्न दोष इति चेत् ।
न । तथा प्रतीत्यभावात् ।
यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृहयेत ।
न चैवं नियतं गृहयते ।
प्रत्येकपरिसमाप्तौ चावयविन: कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् ।
न चैवं दृश्यते ।
प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् ।
उत्पत्तिश्च नाम क्रिया सा सकर्तृकैव भवितुमर्हति गत्यादिवत् ।
क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्यते ।
गटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका किं तहर्यन्यकर्तृकेति कल्प्या स्यात् ।
तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत ।
तथा च सति घट उत्पद्यत इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्त इत्युक्तं स्यात् ।
न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते ।
उत्पन्नताप्रतीतेश्च ।
अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम् ।
सतोर्हि द्वयो: सम्बन्ध: सम्भवति न सदसतोरसतोर्वा ।
अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् ।
सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नामावस्य ।
न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते ।
यदि च वन्ध्यापुत्रोपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपापत्स्यत कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति ।
वयं तु पश्यामो वन्ध्यापुत्रस्य कार्याभावास्य चाभावत्वाविशेषाद्यथा वन्ध्यापुन्न: कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति ।
नन्वेवं सतिकारकव्यापारोऽनर्थक: प्रसज्येत ।
यथैव हि प्राकसिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्वयाप्रियत एवं प्राकसिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्वयाप्रियेत ।
व्यप्रियते च ।
अत: कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव: कार्यस्येति ।
नैष दोष: । यत: कार्याकारेण कारणं व्यवस्थापयत: कारकव्यापार स्यार्थवत्त्वमुपपद्यते ।
कार्याकारोऽपि कारणस्यत्मभूत एवानत्मभूतस्यानारभ्यत्वादित्यभणि ।
न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति ।
न हि देवदत्त: सङ्कोचितहस्तपाद: प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति स एवेति प्रत्यभिज्ञानात् ।
तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न व्वस्त्वन्यत्वं भवति मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् ।
जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् ।
न । क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् ।
अद्दश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्ग्कुरादिधावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा ।
तेषामेवावयवानामपचयवशाददर्शनापतत्तावुच्छेदसंज्ञा ।
तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसत: सत्त्वापत्ति: सतश्चासत्त्वापत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्ग: ।
तथा च बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्ग: पित्रादिव्यवहारलोपसङ्गश्च ।
एतेन क्षणभङ्गवाद: प्रतिवदितव्य: ।
यस्य पुन: प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषय: कारकव्यापार: स्यात् ।
अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखङ्गाद्यनेकायुधप्रय़ुक्तिवत् ।
समवायिकारणविषय: कारकव्यापार: स्यादिति चेत् ।
न । अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् ।
समवायिकारणस्यैवात्प्रातिशय: कार्यमिति चेत् ।
न । सत्कार्यतापत्ते: । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम ।
तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
एवं युक्ते: कार्यस्य प्रागुत्पत्ते: सत्त्वमनन्यत्वं च कारणादवगम्यते ।
शब्दान्तन्तराच्चैतदवगम्यते ।
पूर्वसूत्रेऽसद्यपदेशिन: शब्दस्योदाहृतत्वात्ततोऽन्य: सद्व्यपदेशी शब्द: शब्दान्तरं सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यादि ।
तद्धैक आहुरसदेवेदमग्र आसीदिति चासत्पक्षमुपक्षिप्य कथमसत: सज्जायेते त्याक्षिप्य सदेव सोम्येदमग्र आसीदित्यवधारयति ।
तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्ते: सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिध्यत: ।
यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदन्यत्कारणात्स्यात् ।
तत्र येनाश्रुतं श्रुतं भवतीतीयं प्रतिज्ञा पीडयेत ।
सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-05T20:22:09.5270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हनुग्रह

  • m  Locked jaw. 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.