TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथम: पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ६
द्दश्यते तु ॥६॥

द्दश्यते तु ।
तुशब्द:  पक्षं व्यावर्तयति यदुक्तं विलक्षणत्वान्नेदं जगदब्रम्हाप्रकृतिकमिति ।
नयमेकान्त: ।
द्दश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्य: पुरुषादिभ्यो विलक्षणानां केशनखदीनामुत्पत्तिरचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् ।
नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनशादीनां कारणानि ।
अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति ।
उच्यते ।
एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्शण्यम् ।
महांश्चायं पारिणामिक: स्वभावविप्रकर्ष: पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् ।
तथा गोमयादीनां ष्टश्चिकादीनां च ।
अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत ।
अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभाव: पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्विकादिष्विति ।
ब्रम्हाणोऽपि तर्हि सत्तालक्षण: स्वभाव आकाशादिष्वनुवर्तमानो द्दश्यते ।
विलक्षणत्वेन च कारणेन ब्रम्हाप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रम्हास्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदथ चैतन्यस्येति वक्तव्यम् ।
प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेप्रसङ्ग: ।
न म्हासत्यतिशये प्रकृतिविकरभाव इति भवति ।
द्वितीये चासिद्धत्वम् ।
द्दश्यते हि सत्तालक्षणो ब्रम्हास्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् ।
तृतीये तु द्दष्टान्ताभाव: ।
किं हि यच्चैतन्येनानन्वितं तदब्रम्हाप्रकृतिकं द्दष्टमिति ब्रम्हावादिनं प्रत्युदाह्रियेत ।
समस्तस्य वस्तुजातस्य ब्रम्हाप्रकृतिकत्वाभ्युपगमात् ।
आगमविरोधस्तु प्रसिद्ध एव ।
चेतनं ब्रम्हा जगत: कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् ।
यत्तूक्तं परिनिष्पन्नत्वादब्रम्हाणि प्रमाणान्तराणि संभवेयुरिति ।
तदपि मनोरथमात्रम् ।
रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षस्य गोचर: ।
लिङ्गाद्यभावाच्च नानुमानादीनाम् ।
आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् ।
तथा च श्रुति: ।
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठेति ।
को अद्धा वेद क इह प्रवोचत् ।
कुत आजाता कुत इयं विसृष्टि: ।
अर्वाग्देवा अस्यविसर्जनेनाथाको वेद यत आबभूवेति चैतौ मन्त्रौ निजसिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयत: ।
स्मृतिरपि भवति अचिन्त्या: खलु ये भावा न तांस्तकर्णे योजयेत् ।
प्रकृतिभ्य: परं यच्च तदचिन्त्यस्य लक्षणमिति ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यत इति च न मे विदु: सुरगणा: प्रभवं न महर्षय: ।
अहमादिर्हि देवानां महर्षीणां च सर्वश इति ॥
चैवंजातीयिका ।
यदपि श्रवणव्यतिरेकेण मनन विदधच्छब्द एव तर्कंमप्यादर्तव्यं दर्शयतीत्युक्तम् ।
नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभ: संभवति श्रुत्पनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वं संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं प्रपञ्चस्य ब्रम्हाप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रम्हाव्यतिरेक इत्येवं जातीयाक: ।
तर्काप्रतिष्ठानादिति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति ।
योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत तस्यापि विज्ञानं चाविज्ञानं चेति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् ।
परस्यैव त्विदमपि विभागश्रवणं न युज्यते कथं परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते विज्ञानं चाविज्ञानं चाभवदिति । तत्र

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-05T20:06:42.6830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dry bulb

  • निर्द्राव बल्व 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site