TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः १३

मध्यम भागः - अध्यायः १३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः १३
बृहस्पतिरुवाच
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽव्ययाः ।
योगात्मानो महात्मानो विपाप्मानो महौजसः ॥१॥

प्रेत्य च स्वर्गलोकाय कामैश्च बहुलं भुवि ।
येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिः क्रमेण तु ॥२॥

तानि वक्ष्याम्यहं सौम्य सरांसि सरितस्तथा ।
तीर्थानि चैव पुण्यानि देशांश्छैलांस्तथाश्रमान् ॥३॥

पुण्यो हि त्रिषु लोकेषु सदैवामरकण्टकः ।
पर्वतप्रवरः पुण्यः सिद्धयारणसेवितः ॥४॥

यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च ।
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ॥५॥

यत्र मृत्योर्गतिर्न्नास्ति तथैवासुररक्षसाम् ।
न भयं नैव चालक्ष्मीर्यावद्भूमिर्द्धरिष्यति ॥६॥

तपसा तेजसा तस्य भ्रजते स नगोत्तमः ।
शृङ्गे माल्यवतो नित्यं वह्निः संवर्त्तको यथा ॥७॥

मृदवस्तु सुगन्धाश्च हेमाभाः प्रियदर्शनाः ।
शान्ताःकुशा इति ख्याताः परिदक्षिणनर्मदाम् ॥८॥

दृष्टवान्स्वर्गसोपानं भगवानङ्गिराः पुरा ।
अग्निहोत्रे महातेजाः प्रस्तारार्थं कुशोत्तमान् ॥९॥

तेषु दर्भेषु यः पिण्डान्मरकण्टटकपर्वते ।
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ॥१०॥

तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् ।
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥११॥

तत्र ज्वालासरः पुण्यं दृश्यते चापि पर्वसु ।
सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥१२॥

प्राग्दक्षिणायतावर्त्ता वापी सा सुनगोत्तमे ।
कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः ॥१३॥

सिद्धिक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि ।
संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ ॥१४॥

धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम् ।
पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः ॥१५॥

अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः ।
सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके ॥१६॥

महेन्द्रःपर्वतः पुण्यो रम्यः शक्रनिषेवितः ।
तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम् ॥१७॥

वैलाटशिखरे युक्त्वा दिव्यं चक्षुः प्रवर्तते ।
अधृष्यश्चैव भूतानां देववच्चरते महीम् ॥१८॥

सप्तगोदावरे चैव गोकर्णे च तपोवने ।
अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः ॥१९॥

धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः ।
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥२०॥

गोकर्णे निहितं देवैर्नास्तिकानां निदर्शनम् ।
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥२१॥

देवर्षिभवने शृङ्गे सिद्धचारणसेविते ।
आरुह्यतं निय मवांस्ततो याति त्रिविष्टपम् ॥२२॥

दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् ।
आपश्चन्दनसंयुक्ताः स्पन्देति सततं ततः ॥२३॥

नदी प्रवर्तते ताभ्यस्ताम्रपर्णीति नामतः ।
या चन्दनमहाखण्डाद्दक्षिणं याति सागरम् ॥२४॥

नद्यास्तस्याश्च ताम्रायास्तूह्यमाना महोदधौ ।
शङ्खा भवन्ति शुक्त्यश्च जायते यासु मौक्तिकम् ॥२५॥

उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् ।
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥२६॥

चन्दनेभ्यः प्रसूतानां शङ्खानां मौक्तिकस्य वा ।
पापकर्त्तॄनपि पितॄंस्तारयन्ति यथाश्रुति ॥२७॥

चन्द्रतीर्थे कुमार्यां च कावेरीप्रभवे क्षये ।
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥२८॥

एकस्था यत्र दृश्यन्ते वृक्षाह्यौशीरपर्वते ।
पलाशाः खदिरा बिल्वाः प्लक्षाश्वत्थविकङ्कताः ॥२९॥

एवं द्विमण्डलाविद्धं विज्ञेयं द्विजसत्तमाः ।
अस्मिंस्त्यक्त्वा जनोंऽगाति क्षिप्रं यात्यमरावतीम् ॥३०॥

