TransLiteral Foundation

प्रथम: पाद: - सूत्र १४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र १४
तदनन्यत्वमारम्भणशब्दादिभ्य: ॥१४॥

तदनन्यत्वमारम्भणसब्दादिभ्य: ।
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोऽभिहित: ।
न त्वयं विभाग: परमर्थतोऽस्ति यस्मात्तयो: कार्यकारणयोरनन्यत्वमवगम्यते ।
कार्यमाकाशादिकं बहुप्रपञ्चं जगत्कारणं पंर ब्रम्हा तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभाव: कार्यस्यावगम्यते ।
कुत: । आरम्भणशब्दादिभ्य: ।
आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय द्दष्टान्तापेक्षायामुच्यते यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति ।
एतदुक्तं भवत्येकेन मृत्पण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।
यतो वाचारम्भणं विकारो नामधेयं वाचैव केलवलमस्तीत्यारभ्यते ।
विकारो घट: शराव उदञ्चनं चेति ।
न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
नामद्येयमात्रं हयेतदनृतं म्रुत्तिकेत्येव सत्यमिति ।
एष ब्रम्हाणो द्दष्टान्त आन्नात: ।
तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रम्हाव्यतिरेकेण  कार्यजातस्याभाव इति गम्यते ।
पुनश्च ते जोऽबन्नानां ब्रम्हाकार्यतामुक्त्वा तेजोऽबन्नकार्याणां तेजोऽबन्नव्यतिरेकेणाभावं ब्रतीत्यपागादग्नरेग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणित्येव सत्यमित्यादिना ।
आरम्भणशब्दादिभ्य इत्यादिशब्दादैतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसीदं सर्व यदयमात्मा ब्रम्हौवेदं सर्वमात्मैवेदं सर्वं नेह नानास्ति किंचनेत्येवमाद्यप्यात्मैकत्वप्रतिपादनपर वचनजातमुदाहर्तव्यम् ।
न चान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते ।
तस्माद्यया घटकरकाद्याकाशानां महाकाशानन्यत्वं यथा च मृगतृष्णिकोदकादीनामू षरादिभ्योऽनन्यत्वं द्दष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वादेवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रम्हाव्यतिरेकेणाभाव इति द्रष्टव्यम् ।
नन्वनेकात्मकं ब्रम्हा यथा वृक्षोऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रम्हा ।
अत एकत्वं नानात्वं चोभयमपि सत्यमेव ।
यथा वृक्ष इत्येकत्वं शाखा इति नानात्वम् ।
यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानत्वम् ।
यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ।
तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहार: सेत्स्यति ।
नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति ।
एवं च म्रुदादिद्दष्टान्ता अनुरूपा भविष्यन्तीति । नैवंस्यात् ।
मृत्तिकेत्येव सत्यमिति प्रकृतिमात्रस्य द्दष्टान्ते सत्यत्वावधारणात् ।
वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् ।
दार्ष्टान्तिकेऽपैतदात्म्यमिदं सर्वं तत्सत्यमिति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ।
स आत्मा तत्त्वमसि श्वेतकेतो इति च शारीरस्य ब्रम्हाभावोपदेशात् ।
स्वयं प्रसिद्धं हयेतच्छारीरस्य ब्रम्हात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् ।
अतश्चेदं शास्त्रीयं ब्रम्हात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् ।
बाधिते च शारीरत्मत्वे तदाश्रय: समस्त: स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशोऽपरो ब्रम्हाण: कल्प्येत ।
दर्शयति च यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येदित्यादिना ब्रम्हात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् ।
न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयत इति युक्तं वक्तुं तत्त्वमसीति ब्रम्हात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् ।
तस्करद्दष्टान्तेन चान्रुताभिसन्धस्य बन्धनं सत्याभिसन्धस्य मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति ।
मिथ्याज्ञानविजृम्भितं च नानात्वम् ।
उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत ।
मृत्यो: स मृत्युमाप्नोतिय इह नानेव पश्यतीति च भेदद्दष्टिमपवदन्नेवैतद्दर्शयति ।
न चास्मिन्दर्शने ज्ञ्सनान्मोक्ष इत्युपपद्यते ।
सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् ।
उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते ।
नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विपयत्वात्स्थाण्वादिष्विव पुरुषादिज्ञानानि ।
तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघात: स्यात् ।
कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति ।
अत्रोच्यते ।
नैष दोष: ।
सर्वव्यवहाराणामेव प्राग्ब्रम्हात्मताविज्ञानात्सत्यत्वोपपत्ते: ।
स्वप्नव्यवहारस्येव प्राग्बोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतबुद्धिर्न कस्यचिदुत्पद्यते ।
विकारानेव त्वहं ममेत्यविद्ययात्मात्मीयेन भावेन सर्वो जन्तु: प्रतिपद्यते स्वाभाविकीं ब्रम्हात्मतां हित्वा ।
तस्मात्प्रागब्रम्हात्मताप्रतिबोधादुपपन्न: सर्वो लौकिको वैदिकश्च व्यवहार: ।
यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधान्न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति तद्वत् ।
कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रम्हात्मत्वस्य प्रतिपत्तिरुपपद्येत ।
न हि रज्जुसर्पेण दष्टो म्रियते ।
नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति ।
नैष दोष: । शङकाविषादिनिमित्तमरणादिकार्योपलब्धे: ।
स्वप्नदर्शानावस्थस्य च सर्पदंसनोदकस्नानादिकार्यदर्शनात् ।
तत्कार्यमप्यनृतमेवेति चेदब्रूयात । तत्र ब्रूम: ।
यद्यपि स्वप्नदर्शननावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगति: सत्यमेव फलं प्रतिबुद्धस्याप्यबाध्यमानत्वात ।
न हि स्वप्नादुत्थित: स्वप्नद्दष्टं सर्पदंशनोदकसानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् ।
एतेन स्वप्नद्दशोऽवगत्यबाधनेन हेहमात्रात्मवादो दषितो वेदितव्य: । तथा च श्रुति: ।

