संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २८

मध्यम भागः - अध्यायः २८

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
स्वपन्तमेत्य राजानं सूतमागधवन्दिनः ।
प्रवोधयितुमव्यग्रा जगुरुच्चैर्निशात्यये ॥१॥

वीणावेणुरवोन्मिश्रकलतालततानुगम् ।
समस्तश्रुतिसुश्राव्यप्रशस्तमधुरस्वरम् ॥२॥

स्निग्धकण्ठाः सुविस्पष्टमूर्च्छनाग्रामसूचितम् ।
जगुर्गेयं मनोहारि तारमन्द्रलयान्वितम् ॥३॥

ऊचुश्च तं महात्मानं राजानं सूतमागधाः ।
स्वपन्तं विविधा वाचो बुबोधयिषवः शनेः ॥४॥

पस्यायमस्तमभ्येति राजेन्द्रेन्दुः पराजितः ।
विवर्द्धमानया नूनं तव वक्त्रांबुजश्रिया ॥५॥

द्रष्टुं त्वदान नांभोजं समुत्सुक इवाधुना ।
तमांसि भिन्दन्नादित्यः संप्राप्तो ह्युदयं विभो ॥६॥

राजन्नखिलशीतांशुवंशमौलिशिखामणे ।
निद्रया लं महाबुद्धे प्रतिवुध्यस्व सांप्रतम् ॥७॥

इति तेषां वचः शृण्वन्नबुध्यत महीपतिः ।
क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः ॥८॥

विनिद्राक्षः समुत्थाय कर्म नैत्यकमादरात् ।
चकारावहितः सम्यग्जयादिकमशेषतः ॥९॥

देवतामभिवन्द्येष्टां गां दिव्यस्रग्गन्धभूषणः ।
कृत्वा दूर्वाञ्जनादर्शमङ्गल्यालम्बनानि च ॥१०॥

दत्त्वा दानानि चार्थिभ्यो नत्वा गोब्रह्मणानपि ।
निष्क्रम्य च पुरात्तस्मादुपतस्थे च भास्करम् ॥११॥

तावदभ्याययुः सर्वं मन्त्रिसामन्तनायकाः ।
रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमम् ॥१२॥

ततः स तैः परिवृतः समुपेत्य तपोनिधिम् ।
ननाम पादयोस्तस्य किरीटेनार्कवर्चसा ॥१३॥

आशीर्भिरभिनन्द्याथ राजानं मुनिपुङ्गवः ।
प्रश्रयावनतं साम्ना तमुवाचास्यतामिति ॥१४॥

तमासीनं नरपतिं महार्षिः प्रीतमानसः ।
उवाच रजनी व्युष्टा सुखेन तव किं नृप ॥१५॥

अस्माकमेव राजेन्द्र वने वन्येन जीवताम् ।
शक्यं मृगसधर्माणां येन केनापि वर्त्तितुम् ॥१६॥

अरण्ये नागराणां तु स्थितिरत्यन्तदुःसहा ।
अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करम् ॥१७॥

वनवासपरिक्लेशं भवान्यत्सानुगोऽसकृत् ।
आप्तस्तु भवतो नूनं सा गौरवसमुन्नतिः ॥१८॥

इत्युक्तस्तेन मुनिना स राजा प्रीतिपूर्वकम् ।
प्रहसन्निव तं भूयो वचनं प्रत्यभाषत ॥१९॥

ब्रह्मन्किमनया ह्युक्त्या दृष्टस्ते यादृशो महान् ।
अस्माभिमहिमा येन विस्मितं सकलं जगत् ॥२०॥

भवत्प्रभावसंजातविभवाहतचेतसः ।
इतो न गन्तुमिच्छन्ति सैनिका मे महामुने ॥२१॥

त्वादृशानां जगन्तीह प्रभावैस्तपसां विभो ।
ध्रियन्ते सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसम् ॥२२॥

नैव चित्रं तव विभो शक्रोति तपसा भवान् ।
ध्रुवं कर्त्तुं हि लोकानामवस्थात्रितयं क्रमात् ॥२३॥

सुदृष्टा ते तपःसिद्धिर्महती लोकपूजिता ।
गमिष्यामि पुरीं ब्रह्मन्ननुजानातु मां भवान् ॥२४॥

वसिष्ठ उवाच
इत्युक्तस्तेनस मुनिः कार्त्तवीर्येण सादरम् ।
संभावयित्वा नितरां तथेति प्रत्यभाषत ॥२५॥

मुनिना समनुज्ञातो विनिष्क्रम्य तदाश्रमात् ।
सैन्यैः परिवृतः सर्वैः संप्रतस्थे पुरीं प्रति ॥२६॥

स गच्छंश्चिन्तयामास मनसा पथि पार्थिवः ।
अहोऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी ॥२७॥

यया लब्धेदृशी धेनुः सर्वकामदुहां वरा ।
किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया ॥२८॥

गोरत्नभूता यदियं धेनुर्मुनिवरे स्थिता ।
अनयोत्पादिता नूनं संपत्स्वर्गसदामपि ॥२९॥

ऋद्धमैन्द्रमपि व्यक्तं पदं त्रैलोक्यपूजितम् ।
अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम् ॥३०॥

इत्येवं चिन्तयानं तं पश्चादभ्येत्य पार्थिवम् ।
चन्द्रगुप्तोऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा ॥३१॥

किमर्थं राजशार्दूल पुरीं प्रतिगमिष्यसि ।
रक्षितेन च राज्येन पुर्या वा किं फलं तव ॥३२॥

गोरत्नभूता नृपतेर्यावर्धेनुर्न चालये ।
वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो ॥३३॥

अन्यच्च दृष्टमाश्चर्यं मया राजञ्छृणुष्व तत् ।
भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः ॥३४॥

प्रासादा विविधाकारा धनं चादृष्टसंक्षयम् ।
धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम ॥३५॥

तत्तपोवनमेवासीदिदानीं राजसत्तम ।
एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत् ॥३६॥

तस्माद्रत्नार्हसत्त्वेन स्वीकर्त्तव्या हि गौस्त्वया ।
यदि तेऽनुमतं कृत्यमाख्येयमनुजीविभिः ॥३७॥

राजोवाच ।
एवमेवाहमप्येनां न जानामीत्यसांप्रतम् ।
ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः ॥३८॥

एवं ब्रुवन्तं राजानमिदमाह पुरोहितः ।
गर्गो मतिमतां श्रेष्ठो गर्हयन्निव भूपते ॥३९॥

ब्रह्मस्वं नापहर्त्तव्यमापद्यपि कथञ्चन ।
ब्रह्मस्वसदृशं लोके दुर्जरं नेह विद्यते ॥४०॥

विषं हन्त्युपयोक्तारं लक्ष्यभूतं तु हैहय ।
कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥४१॥

अनिवार्यमिदं लोके ब्रह्मस्वन्दुर्जरं विषम् ।
पुत्रपौत्रान्तफलदं विपाककटु पार्थिव ॥४२॥

एश्वर्यमूढं हि मनः प्रभूममसदात्मनाम् ।
किन्नामासन्न कुरुते नेत्रास द्विप्रलोभितम् ॥४३॥

वेदान्यस्त्वामृते कोऽन्यो विना दानान्नृपोत्तम ।
आदानं चिन्तयानो हि बाह्मणेष्वभिवाञ्छति ॥४४॥

ईदृशस्त्वं महाबाहो कर्म सज्जननिन्दितम् ।
मा कृथास्तद्धि लोकेषु यशोहानिकरं तव ॥४५॥

वंशे महति जातस्त्वं वदान्यानां प्रहीभुजाम् ।
यशांशि कर्मणानेन संप्रतं माव्यनीवशः ॥४६॥

अहोऽनुजीविनः किञ्चिद्भर्तारं व्यसनार्णवे ।
तत्प्रसादसमुन्नद्धा मज्जयं त्यनयोन्मुखाः ॥४७॥

श्रिया विकुर्वन्पुरुषकृत्यचिन्त्ये विचेतनः ।
तन्मतानुप्रवृत्तिश्च राजा सद्यो विषीदति ॥४८॥

अज्ञातमुनयो मन्त्री राजानमनयांबुधौ ।
आत्मना सह दुर्बुद्धिर्लोहनौरिव मज्जयेत् ॥४९॥

तस्मात्त्वं राजशार्दूल मूढस्य नयवर्त्मनि ।
मतमस्य सुदुर्बुद्धेर्नानुवर्त्तितुमर्हसि ॥५०॥

एवं हि वदतस्तस्य स्वामिश्रेयस्करं वचः ।
आक्षिप्य मन्त्री राजानमिदं भूयो ह्यभाषत ॥५१॥

ब्राह्मणोऽयं स्वजातीयहितमेव समीक्षते ।
महान्ति राजकार्याणि द्विजैर्वेत्तुं न शक्यते ॥५२॥

राज्ञैव राजकार्याणि वेद्यानि स्वमनीषया ।
विना वै भोजनादाने कार्यं विप्रो न विन्दति ॥५३॥

ब्राह्मणो नावमन्तव्यो वन्दनीयश्च नित्यशः ।
प्रतिसंग्राहयणीयश्च नाधिकं साधितं क्वचित् ॥५४॥

तस्मात्स्वीकृत्य तां धेनुं प्रयाहि स्वपुरं नृप ।
नोचेद्राज्यं परित्यज्य गच्छस्वतपसे वनम् ॥५५॥

क्षमावत्त्वं ब्राह्मणानां दण्डः क्षत्रस्य पार्थिव ।
प्रसह्य हरणे वापि नाधर्मस्ते भविष्यति ॥५६॥

प्रसह्य हरणे दोषं यदि संपश्यसे नृप ।
दत्त्वा मूल्यं गवाश्वाद्यमृषेर्थेनुः प्रगृह्यताम् ॥५७॥

स्वीकर्तव्या हि सा धेनुस्त्वया त्वं रत्नभागयतः ।
तपोधनानां हि कुतो रत्नसंग्रहणादरः ॥५८॥

तपोधन बलः शान्तः प्रीतिमान्स नृप त्वयि ।
तस्मात्ते सर्वथा धेनुं याचितः संप्रदास्यति ॥५९॥

अथ वा गोहिरण्यद्यं यदन्यदभिवाञ्छितम् ।
संगृह्य वित्तं विपुलं धेनुं तां प्रतिदास्यति ॥६०॥

अनुपेक्ष्यं महद्रत्नं राज्ञा वै भूतिमिच्छता ।
इति मे वर्त्तते बुद्धिः कथं वा मन्यते भवान् ॥६१॥

राजोवाच ।
गत्वा त्वमेव तं विप्रं प्रसाद्य च विशेषतः ।
दत्त्वा चाभीप्सितं तस्मै तां गामानय मन्त्रिक ॥६२॥

वसिष्ठ उवाच
एवमुक्तस्ततोराज्ञा स मन्त्री विधिचोदितः ।
निवृत्य प्रययौ शीघ्रं जमदग्नेरथाश्रमम् ॥६३॥

गते तु नृपतौ तस्मिन्नकृतव्रणसंयुतः ।
समिदानयनार्थाय रामोऽपि प्रययौ वनम् ॥६४॥

ततः स मन्त्री सबलः समासाद्य तदाश्रमम् ।
प्रणम्य मुनिशार्दूलमिदं वचनमब्रवीत् ॥६५॥

चन्द्रगुप्त उवाच
ब्रह्मन्नृपतिनाज्ञप्तं राजा तु भुवि रत्नभाक् ।
रत्नभूता च धेनुः सा भुवि दोग्ध्रीष्वनुत्तमा ॥६६॥

तस्माद्रत्नंसुवर्णं वा मूल्यमुक्त्वा यथोचितम् ।
आदाय गोरत्नभूतां धेनुं मे दातुमर्हसि ॥६७॥

जमदग्निरुवाच
होमधेनुरियं मह्यं न दातव्या हि कस्यचित् ।
राजा वदान्यः स कथं ब्रह्मस्वमभिवाञ्छति ॥६८॥

मन्त्र्युवाच
रत्नभाक्त्वंन नृपतिर्द्धेनुं ते प्रतिकाङ्क्षति ।
गवायुतेन तस्मात्त्वं तस्मै तां दातुमर्हसि ॥६९॥

जमदग्निरुवाच
क्रयविक्रययोर्नाहं कर्त्ता जातु कथञ्चन ।
हविर्धानीं च वै तस्मान्नोत्सहे दातुमञ्जसा ॥७०॥

मन्त्र्युवाच
राज्यार्धेनाथ वा ब्रह्मन्सकलेनापि भूभृतः ।
देहि धेनुमिमामेकां तत्ते श्रेयो भविष्यति ॥७१॥

जमदग्निरुवाच
जीवन्नाहं तु दास्यामि वासवस्यापि दुर्मते ।
गुरुणा याचितं किं ते वचसा नृपतेः पुनः ॥७२॥

मन्त्र्युवाच
त्वमेव स्वेच्छया राज्ञे देहि धेनुं सुहृत्तया ।
यथा बलेन नीतायां तस्यां त्वं किं करिष्यसि ॥७३॥

जमदग्निरुवाच
दाता द्विजानां नृपतिः स यद्यप्याहरिष्यति ।
विप्रोऽहं किं करिष्यामि स्वेच्छावितरणं विना ॥७४॥

वसिष्ठ उवाच
इत्येवमुक्तः संक्रुद्धः स मन्त्री पापचेतनः ।
प्रसह्य नेतुमारेभे मुनेस्तस्य पयस्विनीम् ॥७५॥

इति श्रीब्रह्माण्डे महापुराणे वोयुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेऽष्टाविंशतितमोऽध्यायः॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP