TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः १५

मध्यम भागः - अध्यायः १५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः १५
ऋषय ऊचुः
अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः ।
श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः ॥१॥

अतीव विस्तरो ह्यस्य विशेषेण तु कीर्त्तितः ।
देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा ॥२॥

सूत उवाच
कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत् ।
श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात् ॥३॥

उक्तं श्राद्धंमया पूर्वं विधिश्च श्राद्धकर्मणि ।
परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम् ॥४॥

न मीमांस्याः सदा विप्राः पवित्रंह्येतदुत्तमम् ।
दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम् ॥५॥

यस्मिन्दोषाः प्रदृश्येरम्स हि कार्येषु वर्जितः ।
जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः ॥६॥

अविज्ञातं द्विजं श्राद्धे न परीक्षेत पण्डितः ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥७॥

तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ।
पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः ॥८॥

उर्वी सागरपर्यन्तां देवा योगेश्वरः सदा ।
नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन् ॥९॥

तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः ।
व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च ॥१०॥

अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन ।
सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव ॥११॥

तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् ।
सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् ॥१२॥

यस्तु श्राद्धेऽतिथिं प्राप्तं दैवे चाप्यवमन्यते ।
तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः ॥१३॥

देवाश्च पितरश्चैव तेमेवान्तर्हिता द्विजम् ।
आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात् ॥१४॥

अपूजितो दहत्येष दिशेत्कामांश्च पूजितः ।
सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा ॥१५॥

वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा ।
वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा ॥१६॥

अभ्यागतः पाकचारदतिथिः स्यादपावकः ।
अतिथेरतिथिः प्रोक्तः सोऽतिथिर्योग उच्यते ॥१७॥

नाव्रती न च संकीर्णो नाविद्यो नाविशेषवित् ।
न च संतानसंबद्धो न देवी नागसेऽतिथिः ॥१८॥

पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते ।
तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता ॥१९॥

न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन ।
तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः ॥२०॥

अक्लिष्ट मव्रणं युक्तं कृशवृत्तिमयाचकम् ।
एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत् ॥२१॥

नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् ।
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ॥२२॥

समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः ।
नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम् ॥२३॥

पाप्मानं गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ।
यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत् ॥२४॥

पञ्च वेदान्सेतिहासान्यः पठेद्द्विजसत्तमः ।
योगादनन्तरं सोऽथ नियोक्तव्यो विजानता ॥२५॥

त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम् ।
एकवेदस्ततः पश्चादुपाध्यायस्ततः परम् ॥२६॥

पावना येऽत्र संख्यातास्तान्प्रवक्ष्ये निबोधत ।
य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः ॥२७॥

षडङ्गविद्ध्यानयोगौ सर्वतत्रस्तथैव च ।
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ॥२८॥

श्राद्धकल्पे भवेद्यस्तु सन्निपत्य तु पावनः ।
चतुर्दशानां विद्यानामेकस्यामपि पारगाः ॥२९॥

यथावद्वर्त्तमानाश्च सर्वे ते पङ्क्तिपावनाः ।
असंदेहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः ॥३०॥

यश्चरेद्विधिवद्विप्र समा द्वादश संततः ।
त्रिनाचिकेतस्त्रै विद्यो यश्च धर्मान्द्विजः पठेत् ॥३१॥

बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गतो द्विजः ।
सर्वे ते पावना विप्राः पङ्क्तीनां समुदात्दृताः ॥३२॥

आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः ।
पितरस्तस्य तन्मासं तस्मिन्रितसि शेरते ॥३३॥

ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते ।
यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि ॥३४॥

वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते ।
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ॥३५॥

वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।
यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः ॥३६॥

आश्रमोऽपावनो यस्तु पञ्चमस्संकरात्मकः ।
चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च ॥३७॥

चतुराश्रमबाह्येभ्य स्तेभ्यः श्राद्धे न दापयेत् ।
यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः ॥३८॥

अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् ।
अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ ॥३९॥

उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः ।
निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः ॥४०॥

औपवस्तास्तथा सांख्या नास्तिका वेदनिन्दकाः ।
ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः ॥४१॥

वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा ।
निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् ॥४२॥

कारुकादीननाचारांल्लोकवेदबहिष्कृतान् ।
गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत् ॥४३॥

एतैस्तु वर्त्तयेद्यस्तु कृष्णवर्णं स गच्छति ।
योऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः ॥४४॥

व्याकर्षणं सत्त्वनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।
शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम् ॥४५॥

मिथ्यासंकल्पिनः सर्वानुद्वृत्तांश्च विवर्जयेत् ।
मिथ्याप्रवादी निन्दाकृत्तथा सूचकदांभिकौ ॥४६॥

उपपातकसंयुक्ताः पातकैश्च विशेषतः ।
वेदे नियोगदातारो लोभमोहफलर्थिनः ॥४७॥

ब्रह्मविक्रयिणस्तान्वै श्राद्धकर्मणि वर्जयेत् ।
न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत् ॥४८॥

वक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ।
भृतकोऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः ॥४९॥

नार्हतस्तावपि श्राद्धे ब्रह्माणः क्रयविक्रयी ।
क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ ॥५०॥

वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ।
आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति ॥५१॥

उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ।
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः ॥५२॥

नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी ।
स्त्रियो रक्तान्तरा येषां परदारपराश्च ये ॥५३॥

अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् ।
वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि ॥५४॥

स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ।
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ॥५५॥

न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते ।
स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत् ॥५६॥

यो दद्याच्चानुसंमोहान्न तद्गच्छति वै पितॄन् ।
तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि ॥५७॥

अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा ।
अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः ॥५८॥

पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः ।
यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति ॥५९॥

तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ।
दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च ॥६०॥

सांगुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत् ।
एतान्येव च सर्वाणि दानानि च विशेषतः ॥६१॥

अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत् ।
मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत् ॥६२॥

ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥६३॥

शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् ।
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम् ॥६४॥

तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम् ।
व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम् ॥६५॥

सत्यासत्यं च यद्दृष्टं सद सच्च महात्मभिः ।
सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः ॥६६॥

तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम् ॥६७॥

ऋचश्च यो वेद स वेद वेदान्यजूंषि यो वेद यज्ञम् ।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥६८॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशोऽध्यायः॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

book account

  • पु. पुस्तकी लेखा 
  • पु. पुस्तक लेखा 
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.