TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ३

मध्यम भागः - अध्यायः ३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः ३३
ऋषय ऊचु ।
देवानां दानवानां च दैत्यानां चैव सर्वशः ।
उत्पत्तिं विस्तरेणैव ग्रूहि वैवस्वतेंऽतरे ॥१॥

सूत उवाच
धर्म्मस्यैव प्रवक्ष्यामि निसर्गन्तं निबोधत ।
अरुन्धतीवसुर्जामालंबा भानुर्मरुत्वती ॥२॥

संकल्पा च मुहूर्त्ता च साध्या विश्वा तथैव च ।
धर्मस्य पत्न्यो दश ता दक्षः प्राचेतसो ददौ ॥३॥

साध्यापुत्रास्तु धर्मस्य साध्या द्वादशजज्ञिरे ।
देवेभ्यस्तान्परान्देवान्दैवज्ञाः परिचक्षते ॥४॥

ब्राह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरस्ते समृता मन्वन्तरेष्विह ॥५॥

दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् ।
वित्तिश्चैव विवित्तिश्च आकूतिः कूतिरेव च ॥६॥

विज्ञाता चैव विज्ञातो मनो यज्ञस्तथैव च ।
नामान्येतानि तेषां वै यज्ञानां प्रथितानि च ॥७॥

ब्रह्मशापेन तेजाताः पुनः स्वायंभुवे जिताः ।
स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः ॥८॥

तामसे हरयो नाम वैकुण्ठा रेवतान्तरे ।
ते साध्याश्चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ॥९॥

धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः ।
पूर्वं समनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥१०॥

स्वारोचिषेंऽतरेऽतीता देवा ये वै महौजसः ।
तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेंऽतरे ॥११॥

किञ्चिच्छिष्टे तदा तस्मिन्देवा वै तुषिताब्रुवन् ।
एतामेव महाभागां वयं साध्यां प्रविश्य वै ॥१२॥

मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ।
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥१३॥

तस्यां द्वादश संभूता धर्मात्स्वायंभुवात्पुनः ।
नरनारायणो तत्र जज्ञाते पुनरेव हि ॥१४॥

विपश्चिदिन्द्रो यश्चाभूत्तथा सत्यो हरिश्च तौ ।
स्वारोचिषेंऽतरे पूर्वमास्तां तौ तुषितासुतौ ॥१५॥

तुषितानां तु साध्यात्वे नामान्येतानि चक्षते ।
मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥१६॥

वितिर्नयो हयश्चैव हंसो नारायणस्तथा ।
विभुश्चापि प्रभुश्चापि साध्या द्वादश जज्ञिरे ॥१७॥

स्वायंभुवैंऽतरे पूर्वं ततः स्वारो चिषे पुनः ।
नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥१८॥

प्राणापानावुदानश्च समानो व्यान एव च ।
चक्षुः श्रोत्रं रसो घ्राणं स्पर्शो बुद्धिर्मनस्तथा ॥१९॥

नामान्येतानि वै पूर्वं तुषितानां स्मृतानि च ।
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः ॥२०॥

धरो ध्रुवश्च सोमश्च आयुश्चैवानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥२१॥

धरस्य पुत्रो द्रविणो हुतहव्यो रजस्तथा ।
ध्रुवपुत्रोऽभवत्तात कालो लोकाप्रकालनः ॥२२॥

सोमस्य भगवान्वर्चा बुधश्च ग्रहबौधनः ।
धरोर्मी कलिलश्चैव पञ्च चन्द्रमसः सुताः ॥२३॥

आयस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ।
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः ॥२४॥

अग्नेः पुत्रं कुमारं तु स्वाहा जज्ञे श्रिया षृतम् ।
तस्य शाखो विशाखश्च नैगमेयश्च प्रष्टजाः ॥२५॥

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञान गतिश्चैव द्वौ पुत्रावनिलस्य च ॥२६॥

प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥२७॥

बृहस्पतेश्तु भगिनी भुवना ब्रह्मवादिनी ।
योगसिद्धा जगत्कृत्स्नमशक्ता चरति स्म ह ॥२८॥

प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ।
विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः ॥२९॥

विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः ।
क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा ॥३०॥

पुरूरवो मार्द्रवसो रोचमानश्च ते दश ।
धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः ॥३१॥

मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः ।
मुहूर्ताश्च मुहूर्ताया घोषलंबा ह्यजायत ॥३२॥

संकल्पायां तु संजज्ञे विद्वान्संकल्प एव तु ।
नव वीथ्यस्तु जामायाः पथत्रयमुपाश्रिताः ॥३३॥

पृथिवी विषयं सर्वमरुन्धत्यामजायत ।
एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥३४॥

मुहूर्ताश्चैव तिथ्याश्च प्रतिभिः सह सुव्रताः ।
नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत ॥३५॥

अहोरात्रविभागश्च नक्षत्राणि समाश्रितः ।
मुहुर्त्ताः सर्वनक्षत्रा अहोरात्रभिदस्तथा ॥३६॥

अहोरात्रकलानां तु षडशीत्यधिकाः स्मृताः ।
रवेर्गति विशेषेण सर्वर्त्तुषु च नित्यशः ॥३७॥

ततो वेदविदश्चैतां गतिमिच्छन्ति पर्वसु ।
अविशेषेषु कालेषु ज्ञेयः सवितृमानतः ॥३८॥

रौद्रः सार्पस्तथा मैत्रः पित्र्यो वासव एव च ।
आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ॥३९॥

प्राजापत्यस्तथैवेन्द्र इन्द्राग्नी निरृतिस्तथा ।
वारुणश्च यथार्यम्णो भगश्चापि दिनश्रिताः ॥४०॥

एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः ।
शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः ॥४१॥

अजैकपादहिर्बुध्न्यः पूषाश्वियमदेवताः ।
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥४२॥

सौम्यश्चापि तथादित्यो बार्हस्पत्यश्च वैष्मवः ।
सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ॥४३॥

एते रात्रेर्मुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च ।
इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा ॥४४॥

कालावस्थास्त्विमास्त्वेते मुहूर्त्ता देवताः स्मृताः ।
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च ॥४५॥

दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ।
स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम् ॥४६॥

वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ।
अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता ॥४७॥

ब्राह्मं सौम्यं तथार्द्रा च गजवीथीति शब्दिता ।
पुष्याश्लेषे तथादित्यं वीथी चैरावती मता ॥४८॥

तिस्रस्तु विथयो ह्येता उत्तरो मार्ग उच्यते ।
पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता ॥४९॥

हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥५०॥

एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
मूलं पूर्वोत्तराषाढे अजवीथ्याभिशब्दिते ॥५१॥

श्रवणं च धनिष्ठा च मार्गी शतभिषक्तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता ॥५२॥

एतास्तु वीथयस्तिस्रो दक्षिणे मार्ग उच्यते ।
अष्टाविशति याः कन्या दक्षः सोमाय ता ददौ ॥५३॥

सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्त्तिताः ।
तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥५४॥

यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः ।
चतुर्दशा महाभागाः सर्वास्ता लोकमातरः ॥५५॥

अदितिर्दितिर्दनुः काष्ठारिष्टानायुः खशा तथा ।
सुरभिर्विनता ताम्रा मुनिः क्रोधवशा तथा ॥५६॥

कद्रूर्माता च नागानां प्रजास्तासां निबोधत ।
स्वायंभुवेऽन्तरे तात ये द्वादश सुरोत्तमाः ॥५७॥

वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेंऽतरे ।
उपस्थितेंऽतरे ह्यस्मिन्पुनर्वैवस्वतस्य ह ॥५८॥

आराधिता आदित्या ते समेत्योचुः परस्परम् ।
एतामेव महाभागामदितिं संप्रविश्य वै ॥५९॥

वैवस्वतेंऽतरे ह्यस्मिन्योगादर्द्धेन तेजसा ।
गच्छेम पुत्रतामस्यास्तन्नः श्रेयो भविष्यति ॥६०॥

एवमुक्त्वा तु ते सर्वे वर्त्तमानेंऽतरे तदा ।
जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः ॥६१॥

शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि ।
वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा ॥६२॥

तेषामपि हि देवानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमयावुभौ ॥६३॥

दृष्टानुश्रविके यस्मात्सक्ताः शब्दादिलक्षणे ।
अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥६४॥

इत्येष विषये रागः संभूत्याः कारणं स्मृतम् ।
ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥६५॥

स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः ।
तामसे हरयो देवा जाताश्चा रिष्टवे तु वै ॥६६॥

वैकुण्ठाश्चाश्रुषे साध्या आदित्याः सप्तमे पुनः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥६७॥

इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥६८॥

इत्येते द्वादशादित्याः कश्यपस्य सुता विभोः ।
सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे ॥६९॥

महादेवप्रसादेन तपसा भाविता सती ।
अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम् ॥७०॥

अचैकपादहिर्बुध्न्यौ द्वावेकं च ज्वरं तथा ।
भुवनं चेश्वरं मृत्युं कपालीति च विशुतम् ॥७१॥

देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् ।
तपसोग्रेण महाता सुरभिस्तानजीजनत् ॥७२॥

ततो दुहितरावन्ये सुरभिर्देव्यजायत ।
रोहिणी चैव सुभगां गान्धवी च यशस्विनीम् ॥७३॥

रोहिण्या जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः ।
सुरूपा हंसकाली च भद्रा कामदुघा तथा ॥७४॥

सुषुवे गाः कामदुघा सुरूपा तनयद्वयम् ।
हंसकाली तु महिषान्भद्रायस्त्वविजातयः ॥७५॥

विश्रुतास्तु महाभागा गान्धर्व्या वाजिनः सुताः ।
उच्चैःश्रवादयो जाताः खेचरास्ते मनोजवाः ॥७६॥

श्वेताः शोणाः पिशङ्गास्च सारङ्गा हरि तार्जुनाः ।
उक्ता देवोपवाह्यास्ते गान्धर्वियोनयो हयाः ॥७७॥

भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्रप्रभो वृषः ।
स्रग्वी ककुद्मान्द्युतिमा नमृतालयसंभवः ॥७८॥

सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ।
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः ॥७९॥

धर्मपु पुत्राः स्मृताः साध्या विश्वे च वसवस्तथा ।
यथेन्धनवशाद्वह्निरेकस्तु बहुधा भवेत् ॥८०॥

भवत्येकस्तथा तद्वन्मूर्त्तीनां स पिता महः ।
एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः ॥८१॥

एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः ।
ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः ॥८२॥

या तत्र राजसी तस्य तनुः सा वै प्रजाकरी ।
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥८३॥

सात्त्विकी पौरुषी या तु सा तनुः पालिका स्मृता ।
राजसी ब्रह्मणो या तु मारीचः कश्यपोऽभवत् ॥८४॥

तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते ॥८५॥

त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवो वै प्रजाकरी ।
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥८६॥

सृजत्यथानुगृह्णाति तथा संहरति प्रजाः ।
एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः ॥८७॥

प्राजापत्या च रौद्रा च वैष्णवी चेति तास्त्रिधा ।
एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने ॥८८॥

सांख्ययोगरतैर्धीरैः पृथगेकार्थदर्शिभिः ।
अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः ॥८९॥

एकत्वेन पृथक्त्वेन तासु भिन्नाः प्रजास्त्विमाः ।
इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः ॥९०॥

ब्रह्माणां कारणं के चित्केचिदाहुः प्रजापतिम् ।
केचिद्भवं परत्वेन प्राहुर्विष्णुं तथापरे ॥९१॥

अभिज्ञानेन संभूताः सक्तारिष्टविचेतसः ।
सत्त्वं कालं च देशं च कार्यं चावेक्ष्य कर्म च ॥९२॥

कारणं तु स्मृता ह्येते नानार्थेष्विह देवताः ।
एकं प्रशंसमानस्तु सर्वानेवप्रशसति ॥९३॥

एकं निन्दति यस्त्वेषां सर्वानेव स निन्दति ।
न प्रद्वेषस्ततः कार्यो देवतासु विजानता ॥९४॥

न शक्या ईश्वराज्ञातुमैश्वर्येण व्यवस्थिताः ।
एकत्वात्स त्रिधा भूत्वा संप्रमोहयति प्रजाः ॥९५॥

एतेषां वै त्रयाणां तु विचिन्वन्त्यन्तरं जनाः ।
जिज्ञासवः परीहन्ते सक्ता दुष्टा विचेतसः ॥९६॥

इदं परमिदं नेति संरंभाद्भिन्नदर्शिनः ।
यातुधाना विशेषा ये पिशाचाश्चैव नान्तरम् ॥९७॥

एकः स तु पृथक्त्वेन स्वयं भूत्वा च तिष्ठति ।
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन्प्रजाः ॥९८॥

तेष्वेकं यजते यो वै स तदा यजते त्रयम् ।
तस्माद्देवास्त्रयो ह्येते नैरन्तर्येणधिष्टताः ॥९९॥

तस्मात्पृथक्त्वमेकत्वं संख्या संख्ये गतागतम् ।
अल्पत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥१००॥

तस्मात्सृष्ट्वानुगृह्णति ग्रसते चैव सर्वशः ।
गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते ॥१०१॥

रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्मनून् ।
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥१०२॥

प्राजापत्या च रौद्री च तनुर्या चैव वैष्णवी ।
मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः ॥१०३॥

क्षेत्रज्ञा अपि चान्येऽस्य विभोर्जायन्त्यनुग्रहात् ।
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ॥१०४॥

जायन्ते तत्समाश्चैव तानपीमान्निबोधत ।
राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपोऽभवत् ॥१०५॥

तामस्यास्तस्य चांशेन कालो रुद्रः स उच्यते ।
सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत ॥१०६॥

त्रिषु कालेषु तस्यैता ब्रह्ममस्तनवो द्विजाः ।
मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः ॥१०७॥

मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः ।
युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात् ॥१०८॥

प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः ।
कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः ॥१०९॥

संप्राप्ते चैव कल्पान्ते सप्तरशिमर्दिवाकरः ।
भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत ॥११०॥

विष्णुः प्रजानुग्रहकृत्सदा पालयति प्रजाः ।
तस्यां तस्यामवस्थायां तत उत्पाद्य कारणम् ॥१११॥

सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः ।
तस्याशेन च विज्ञेयो मनोः स्वायंभुवेन्तरे ॥११२॥

आकृत्यां मनसा देव उत्पन्नः प्रथमं विभुः ।
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे ॥११३॥

तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ।
औत्तमे ह्यन्तरे वापि ह्यजितस्तु पुनः प्रभुः ॥११४॥

सत्यायामभवत्सत्यः सह सत्यैः सुरोत्तमैः ।
तामसस्यातरे चापि स देवः पुनरेव हि ॥११५॥

हरिण्यां हरिभिः सार्द्धं हरिरेव बभूव ह ।
वैवस्वतेन्तरे चापि हरिर्देवेः पुनस्तु सः ॥११६॥

वैकुण्ठो नामतो जज्ञे विधूतरजसैः सह ।
मरीचात्कश्यपाद्विष्णुरदित्यां संबभूव ह ॥११७॥

त्रिभिः क्रमैरिमांल्लोकञ्जित्वा विष्णुस्त्रिविक्रमः ।
प्रत्यपादयदिन्द्राय दैवतैश्चैव स प्रभुः ॥११८॥

इत्येतास्तनवो जाता व्यतीताः सप्तसप्तसु ।
मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ॥११९॥

यस्माद्विश्वमिदं सर्वं जायते लीयते पुनः ।
यस्यांशेनामराः सर्वे जायन्ते त्रिदिवेश्वराः ॥१२०॥

वर्द्धन्ते तेजसा बुद्ध्या श्रुतेन च बलेन च ।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥१२१॥

तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् ।
स एव जायतेंऽशेन केचिदिच्छन्ति मानवाः ॥१२२॥

एके विवदमानास्तु दृष्टान्ताच्च ब्रुवन्ति हि ।
एषां न विद्यते भेदस्त्रयाणां द्युसदामिह ॥१२३॥

जायन्ते पोहयन्त्यं शैरीश्वरा योगमायया ॥१२४॥

तस्मात्तेषां प्रचारे तु युक्तायुक्तं न विद्यते ।
भूतानुवादिना माद्या मध्यस्था भूतवादिनाम् ॥१२५॥

भूतानुवादिनः सक्तस्त्रयश्चैव प्रवादिनाम् ।
परीक्ष्य चानुगृह्णन्ति निगृह्णन्ति खलान्स्वयम् ॥१२६॥

मत्तः पूर्व्वे च ते तस्मात्प्रभवश्च ततोऽधिकाः ।
तथाधिकरणैरतैर्यथा तत्त्वनिदर्शकाः ॥१२७॥

देवानां देवभूताश्च ते वै सर्वप्रवर्त्तकाः ।
कर्म्मणां महतां ते हि कर्त्तारो जगदीश्वराः ॥१२८॥

श्रुतिज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्तिताः ।
बालिशास्ते न जानन्ति दैवतानि प्रभागशः ॥१२९॥

इमं चोदाहरन्त्यत्र श्लोकं योगेश्वरान्प्रति ।
कुर्याद्योगबलं प्राप्य तैश्च सर्वैर्महांश्चरेत् ॥१३०॥

प्राप्नुयाद्विषयांश्चैव पुनश्चोर्द्ध्व तपश्चरेत् ।
संहरेत पुनः सर्व्वान्सूर्य्यो ज्योतिर्गणानिव ॥१३१॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
स्वयंभूत्रैगुण्यस्वरूपवर्णनं नाम तृतीयोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

transformation calculus

  • रुपांतरण कलन 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site