यदा कर्मसु काम्येषु स्त्रियं स्वन्पेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ॥


इत्यसत्येन स्वप्नदर्शनेन सत्याया: समृद्धे: प्राप्तिं दर्शयाति ।
तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेपु जातेषु न चिरमिव जीविष्यतीति विद्यादित्युक्त्वाऽथ स्वप्ना: पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तीत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं मूच्यत इति दर्शयति ।
प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीद्दशेन स्वप्नदर्शनेन साध्वागम: सूच्यत ईद्दशेनासाध्वागम इति ।
तथाऽकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्ते: ।
अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपाद्कं नात: परं किञ्चिदाकाङक्ष्यमस्ति ।
यथा हि लोके यजेतेयुक्ते किं केन कथमित्याकाङ्क्षयते नैवं तत्त्वमस्यहंब्रम्हास्मीत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति सर्वात्मैकत्वविषयत्वादवगते: ।
सति हयन्यस्मिन्नवशिष्यमाणेऽर्थ आकाङ्क्षा स्यात् ।
न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽर्थोऽस्ति य आकाङ्क्ष्येत ।
न चेयमवगतिर्गोत्पद्यत इति शक्यं वक्तुं तद्धास्य विजज्ञावित्यादिश्रुतिभ्य: ।
अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् ।
न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् ।
अविद्यानिवृत्तिफलदर्शनाद्बाधकज्ञानान्तराभावाच्च ।
प्राक चात्मैकत्वावगतेरव्याहत: सर्व: सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।
तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रम्हाकल्पनावकाशोऽस्ति ।
ननु मृदादिद्दष्टान्तप्रणयनात्परिणामवहब्रम्हा शास्त्रस्याभिमतमिति गम्यते ।
परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति ।
नेत्युच्यते । स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा स एष नेति नेत्यात्माऽस्थूलमनण्वित्याद्याभ्य: सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रम्हाण: कूटस्थत्वावगमात् ।
न हयेकस्य ब्रम्हाण: परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम ।
स्थितिगतिवत्स्यादीति चेत् ।
कूटस्थस्येति विशेषणात् ।
न हि कृटस्थस्य ब्रम्हाण: स्थितिगतिवदनेकधर्माश्रयत्वं संभवति ।
कृटस्थं च नित्यं ब्रम्हा सर्वविक्रियाप्रतिषेधादित्यवोचाम ।
न च यथा ब्रम्हाण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते प्रमाणाभावात् ।
कूटस्थब्रम्हात्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रं स एष नेति येत्यात्मेत्युपक्रम्याभयं वै जनक प्राप्तोसीत्येवंजातीयकम् ।
तत्रैतत्सिद्धं भवति ब्रम्हाप्रकरणे सर्वधर्मविशेषरहितब्रम्हादर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रम्हाणो जगदाकारपरिणामित्वादि तहब्रम्हादर्शनोपायत्वेनैव विनियुज्यते फलवत्सन्निधावफलं तदङ्गमितिवत् ।
न तु स्वतन्त्रफलाय कल्प्यत इति ।
न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मन: फलं स्यादिति वक्तुं युक्तं कूटस्थनित्यत्वान्मोक्षस्य ।
कूटस्थब्रम्हात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् ।
न । अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य ।
तस्माद्वा एतस्मादात्मन आकाश: सभूत इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वसक्तेरीश्वराज्जागनिस्थितिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेन्येषोऽर्थ: प्रतिज्ञातो जन्माद्यस्य यत इति ।
सा प्रतिज्ञा तदवस्थैव न तद्विरूद्धोऽर्थ: पुनरिहोच्यते ।
कथं नोच्यतेऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ।
शृणु यथा नोच्यते ।
सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्ति: प्रकृतिरिति च श्रुतिस्मृ त्योरभिलप्येते ।
ताभ्यामन्य: सर्वज्ञ ईश्वर आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तहब्रम्होति श्रुते: ।
नामरूपे व्याकरवाणि सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्त एकं बीजं बहुधा य: करोतीत्याद्श्रुतिभ्यश्च । एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति व्योमेव घटकरकाद्युपाध्यनुरोधि ।
स च स्वात्मभृतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मन: प्रतीष्टे व्यवहारविषये ।
तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्ष्येवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्ययापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते ।
तथा चोक्तम् ।
यत्र नान्यत्पश्यति नान्यच्छृणोत नान्यद्विजानाति स भूमेति ।
यत्र त्वस्य सर्वमास्मैवाभूत्तक्तेन कं पश्येदित्यादिना च ।
एवं परमार्थावस्थायं सर्वव्यवहाराभावं वदन्ति वेदान्ता: सर्वे ।
तथेश्वरगीतास्वपि :---

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: ।
अज्ञानेनावृतं ज्ञानं तेन मुहयन्ति जन्तव इति ॥


परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभाव: प्रदर्श्यते ।
व्यवहारावस्थायां तूक्त: श्रुतावपीश्वरादिव्यवहार एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदायेति ।
तथा चेश्वरगीतास्वपि :---

ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भामयन्सर्वभूतानि यन्त्रारूढानि माययेति ॥


सूत्रकारोऽपि परमार्थाभिप्रायेण तदनन्यत्वमित्याह ।
व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रम्हाण: कथयति ।
अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सुगणेषूपासनेषूपयोक्ष्यत इति ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-05T20:19:05.7300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

SĀLVA I(साल्व)

RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.