श्रीपर्वतस्य तीर्थे तु वैकृते च तथा गिरौ ।
कर्माणि तु प्रयुक्ता नि सिद्ध्यन्ति प्रभवाप्यये ॥३१॥

दुष्प्रयुक्ता हि पितृषु सुप्रयोगा भवन्त्युत ।
पितॄणां दुहिता पुण्या नर्मदा सरितां वरा ॥३२॥

यत्र श्राद्धानि दत्तांनि ह्यक्षयाणि भवन्त्युत ।
माठरस्य वने पुण्ये सिद्धचारणसेविते ॥३३॥

अन्तर्द्धानेन गच्छन्ति युक्त्वा तस्मिन्महा गिरौ ।
विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनीम् ॥३४॥

धारां पापा न पश्यन्ति धारां पश्यन्ति साधवः ।
तत्र तद्दृश्यते पापं केषां चित्पापकर्मणाम् ॥३५॥

कैलासे या मतङ्गस्य वापी पापनिषूदनी ।
स्नात्वा तस्या दिवं यान्ति कामचारा विहङ्गमाः ॥३६॥

शौर्पारके तथा तीर्थे पर्वते पालमञ्जरे ।
पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा ॥३७॥

विमले च विपापे च संकल्पं प्राप्य चाक्षयम् ।
श्रीवृक्षे चित्रकूटे च जंबूमार्गे च नित्यशः ॥३८॥

असितस्य गिरौ पुण्ये योगाचार्यस्य धीमतः ।
तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः ॥३९॥

पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलमा ।
महोदधौ प्रभासे च तद्वदेव विनिर्दिशेत् ॥४०॥

देविकायां वृषो नाम कूपः सिद्धनिषेवितः ।
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ॥४१॥

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः ।
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥४२॥

अक्षयं सर्वकामीयं श्राद्धं प्रीणाति वै पितॄन् ।
जातवेदः शिला तत्र साक्षादग्नेः सनातनात् ॥४३॥

श्राद्धानि चाग्निकार्यं च तत्र कुर्यात्सदा क्षयम् ।
यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते ॥४४॥

अग्निशान्तः पुनर्जातस्तत्र दत्तं ततोऽक्षयम् ।
दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके ॥४५॥

यथोद्दिष्टफलं तेषां क्रतूनां नात्र संशयः ।
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम् ॥४६॥

श्राद्धं तत्र सदाक्षय्यं दाता स्वर्गे च मोदते ।
श्राद्धं सुंदनिसुंदे च देयं पापनिषू दनम् ॥४७॥

श्राद्धं तत्राक्षयं प्रोक्तं जपहोमतपांसि च ।
जतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन् ॥४८॥

दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् ।
पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः ॥४९॥

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः ।
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥५०॥

अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा ।
अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते ॥५१॥

प्रायशो मद्रवा पुण्या शिवो नाम ह्रदस्तथा ।
तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा ॥५२॥

ऊर्ज्जन्तः पर्वतः पुण्यो यत्र योगेश्वरालयः ।
अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः ॥५३॥

ऋग्यजुः सामशिरसः कपोताः पुष्पसाह्वयाः ।
आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा ॥५४॥

गत्वैतान्मुच्यते पापद्द्विजो वह्निं समाश्रयन् ।
श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च ॥५५॥

पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् ।
ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम् ॥५६॥

सिंधुसागरसंभेदे तथा पञ्चनदे क्षयम् ।
विरजायां तथा पुण्यं मद्रवायां च पर्वते ॥५७॥

देयं सप्तनदे श्राद्धं मानसे वा विशेषतः ।
महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा ॥५८॥

संध्यायां च महानद्यां दृश्यते महादद्भुतम् ।
अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम् ॥५९॥

संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः ।
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम् ॥६०॥

कृतात्मा वाकृतात्मा च यत्र विज्ञायते नरः ।
स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम् ॥६१॥

चीराण्युत्सृज्य यस्मिंस्तु दिवं सप्तर्षयो गाताः ।
अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु ॥६२॥

स्नात्वा स्वर्गमवाप्नोति तस्मिंस्तीर्थेत्तमे नरः ।
ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम् ॥६३॥

नन्दीश्वरस्य सा मूर्त्तिर्निराचारैर्नदृश्यते ।
दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये ॥६४॥

कृत्वा प्रदक्षिणं तांस्तु गच्छन्त्यानन्दिता दिवम् ।
सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः ॥६५॥

पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः ।
कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम् ॥६६॥

उक्तमेवाक्षयं श्राद्धं धर्मराजनिषेवितम् ।
श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम् ॥६७॥

पुंसः सन्निहितायां तु कुरूक्षेत्रे विशेषतः ।
अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत् ॥६८॥

सरस्वत्यां विनशने प्लक्षप्रश्रवणे तथा ।
व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः ॥६९॥

देयमोङ्कारपवने श्राद्धमक्षयमिच्छता ।
शक्रावतारे गङ्गायां मैनाके च नगोत्तमे ॥७०॥

यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते ।
अत्युष्णाश्चातिशीताश्च आपस्तस्मिन्निदर्शनम् ॥७१॥

यमस्य भगिनी पुष्या मार्त्तण्डदुहिता शुभा ।
तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ॥७२॥

ब्रह्मतुण्डह्रदे स्नात्वा सद्दयो भवति ब्राह्मणः ।
तस्मिंस्तु श्राद्धमानन्त्यं जपहोमतपांसि च ॥७३॥

स्थाणुभूतोऽचरत्तत्र वसिष्टो वै महातपाः ।
अद्यापि तत्र दृश्यन्ते पादपा मणिबर्हणाः ॥७४॥

तुला तु दृश्यते तत्र धर्मान्धर्मनिधर्शिनी ।
यथा वै तोलितं विप्रैस्तीर्थानां फलमुत्तमम् ॥७५॥

पितॄणां दुहिता योगा गन्धकालीति विश्रुता ।
चतुर्थो ब्रह्मणस्त्वंशः पराशरकुलोद्भवः ॥७६॥

व्यसिष्यति चतुर्द्धा वै वेदं धीमान्महामुनिः ।
महायोगं महात्मानं या व्यासं जनयिष्यति ॥७७॥

अच्छोदकं नामसरस्तत्राच्छोदासमुद्भवः ।
मत्स्ययोनौ पुनर्जाता नियोगात्कारणेन तु ॥७८॥

तस्यास्त्वाद्याश्रमे पुण्ये पुण्यकृद्भिर्निषेविते ।
दत्तं सकृदपि श्राद्धमक्षयं समुदाहृतम् ॥७९॥

नद्यां योगसमाधानं दत्तं युगपदुद्भवेत् ।
कुबेरतुङ्गे पापघ्नं व्यासतीर्थेतथैव च ॥८०॥

पुण्यायां ब्रह्मणो वेद्यां श्राद्धमानन्त्यमिष्यते ।
सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः ॥८१॥

अनिवर्तनं तु नन्दायां वेद्याः प्रागुत्तरदिशि ।
सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्त्तते ॥८२॥

महालये पदं न्यस्तं महादेवेन धीमता ।
भूतानामनुकंपार्थं नास्तिकानां निदर्शनम् ॥८३॥

विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये ।
नन्दायां विरजे चैव तथैव च महालये ॥८४॥

आत्मानं तारयन्तीह दशपूर्वान्दशापरान् ।
काकह्रदे जातिस्मर्यं सुवर्णममितौजसम् ॥८५॥

कौमारं च सरः पुण्यं नागभोगाभिरक्षितम् ।
कुमारतीर्थे स्नात्वा तु त्रिदिवं याति मानवः ॥८६॥

देवालये तपस्तस्वा एकपादेन दुश्चरम् ।
निराहारो युगं दिव्यमुमातुङ्गो स्थितो ज्वलन् ॥८७॥

उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥८८॥

अक्षयं तु सदा श्राद्धं शालग्रामे समन्ततः ।
दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनाम् ॥८९॥

प्रत्यदेशो ह्यशिष्टानां शिष्टानां च विशेषतः ।
तत्र देवह्रदः पुण्यो ब्रह्मणो नागराट्शुचिः ॥९०॥

पिण्डं गृह्णति हि सतां न गृह्णात्यसतां सदा ।
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ॥९१॥

प्रत्यक्षं दृश्यते धर्मस्तीर्थयोर्नतयोर्द्वयोः ।
कारवत्यां च शाण्डिल्यां गुहायां वामनस्य च ॥९२॥

गत्वा चैतानि पूतःस्याच्छ्रदद्धमक्षयमेव च ।
जपो होमस्तपो ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥९३॥

ब्रह्मचर्यं च यौ धत्ते गुरुभक्तिं शतं समाः ।
एवमाद्यास्सरिच्छ्रेष्ठा यत्स्नानादघमोक्षणम् ।
कुमारधारा तत्रैव दृष्टा पापं प्रणश्यति ॥९४॥

ध्यानासनं तु तत्रैव व्यासस्याद्यापि दृश्यते ।
शैलः कान्तिपुराभ्याशे प्रागुदीच्यां दिशि स्थितः ॥९५॥

पुण्य पुष्करिणी तत्र किरातगणरक्षिता ।
यस्यां स्नात्वा सकृद्विप्रः कामानाप्नोति शाश्वतान् ॥९६॥

अदृश्यः सर्वभूतानां देववच्चरते महीम् ॥९७॥

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥९८॥

देवदारुवने वापि धारायास्तु निदर्शनम् ।
निर्धूतानि तु पापानि दृश्यन्ते सुकृतात्मनाम् ॥९९॥

भागीरथ्यां प्रयागे तु नित्यमक्षयमुच्यते ।
कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले ॥१००॥

वाराणस्यां नगर्यां च देयं श्राद्धं प्रयत्नतः ।
तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम् ॥१०१॥

गत्वा चैतानि पूर्तः स्याच्छ्राद्धमक्षय्यमेव च ।
जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥१०२॥

लौहित्ये वैतरण्यां चस्वर्गवेद्यां तथैव च ।
सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः ॥१०३॥

गयायां धर्मवृष्ठे तु सरसि ब्रह्मणस्तथा ।
गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ॥१०४॥

हिमं च पतते तत्र समन्तात्पञ्चयो जनम् ।
भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ॥१०५॥

मतङ्गस्य वनं तत्र दृश्यते सर्वमानुषैः ।
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् ॥१०६॥

यद्दण्डकवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ।
यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम् ॥१०७॥

तुलामानैस्तथा चापि शास्त्रैश्च विविधैस्तथा ।
उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः ॥१०८॥

तृतीयायां तथा पादे निराधायां तु मण्डले ।
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ॥१०९॥

मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता ।
बहुदेवयुगांस्तप्त्वा तपस्तीव्रं सुदश्चरम् ॥११०॥

अल्पेनाप्यत्र कालेन नरो धर्मपरायणः ।
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥१११॥

सिद्धानां प्रीतिजननं पपानां च भयङ्करम् ।
लेलिहानैर्महाघोरै रक्ष्यते सुमहोरगैः ॥११२॥

नाम्ना कनकनन्दीति तीर्थं जगति विश्रुतम् ।
उदीच्यां मुण्डपृष्टस्य ब्रह्मर्षिगणसेवितम् ॥११३॥

तत्र स्नात्वा दिवंयान्ति स्वशरीरेण मानवाः ।
दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृतम् ॥११४॥

ऋणैस्त्रिभिस्ततः स्नात्वा निष्क्रीणाति नरस्तनुम् ।
मानसे सरसि स्नात्वा श्राद्धंनिर्वर्त्तयेत्ततः ॥११५॥

तीरे तु सरसस्तस्य देवस्या यतनं महत् ।
आरुह्य तु जपंस्तत्र सिद्धो याति दिवं ततः ॥११६॥

उत्तरं मानसं गत्वासिद्धिं प्राप्नोत्यनुत्तमाम् ।
स्नात्वा तस्मिन्सरश्रेष्ठे दृश्यते महादद्भुतम् ॥११७॥

दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ।
गङ्गा त्रिपथगा देवी विष्णुपादाच्च्युता सती ॥११८॥

आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभम् ।
जांबूनदमयं पुण्यं स्वगद्वारमिवायतम् ॥११९॥

ततः प्रवर्त्तते भूयः सर्वसागरमण्डिका ।
पावनी सर्वभूतानां धर्मज्ञानां विशेषतः ॥१२०॥

चन्द्रभागा च सिद्धुश्च शुभे मानससंभवे ।
सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः ॥१२१॥

पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
आयतो वै सहस्राणि योजनानां बहुनि तु ॥१२२॥

सिद्धचारणसंकीर्णा देवर्षिगणसेविता ।
तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः ॥१२३॥

दशवर्षसहस्राणि तस्यां स्नातस्तु जीवति ।
श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम् ॥१२४॥

तारयेच्च सदा श्राद्धे दशपूर्वान्दशापरान् ।
सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः ॥१२५॥

समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः ।
एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः ॥१२६॥

पुतो भवति वै स्नात्वा हुत्वा दत्त्वा तथैव च ।
शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च ॥१२७॥

उपह्वरनितंबेषु तथा प्रस्रवणेषु च ।
पुलिनेष्वापगानां च तथैव प्रभवेषु च ॥१२८॥

महोदधौ गवां गोष्टे संगमेषु वनेषु च ।
सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ ॥१२९॥

गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥१३०॥

प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकीर्षया ।
एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः ॥१३१॥

एतेष्वेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ।
त्रैवर्णविहितैः स्थाने धर्मे वर्णाश्रमे रतैः ॥१३२॥

कौपस्थानं च संत्यागात्प्राप्यते पितृपूजनम् ।
तीर्थान्यनुसरन्वीरः श्रद्दधानः समाहितः ॥१३३॥

कृतपापोऽपि शुध्येत किं पुनः शुभकर्मकृत् ।
तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते ॥१३४॥

स्वर्गी भवति विप्रो वै मोक्षोपायं च विन्दति ।
अश्रद्दधानः पापायुर्नास्तिकोऽच्छिन्नसंशयः ॥१३५॥

हेतुनिष्ठश्च पञ्चैते न तीर्थे फलभागिनः ।
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ॥१३६॥

ध्यानं तीर्थं परं तस्माद्ब्रह्मतीर्थं सनातनम् ।
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम् ॥१३७॥

उपवासनिबद्धैर्हि प्राणैरेव पुनः पुनः ।
प्राणापानौ वशे कृत्वा वशगानीन्दियाणि च ॥१३८॥

बुद्धिं मनसि संयम्य सर्वेषां तु निवर्त्तनम् ।
प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम् ॥१३९॥

इन्द्रियाणां मनो घोरं बुद्ध्यादीनां विवर्त्तनम् ।
अना हारो क्षयं याति विद्यादनशनं तपः ॥१४०॥

निग्रहे बुद्धिमन्सोरन्यबुद्धिर्न जायते ।
क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च ॥१४१॥

परिनिर्वाति शुद्धात्मा यथा वह्निरनिधनः ।
कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ताच्च कुत्स्नशः ॥१४२॥

नियोजयति क्षेत्रज्ञं तेभ्योयोगेन योगवित् ।
तस्य नास्ति गतिः स्थानं व्यक्ताव्यक्ते च सर्वशः ।
न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः ॥१४३॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे पुण्यदेशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः॥ १३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चालतें

  • वि. चालू असणारें ; सुरू असणारें . [ चालणें ] सामाशब्द - 
  • ०औषध न. रोग्याला नेहमीप्रमाणें वागण्यासवरण्याची मोकळीक ठेवणारें औषध . 
  • ०काम न. चालण्याची क्षमता किंवा समर्थता ; गमनक्षमता . गाडयाचें चालतें काम केलें . 
  • ०कालवण न. सहज किंवा चालतांबोलतां तयार केलेलें कालवण ; विशेषत : पिठलें किंवा कांदा . 
More meanings
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site