TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ९

मध्यम भागः - अध्यायः ९

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः ९
ऋषय ऊचुः
कथं द्विवारावुत्पन्ना भवानी प्राक्सती तु या ।
आसीद्दाक्षायणी पूर्वमुमा कथमजायत ॥१॥

मेनायां पितृकन्यायां जनयञ्छैलराट्स्वयम् ।
के वै ते पितरो नाम येषां मेना तु मानसी ॥२॥

मैनाकश्चैव दोहित्रो दौहित्री च तथा ह्युमा ।
एकपर्णा तथा चैव तथा चैवैकपाटला ॥३॥

गङ्गा चापि सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा ।
सर्वमेतत्वयोद्दिष्टं निर्देशं तस्य नो वद ॥४॥

श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च विधिं परम् ।
पुत्राश्च के स्मृतास्तेषां कथं च पितरस्तु ते ॥५॥

कथं वा ते समुत्पन्नाः किंना मानः किमात्मकाः ।
स्वर्गे वै पितरो ह्येते देवानामपि देवताः ॥६॥

एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तममा ।
यथा च दत्तमस्माभिः सार्द्धं प्रीणाति वै पितॄन् ॥७॥

यदर्थं ते न दृश्यन्ते तत्र किं कारणं स्मृतम् ।
स्वर्गे तु के च वर्त्तन्ते पितरो नरके व के ॥८॥

अभिसंभाष्य पितरं पितुश्च पितरं तथा ।
प्रतितामहं तथा चैव त्रिषु पिण्डेषु नामतः ॥९॥

नाम्ना दत्तानि श्राद्धानि कथं गच्छन्ति वै पितॄन् ।
कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥१०॥

के च ते पितरो नाम कान्यजामो वयं पुनः ।
देवा अपि पितॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ॥११॥

एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुतम् ।
स्पष्टाभिधान मपि वै तद्भवान्वक्तुमर्हसि ॥१२॥

सूत उवाच
अत्र वो कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ।
मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥१३॥

अतीतानागताः श्रेष्ठाः कनिष्ठाः क्रमशस्तु वै ।
देवैः सार्द्धं पुरातीताः पितरोऽन्येन्तरेषु वै ॥१४॥

वर्तन्ते सांप्रतं चे तु तान्वै पक्ष्यामि निश्चयात् ।
श्राद्धक्रियां मनुश्चैषां श्राद्धदेवः प्रवर्त्तयेत् ॥१५॥

देवान्सृजत ब्रह्मा मां यक्ष्यन्तीति च प्रभुः ।
तमुत्सृज्य तदात्मानमयजंस्ते फलार्थिनः ॥१६॥

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।
तस्मात्किञ्चिन्न जानीत ततो लोकेषु मुह्यत ॥१७॥

ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम् ।
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥१८॥

प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः ।
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥१९॥

ततस्त स्वसुतांश्चैव प्रयश्चित्तजि घृक्षवः ।
अपृच्छन्संयतात्मानो विधिवच्च मिथो मिथः ॥२०॥

तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा ।
प्रयश्चित्तानि धर्मज्ञावाङ्मनः कर्मजानि च ॥२१॥

ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः ।
यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ॥२२॥

धर्मं ज्ञानं च वैराग्यं को वरो वः प्रदीयताम् ।
पुस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः ॥२३॥

तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ।
उक्तं च पितरोऽस्माकं चेति वै तनयाः स्वकाः ॥२४॥

पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ।
तेनैव वचसा ते वै ब्रह्मणः परमेष्ठिनः ॥२५॥

पुत्राः पितृत्वमाजग्मुः पुत्रत्वं पितरः पुनः ।
तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम् ॥२६॥

एवं स्मृत्वा पितॄन्पुत्राः पुत्रांश्चैव पितॄंस्तथा ।
व्याजहार पुनर्ब्रह्मा वितॄनात्मविवृद्धये ॥२७॥

यो ह्य निष्टान्पितॄञ्श्राद्धि क्रियां काञ्चितकरिष्यति ।
राक्षसा दानवाश्बैव फलं प्राप्स्यन्ति तस्य तत् ॥२८॥

श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्यायमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ॥२९॥

श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥३०॥

श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥३१॥

श्राद्धे येभ्यः प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः ।
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ॥३२॥

तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ।
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना ॥३३॥

तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥३४॥

इत्येते पितरो देवा देवाश्च पितरः पुनः ।
अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह ॥३५॥

एतद्ब्रह्मवचः श्रुत्वा सूतस्य विदितात्मनः ।
पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ॥३६॥

ऋषय ऊचुः
कियन्तो वै मुनिगणाः कस्मिन्काले च ते गणाः ।
पूर्वे तु देवप्रवरा देवानां सोमवर्द्धनाः ॥३७॥

सूत उवाच
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम् ।
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥३८॥

बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम् ।
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥३९॥

क एते पितरो नाम कियन्तः के च नामतः ।
समुद्भूताः कथं चैते पितृत्वं समुपागताः ॥४०॥

कस्माच्च पितरः पूर्वं यज्ञं पुष्णन्ति नित्यशः ।
क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ॥४१॥

कस्मै श्राद्धानि देयानि किं च दत्ते महाफलम् ।
केषु चाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥४२॥

केषु वै सर्वमाप्तोति श्राद्धं कृत्वा द्विजोत्तमः ।
कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्त्तते ॥४३॥

एतदिच्छामि भगवन्विस्तरेण यथा तथा ।
व्याख्यातमानुपूर्व्येण यत्र चोदाहृतं मया ॥४४॥

बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः ।
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥४५॥

बृहस्पतिरुवाच
कथ यिष्यामि ते तात यन्मां त्वं परिपृच्छसि ।
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥४६॥

द्यौरंरिक्षं पृथिवी नक्षत्राणि दिशस्त था ।
सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ॥४७॥

न बभूवुस्तदा तात तमोभूतमभूज्जगत् ।
ब्रह्मैको दुश्चरं तत्र तताप परमं तपः ॥४८॥

शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम् ।
सर्ववेदव्रतस्नातः सर्वज्ञानविदां वरः ।
कीदृशं सर्वभूतेशस्तपस्तेपे प्रजा पतिः ॥४९॥

बृहस्पतिरुवाच
सर्वेषां तपसां यत्तत्तपो योगमनुत्तमम् ।
ध्यायंस्तदा स भगवांस्तेन लोकानवासृजत् ॥५०॥

ज्ञानानि भूतभव्यानि लोका वेदाश्च सर्वशः ।
योगामृतास्तदा सृष्टा ब्रह्मणा लोकचक्षुषा ॥५१॥

लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः ।
वैराजा इति विख्याता देवानां दिवि देवता।॥ ५२॥
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः ।
देवानसृजत ब्रह्मा योगयुक्तान्सनातनान् ॥५३॥

आदिदेवा इति ख्याता महासत्त्वा महौजसः ।
सर्वकामप्रदाः पूज्या देवादानवमानवैः ॥५४॥

तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु समूर्त्तयः ॥५५॥

उपरिष्टात्त्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः ।
तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्ष्ममूर्त्तयः ॥५६॥

ततो देवास्ततो भूमिरेषा लोकपरंपरा ।
लोके वर्षन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः ॥५७॥

अन्नं भवति वै वृष्ट्या लोकानां संभवस्ततः ।
आप्याययन्ति ते यस्मात्सोमं चान्नं च योगतः ॥५८॥

ऊचुस्तान्वै पितॄंस्त स्माल्लोकानां लोकसत्तमाः ।
मनोजवाः स्वधाभक्ष्यः सर्वकामपरिष्कृताः ॥५९॥

लोभमोहभयोपेता निश्चिन्ताः शोक वर्जिताः ।
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् ॥६०॥

दिव्याः पुण्या विपाप्मानो महात्मानो भवन्त्युत ।
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥६१॥

प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ।
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन च ॥६२॥

नश्यन्त्युल्केव गगने क्षणद्विद्युत्प्रभेव च ।
उत्सृज्य देहजालानि महायोगबलेन च ॥६३॥

निराख्योपास्यता यान्ति सरितं सागरं यथा ।
क्रियया गुरुपूजाभिर्यागं कुर्वन्ति यत्नतः ॥६४॥

श्राद्धे प्रीतास्ततः सोमं पितरो योगमास्थिताः ।
आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥६५॥

तस्माच्छ्राद्धानि देयानि योगानां यत्नतः सदा ।
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ॥६६॥

सहस्रशतविप्रान्वै भोजयेद्यावदागतान् ।
एकस्तानपि मन्त्रज्ञः सर्वानर्हति तच्छृणु ॥६७॥

एतानेव च मन्त्रज्ञान्भोजयेद्यः समागतान् ।
एकस्तान्स्नातकः प्रितः सर्वानर्हति तच्छृणु ॥६८॥

मन्त्रज्ञानां सहस्रेण स्नातकानां शतेन च ।
योगाचार्येण यद्भुक्तं त्रायते महातो भयात् ॥६९॥

गृहस्थानां सहस्रेण वानप्रस्थशतेन च ।
ब्रह्मचारिसहस्रेण योग एव विशिष्यते ॥७०॥

नास्तिको वाप्यधर्मो वा संकीर्मस्तस्करोऽपि वा ।
नान्यत्र तारणं दानं योगेष्वाह प्रजापतिः ॥७१॥

पितरस्तस्य तुष्यन्ति सुवृष्टेनैव कर्षकाः ।
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥७२॥

अलाभे ध्याननिष्ठानां भोजयेद्ब्रह्मचारिणम् ।
तदलाभे उदसीनं गूहस्थमपि भोजयेत् ॥७३॥

यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः ।
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ॥७४॥

आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम् ।
भावयन्सर्वलोकान्वै स्थित एष गणः सदा ॥७५॥

अत ऊर्ध्वं प्रवक्ष्यामि सर्वानपि गणान्पुनः ।
संततिं संस्थितिं चैव भावनां च यथाक्रमम् ॥७६॥

एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे पितृकल्पो नाम नवमोऽध्यायः॥ ९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ear syring

  • कर्ण पिचकारी 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site