प्रथम: पाद: - सूत्र १२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


एतेन शिष्टापरिग्रहा अपि व्याख्याता: ॥१२॥

एतेन शिष्टापरिग्रहा अपि व्याख्याता: ।
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्नुरुतर तर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टै: केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावहयपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येष द्भावित: स परिहृत: ।
इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्कयत इत्यत: प्रधानमल्लनिबर्हणन्यायेनातिदिशति ।
परिगृहयन्त इति परिग्रहा न परिग्रहा अपरिग्रहा: शिष्टानामपरिग्रहा: शिष्टापरिग्रहा: ।
एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभि: केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादास्तेपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्या: ।
तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्वितव्यं किंचिदस्ति ।
तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाहयत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमनएऽप्यविमोक्ष आगमविरोधश्चेत्येवंजातीयकं निराकरणकारणम् ॥१२॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP