संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ४०

मध्यम भागः - अध्यायः ४०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
सुचन्द्रे पतिते राजन् राजेन्द्राणां शिरोमणौ ।
तत्पुत्रः पुष्कराक्षस्तु रामं योद्धुमथागतः ॥१॥

स रथस्थो महावीर्यः सर्वशस्त्रास्त्रकोविदः ।
अभिवीक्ष्य रणेत्युग्रं रामं कालातकोपमम् ॥२॥

चकार शरजालं च भार्गवेन्द्रस्य सर्वतः ।
मुहूर्त्तं जामदग्न्योऽपि बाणैः संझदितोऽभवत् ॥३॥

ततो निष्कम्य सहसा भार्गवेन्द्रो महाबलः ।
शरबन्धान्महाराज समुदैक्षत सर्वतः ॥४॥

दृष्ट्वा तं पुष्काराक्षं तु सुचन्द्रतनयं तदा ।
क्रोधमाहारयामास दिधक्षन्निव पावकः ॥५॥

स क्रोधेन समाविष्टो वारुणं समवासृजत् ।
ततो मेघाः समुत्पन्ना गर्जन्तो भैरवान्नवान् ॥६॥

ववृषुर्जलधाराभिः प्लावयन्तो धरां नृप ।
पुष्कराक्षो महावीर्यो वायव्यास्त्रुमवासृजत् ॥७॥

तेन तेऽदर्शनं नीताः सद्य एव बलाहकाः ।
अथ रामो भृशं क्रुद्धो ब्राह्मं तत्राभिसंदधे ॥८॥

पुष्कराक्षोऽपि तेनैव विचकर्ष महाबलः ।
ब्राह्म सोऽप्याहितं दृष्ट्वा दण्डाहत इवारगः ॥९॥

घोरं परशुमादाय निःश्वसंस्तमधावत ।
रामस्याधावतस्तत्र पुष्कराक्षो धनुर्धरः ॥१०॥

संदधे पञ्चविशिखान्दीप्तास्यानुरगानिव ।
एकैकेन च बाणेन हृदि शीर्षे भुजद्वये ॥११॥

शिखायां च क्रमाद्भित्त्वा तस्तंभ भृश मातुरम् ।
स चैवं पीडीतो रामः पुष्कराक्षेण संयुगे ॥१२॥

क्षणं स्थित्वा भृशं धावन्परशुं मूर्ध्न्यपतयात् ।
शिखामारभ्य पादान्तं पुथ्कराक्षं द्विधाकरोत् ॥१३॥

पतिते शकले भूमौ तत्कालं पश्यता नृणाम् ।
आश्चर्यं सुमाहज्जातं दिवि चैव दिवौ कसाम् ॥१४॥

विदार्य रामस्तं क्रोधात्पुष्कराक्ष महाबलम् ।
तत्सैन्यमदहत्क्रुद्धः पावको विपिनं यथा ॥१५॥

यतो यतो धावति भार्गवेन्द्रो मनोऽनिलौजाः प्रहरन्परश्वधम् ।
ततस्ततो वाजिरथेभमानवा निकृत्तगात्राः शतशो निपेतुः ॥१६॥

रामेण तत्रा तिबलेन संगरे निहन्यमानास्तु परश्वधेन ।
हा तात मातस्त्विति जल्पमांना भस्मीबभूवुः सुविचूर्णितास्तदा ॥१७॥

मुहूर्त्तमात्रेण च भार्गवेण तत्पुष्कराक्षस्य बलं समग्रम् ।
अनेकराजन्यकुलं हतेश्वरं इतं नवाक्षौहिणिकं भृशातुरम् ॥१८॥

पतिते पुष्कराक्षे तु कार्त्तवीर्यार्जुनः स्वयम् ।
आजगाम महावीर्यः सुवर्णरथमास्थितः ॥१९॥

नानाशस्त्रसमाकीर्णं नानारत्नपरिच्छदम् ।
दशनल्वप्रमाणं च शतवाजियुतं नृपः ॥२०॥

युते बाहुसहस्रेण नानायुधधरेण च ।
बभौ स्वर्लोकमारोक्ष्यन्देहति सुकृती यथा ॥२१॥

पुत्रास्तस्य महावीर्याः शतं युद्धविशारदाः ।
सेनाः संव्यूह्य संतस्थुः संग्रामे पितुराज्ञया ॥२२॥

कार्त्तवीर्यस्तु बलवान्रामं दृष्ट्वा रणाजिरे ।
कालान्तकयमप्रख्यं योद्धुं समुपचक्रमे ॥२३॥

दक्षे पञ्चशतं बाणान्वामे पञ्चशतं धनुः ।
जग्रा ह भार्गवेन्द्रस्य समरे जेतुमुद्यतः ॥२४॥

बाणवर्षं चकाराथ रामस्योपरि भूपते ।
यथा बलाहको वीर पर्वतोपरि वर्षति ॥२५॥

बाणवर्षेण नेनाजौ सत्कृतो भृगुनन्दनः ।
जग्राह स्वघनुर्दिव्यं बाणवर्षं तथाकरोत् ॥२६॥

तावुभौरणसंदृप्तौ तदा भार्गवहैहयौ ।
चक्रतुर्यद्धमतुलं तुमुलं लोमहर्षणम् ॥२७॥

ब्रह्मास्त्रं च सभूपालः संदधे रणमूर्द्धनि ।
वधाय भार्गवेन्द्रस्य सर्वशस्त्रास्त्रधृगबली ॥२८॥

रामोऽपि वार्युपस्पृश्य ब्रह्मं ब्राह्मय संदधे ।
ततो व्योम्नि सदा सक्ते द्वे चाप्य स्त्रे नराधिप ॥२९॥

ववृधाते जगत्प्रान्ते तेजसा ज्वलनार्कवत् ।
त्रयो लोकाः सपाताला दृष्ट्वा तन्महदद्भुतम् ॥३०॥

ज्वलदस्त्रयुगं तप्ता मेनिरेऽस्योपसंयमम् ।
रामस्तदा वीक्ष्य जगत्प्रणाशं जगन्निवासोक्तमथास्मरत्तदा ॥३१॥

रक्षा विधेयाद्य मयास्य संयमो निवारणीयः परमांशधारिणा ।
इति व्यवस्य प्रभुरुग्रतेजा नेत्रद्वयेनाथ तदस्त्रयुगमम् ॥३२॥

पीत्वातिरामं जगदाकलय्य तस्थौ क्षणं ध्यानगतो महात्मा ।
ध्यानप्रभावेण ततस्तु तस्य ब्रह्मास्त्रयुग्मं विगतप्रभावम् ॥३३॥

पपात भूमौ सहसाथ तत्क्षणं सर्वं जगत्स्वास्थ्यमुपाजगाम ।
स जामदग्न्यो महातां महीयान्स्रष्टुं तथा पालयितुं निहन्तुम् ॥३४॥

विभुस्तथापीह निजंप्रभावं गोपायितुं लोकविधिं चकार ।
धनुर्द्धरः शूरतमो महस्वान्सदग्रणीः संसदि तथ्यवक्ता ॥३५॥

कलाकलापेषु कृतप्रयत्नो विद्यासु शास्त्रेषु बुधो विधिज्ञः ।
एवं नृलोके प्रथयन्स्वभावं सर्वाणि कल्यानि करोति नित्यम् ॥३६॥

सर्वे तु लोका विजितास्तु तेन रामेण राजन्यनिषूदनेन ।
एवं स रामः प्रथितप्रभावः प्रशामयित्वा तु तदस्त्रयुग्मम् ॥३७॥

पुनः प्रवृत्तो निधनं प्रकर्तुं रणागणे हैहयवंशकेतोः ।
तुणीरतः पत्रियुगं गृहीत्वा पुङ्खे निधायाथ धनुर्ज्यकायाम् ॥३८॥

आलक्ष्य लक्ष्यं नृपकर्णयुग्मं चकर्त्त चूडामणिहर्तुकामः ।
स कृत्तकर्णो नृपतिर्महात्मा विनिर्जिताशेषजगत्प्रवीरः ॥३९॥

मेने निजं वीर्यमिह प्रणष्टं रामेण भूमीशतिरस्कृतात्मा ।
क्षणं धराधीशतनुर्विवर्णा गतानुभावा नृपतेर्बभूव ॥४०॥

लेख्येव सच्चित्रकरप्रयुक्ता सुदीनचित्तस्य विलक्ष्यतेऽग ।
ततः स राजा निजवीर्यवैभवं समस्तलोकाधिकतां प्रयातम् ॥४१॥

विचिन्त्य पौलस्त्यजयादिलब्धं शोचन्निवासीत्स जयाभिकाङ्क्षीं ।
दध्यौ पुनर्मीलितलोचनो नृपौ दत्तं तमात्रेयकुलप्रदीपम् ॥४२॥

यस्य प्रभावानुगृहीत ओजसा तिरश्चकारा खिललोकपालकान् ।
यदास्य हृद्येष महानुभावो दत्तः प्रयातो न हि दर्शनं तदा ॥४३॥

खिन्नोऽतिमात्रं धरणीपतिस्तदा पुनः पुनर्ध्यानपथं जगाम ।
स ध्यायमानोऽपि न चाजगाम दत्तो मनोगोचरमस्य राजन् ॥४४॥

तपस्विनो दान्ततमस्य साधोरनागसो दुष्कृतिकारिणो विभुः ।
एवं यदात्रेस्तनयो महात्मा दृष्टो न च ध्यानपथे नृपेण ॥४५॥

तदातिदुः खेन विदूयमानः शोकेन मोहेन युतो बभूव ।
तं शोकमग्नं नृपतिं महात्मा रामो जगादाखिलचित्तदर्शी ॥४६॥

मा शोकभावं नृपते प्रयाहि नैवानुशोचन्ति महानुभावाः ।
यस्ते वरायाभवमादिसर्गे स एव चाहं तंव सादनाय ॥४७॥

समागतस्त्वं भवधीरचित्तः संग्रामकाले न विषादचर्चा ।
सर्वो हि लोकः स्वकृतं भुनक्ति शुभाशुभं दैवकृतं विपाके ॥४८॥

अन्योनकोऽप्यस्य शुभाशुभस्य विपर्ययं कर्तुमलं नरेश ।
यत्ते सुपुण्यं बहुजन्मसंचितं तेनेह दत्तस्य वरार्हपात्रम् ॥४९॥

जातो भवानद्य तु दुष्कृतस्य फलं प्रभुङ्क्ष्व त्वमिहार्जितस्य ।
गुरुर्विमत्यापकृतस्त्वया मे यतस्ततः कर्णनिकृन्तनं ते ॥५०॥

कृतं मया पश्य हरन्तमोजसा चूडामणिं मामपत्दृत्य ते यशः ।
इत्येवमुक्त्वा स भृगुर्महात्मा नियोज्य बाणं च विकृष्य चापम् ॥५१॥

चिक्षेप राज्ञः स तु लाघवेन च्छित्त्वा मणिं रामममुपाजगाम ।
तद्वीक्ष्य कर्मास्य मुनेः सुतस्य स चार्जुनो हैहयवंशधर्त्ता ॥५२॥

समुद्यतोऽभूत्पुनरप्युदायुधस्तं हन्तुमाजौ द्विजमात्मशत्रुम् ।
शूलशक्तिगदाचक्रखढ्गपट्टिशतोमरैः ॥५३॥

नानाप्रहरणैश्चान्यैराजघान द्विजात्मजम् ।
स रामो लाघवेनैव संप्रक्षिप्तान्यनेन च ॥५४॥

शूलादीनि चकर्त्ताशु मध्य एव निजाशुगैः ।
स राजा वार्युपस्पृश्य ससर्जाग्नेयमुत्तमम् ॥५५॥

अस्त्रं रामो वारुणेन शमयामास सत्वरम् ।
गान्धर्वं विदधे राजा वायव्येनाहनद्विभुम् ॥५६॥

नागास्त्रं गारुडेनापि रामश्चिच्छेद भूपते ।
दत्तेन दत्तं यच्छूलमव्यर्थं मन्त्रपूर्वकम् ॥५७॥

जग्राह समरे राजा भार्गवस्य वधाय च ।
तच्छूलं शतसूर्याभमनिवार्यं सुरासुरैः ॥५८॥

चिक्षेप राममुद्दिश्य समग्रेण बलेन सः ।
मूर्ध्नि तद्भार्गवस्याथ निपपात महीपते ॥५९॥

तेन शूलप्रहारेण व्यथितो भार्गवस्तदा ।
मूर्च्छामवाप राजेन्द्र पपात च हरिं स्मरन् ॥६०॥

पतिते भार्गवे तत्र सर्वे देवा भयाकुलाः ।
समाजग्मुः पुरस्कृत्य ब्रह्मविष्णुमहेश्वरान् ॥६१॥

शङ्करस्तु महाज्ञानी साक्षान्मृत्युञ्जयः प्रभुः ।
भार्गवं जीवयामास संजीवन्या स विद्यया ॥६२॥

रामस्तु चेतनां प्राप्य ददर्श पुरतः सुरान् ।
प्रणनाम च राजेन्द्र भक्त्या ब्रह्मादिकांस्तु तान् ॥६३॥

ते स्तुता भार्गवेन्द्रेण सद्योऽदर्शनमागताः ।
स रामो वार्युस्पृश्य जजाप कवचं तु तत् ॥६४॥

उत्थितश्च सुसंरब्धो निर्दहन्निव चक्षुषा ।
स्मृत्वा पाशुपतं चास्त्रं शिवदत्तं स भार्गवः ॥६५॥

सद्यः संहृतवांस्तत्तु कार्त्तवीर्यं महाबलम् ।
स राजा दत्तभक्तस्तु विष्णोश्चक्रं सुदर्शनम् ।
प्रविष्टो भस्मसाज्जातं शरीरं बाहुनन्दन ॥६६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यवधो नाम चत्वारिंशत्तमोऽध्यायः॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP