TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ७

मध्यम भागः - अध्यायः ७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः ७
सूत उवाच
गन्धर्वाप्सरसः पुत्रा मौनेयास्तान्निबोधत ।
भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा ॥१॥

धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च् ।
पत्रवानर्कपर्णश्च प्रयुतश्च तथैव हि ॥२॥

भीमश्चित्ररथश्चैव विख्यातः सर्वजीद्वशी ।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥३॥

कलिः पञ्च दशस्तेषां नारदश्चैव षोडशः ।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥४॥

चतुर्विंशाश्चावरजास्तेषामप्सरसः शुभाः ।
अरुणा चानपाया च विमनुष्या वरांबरा ॥५॥

मिश्रकेशी तथाचासिपर्णिनी चाप्यलुंबुषा ।
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ॥६॥

अद्रिका लक्ष्मणा क्षेमा दिव्या रंभा मनोभवा ।
असिता च सुबाहूश्च सुप्रिया सुभुजा तथा ॥७॥

पुण्डरीकाजगन्धा च सुदती सुरसा तथा ।
तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू ॥८॥

तुंबुरुश्चेति चत्वारः स्मृतागन्धर्वसत्तमाः ।
गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः ॥९॥

हंसा सरस्वती चैव सूता च कमलाभया ।
सुमुखी हंसपादी च लौकिक्योऽप्सरसः स्मृताः ॥१०॥

हंसो ज्योतिष्टमो मध्य आचारस्त्विह दारुणः ।
वरूथोऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः ॥११॥

अष्टमः सुरुचिस्तेषां ततो विश्वा वसुः स्मृतः ।
सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता ॥१२॥

अरूपां सुभगां भासीमिति त्रेधा व्यजायत ।
मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे ॥१३॥

पञ्चचूडास्त्विमा विद्यादेवमप्सरसो दश ।
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला ॥१४॥

कृतस्थला द्यृताची च विश्वाची पूर्वचित्त्यपि ।
प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश ॥१५॥

अनादिनिधनस्याथ जज्ञे नारायणस्य या ।
कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता ॥१६॥

मेनस्य मेनका कन्या जज्ञे सर्वाङ्गसुंदरी ।
सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः ॥१७॥

गणास्त्वप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश ।
आहृत्यः शोभवत्यश्च वेगवत्यस्तथैव च ॥१८॥

ऊर्ज्जाश्चैव युवत्यश्च स्रुचस्तु कुरवस्तथाश्च ।
वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः ॥१९॥

भीरवः शोभयन्त्यश्च गाणा ह्येते चतुर्दश ।
ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः ॥२०॥

वेगवत्यश्च रिष्टाया ऊर्ज्जाश्चैवाग्निसंभवाः ।
युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः ॥२१॥

गभस्तिभिश्च सोमस्य जज्ञिरे कुरवः शुभाः ।
यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः ॥२२॥

वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ।
वायूत्पनाना मुदा नाम भूमिजा मृगवस्तथा ॥२३॥

विद्युतोऽत्र रुचो नाम मृत्योः कन्याश्च भीरवः ।
शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश ॥२४॥

इत्येते बहुसाहस्रा भास्वरा अप्सरोगणाः ।
देवतानामृषीणां च पत्न्यश्च मातरश्च ह ॥२५॥

सुगन्धाश्चाथ निष्पन्दा सर्वाश्चाप्सरसः समाः ।
संप्रयोगस्तु कामेन माद्यं दिवि हरं विना ॥२६॥

तासां देवर्षि संस्पर्शा जाताः साधारणा यतः ।
पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥२७॥

ततो यवीयसी चैव तृतीयारुन्धती स्मृता ।
देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ ॥२८॥

तस्मात्तौ तत्सनामानौ स्मृतौ नारदपर्वतौ ।
विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च ह ॥२९॥

गायत्र्यादीनि छन्दांसि सौपर्णेयानि पक्षिणाः ।
व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च ॥३०॥

क्रद्रूर्नागसहस्रं वै विजज्ञे धरणीधरम् ।
अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥३१॥

बहुत्वान्नामधेयानां प्रधानांश्च निबोधत ।
तेषां प्रधाना नागानां शेषवासुकितक्षकाः ॥३२॥

अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा ।
ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥३३॥

एलापत्रश्च शङ्खश्च कर्केटकधनञ्जयौ ।
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥३४॥

करवीरः पुष्पदंष्ट्रः सुमुखो दुर्मुखस्तथा ।
सूनामुखो दधिमुखः कालियश्चालिपिण्डकः ॥३५॥

कपिलश्चांबरीषश्च अक्रूरश्च कपित्थकः ।
प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वोऽथ मणिस्थकः ॥३६॥

नहुषः कररोमा च मणिरित्येवमादयः ।
काद्रवेयाः समाख्याताः खशायास्तु निबोधत ॥३७॥

खशा विजज्ञे द्वौ पुत्रौ विकृतौ परुषव्रतौ ।
श्रेष्ठं पश्चिमसंध्यायां पूर्वस्यां च कनीयसम् ॥३८॥

विलोहितैककर्णं च पूर्वं साजनयत्सुतम् ।
चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम् ॥३९॥

सर्वङ्गकेशं स्थूलाङ्गं शुभनासं महोदरम् ।
स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम् ॥४०॥

ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुम् ।
रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम् ॥४१॥

गुह्यकं शितिकण्ठं च महापादं महामुखम् ।
एवंविधं खशापुत्रं जज्ञेऽसावतिभीषणम् ॥४२॥

तस्यानुजं द्वितीयं सा ह्युषस्यन्ते व्यजायत ।
त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम् ॥४३॥

ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् ।
ह्रस्वकायं प्रबाहुं च महाकाय महारवम् ॥४४॥

आकर्णदारितास्यं च बलवत्सथूलनासिकम् ।
स्थूलौष्ठमष्टदंष्ट्र च जिह्मास्यं शङ्कुकर्णकम् ॥४५॥

पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकम् ।
महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम् ॥४६॥

अस्थूलं लोहितं ग्रीवलंबमेढ्राण्डपिडकम् ।
एवंविधं कुमारं सा कनिष्ठं समसूयत ॥४७॥

सद्यः प्रसूतमात्रौ तौ विवृद्धौ च प्रमादतः ।
उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ ॥४८॥

सद्योजातौ विवृद्धाङ्गौ मातरं पर्यकर्षताम् ।
तयोः पूर्वस्तु यः क्रूरो मातरं सोऽभ्य कर्षत ॥४९॥

ब्रुवंश्च मातर्भक्षाव रक्षार्थं क्षुधयार्दितः ।
न्यषेधयत्पुनर्ह्येनं स्वयं स तु कनिष्ठकः ॥५०॥

पूर्वेषां क्षेमकृत्त्वं वै रक्षैतां मातरं स्वकाम् ।
बाहुभ्यां परिगृह्यैनं मातरं सोऽभ्यभाषयत् ॥५१॥

एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता ।
तौ दृष्ट्वा विकृता कारौ खशां तामभ्यभाषत ॥५२॥

तौ सुतौ पितरं दृष्ट्वा ह्येकभूतौ भयान्वितौ ।
मातुरेव पुनश्चाङ्गे प्रलीयेतां स्वमायया ॥५३॥

अथाब्रवीदृषिर्भार्यां किमाभ्यामुक्तवत्यसि ।
सर्वमाचक्ष्व तत्त्वेन तवैवायं व्यतिक्रमः ॥५४॥

मातृतुल्यश्च जनने पुत्रो भवति कन्यका ।
यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥५५॥

यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् ।
मातॄणां शीलदोषेण तथा रूपगुणैः पुनः ॥५६॥

विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ।
इत्येवमुक्त्वा भगवान्खशामप्रतिमस्तदा ॥५७॥

पुत्रावाहूय साम्ना वै चक्रे ताभ्यां तु नामनी ।
पुत्राभ्यां यत्कृतं तस्यास्तदाचष्ट खशा तदा ॥५८॥

माता यथा समाख्याता तर्माभ्यां च पृथक्पृथक् ।
तेन धात्वर्थयोगेन तत्तदर्थे चकार ह ॥५९॥

मातर्भक्षेत्यथोक्तो वै खादने भक्षणे च सः ।
भक्षावेत्युक्तवानेष तस्माद्यक्षोऽभवत्त्वयम् ॥६०॥

रक्ष इत्येष धातुर्यः पालने स विभाव्यते ।
उक्तवांश्चैष यस्मात्तु रक्षेमां मातरं स्वकाम् ॥६१॥

नाम्ना रक्षोऽपरस्तस्माद्भविष्यति तवात्मजः ।
स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता ॥६२॥

तदा भाविनमर्थं च बुद्ध्वा मात्रा कृतं तयोः ।
तावृभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृष्टधीः ॥६३॥

तयोः प्रादिशदाहारं खशापतिरसृग्वसे ।
पिता तौ क्षुधितौ दृष्ट्वा वर मेतं तयोर्ददौ ॥६४॥

युवयोर्हस्तसंस्पर्शाद्रक्तधाराश्च सर्वशः ।
सृङ्मांसवसाभूता भविष्यन्तीह कामतः ॥६५॥

नक्ताहारविहारौ च द्विजदेवादिभोजनौ ।
नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम् ॥६६॥

मातरं रक्षत इमां धर्मश्चैवानुशिष्यते ।
इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत ॥६७॥

गते पितरि तौ क्रूरौ निसर्गादेव दारुणौ ।
विपर्ययेषु वर्त्तेतेऽकृतज्ञौ प्राणिहिंसकौ ॥६८॥

महाबलौ महासत्त्वौ महाकायौ दुरासदौ ।
मायाविदावदृश्यौ तावन्तर्धानगतावुभौ ॥६९॥

तौ कामरूपिणौ घोरौ नीरुजौ च स्वभावतः ।
रूपा नुरूपैराचारैः प्रचरन्तौ प्रबाधकौ ॥७०॥

देवानृषीन्पितॄंश्चैव गन्धर्वान्किन्नरानपि ।
पिशाचांश्चमनुष्यांश्चपन्नगान्पक्षिणः पशून् ॥७१॥

भक्षार्थमिह लिप्संतौ चेरतुस्तौ निशाचरौ ।
इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम् ॥७२॥

राक्षसं तं कदाचिद्वै निशीथे ह्येक मीश्वरम् ।
आहारं स परीप्सन्वै शब्देनानुससार ह ॥७३॥

आससाद पिशाचौ वै त्वजः शण्ढश्च ताबुभौ ।
कपिपुत्रौ महावीर्यौं कूष्माडौ पूर्वजावुभौ ॥७४॥

पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ ।
कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया ॥७५॥

ते कन्ये कामरूपिण्यौ तदाचारमुभे च तम् ।
आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ ॥७६॥

अपश्यतां रक्षसं तौ कामरूपिणमग्रतः ।
सहसा सन्निपातेन दृष्ट्वा चैव परस्परम् ॥७७॥

ईक्षमाणाः स्थितान्योन्यं परस्परजिघृक्षवः ।
पितरावूचतुः कन्ये युवा मानयत द्रुतम् ॥७८॥

जीवग्राहं निगृह्यैनं विस्फुरन्तं पदेपदे ।
ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा ॥७९॥

संगृहीत्वा तु हस्ताभ्यामानीतः पितृसंसदि ।
ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम् ॥८०॥

अपृच्छतां च कस्य त्वं स च सर्वमभाषत ।
तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा ॥८१॥

अजः शण्डश्च तस्मै ते कन्यके प्रत्यपादयत् ।
तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै ॥८२॥

पैशाचैन विवाहेन रुदन्त्यावुद्ववाह सः ।
अजः शण्डः सुताभ्यां तु तदा श्रावयतां धनम् ॥८३॥

इयं ब्रह्मधना नाम कन्या या सहिता शुभा ।
ब्रह्म तस्यापराहार इति शण्डोऽभ्यभाषत ॥८४॥

इयं जन्तुधना नाम कन्या सर्वाङ्गजन्तिला ।
जन्तुभाव धनादाना इत्यजौऽश्रावयद्धनम् ॥८५॥

सर्वाङ्गकेशापाशा च कन्या जन्तुधना तु या ।
यातुधानप्रसूता सा कन्या चैव महारवा ॥८६॥

अरुणा चाप्यलोमा च कन्या ब्रह्मधना तु या ।
ब्रह्मधानप्रसूता सा कन्या चैव महारवा ॥८७॥

एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ।
तयोः प्रजानिसर्गं च कथयिष्ये निबोधत ॥८८॥

हेतिः प्रहेतिरुग्रश्च पौरुषेयौ वधस्तथा ।
विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च ॥८९॥

सूर्यश्च राक्षसा ह्येते यातुधानात्मजा दश ।
माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु ॥९०॥

प्रहेतितनयः श्रीमानपुलोमा नाम विश्रुतः ।
मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः ॥९१॥

महायोगबलोपेतो महा देवमुपस्थितः ।
उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः ॥९२॥

पौरुषेयसुताः पञ्च पुरुषादा महाबलाः ।
कूरश्च विकृतश्चैव रुधिरादस्तथैव च ॥९३॥

मेदाशश्चवपाशश्च नामभिः परिकीर्त्तिताः ।
वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह ॥९४॥

विद्युत्पुत्रो दुराचारो रसनो नाम राक्षसः ।
स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः ॥९५॥

वातपुत्रो विरोधस्तु तथा यस्य जनातकः ।
व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः ॥९६॥

सर्वस्य चान्वये जाता पूराः सर्पाश्च राक्षसाः ।
यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत ॥९७॥

यज्ञापेतो धृतिः क्षेमो ब्रह्मपेतश्च यज्ञहा ।
श्वातोंऽबुकः केलिसर्पौं ब्रह्मधानात्मजा नव ॥९८॥

स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः ।
रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी ॥९९॥

एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ।
इत्येते राक्षसाः क्रान्ता यक्षस्यविनिबोधत ॥१००॥

चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलाम् ।
तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते ॥१०१॥

वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् ।
विशोकं सुमनं चैव नन्दनं च वनोत्तमम् ॥१०२॥

बहूनि रमणीयानि मार्गते जातलालसः ।
दृष्ट्वा तां नन्दने सोऽथ अप्सरोभिः सहासिनीम् ॥१०३॥

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् ।
दूषितः स्वेन रूपेण कर्मणा चैव दूषितः ॥१०४॥

ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः ।
तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम् ॥१०५॥

दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तयत् ।
कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः ॥१०६॥

ततः सोऽप्सरसां मध्ये ता जचग्राह क्रतुस्थलाम् ।
बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत ॥१०७॥

संभूतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ।
जगाम मैथुनं यक्षः पुत्रार्थं स तया सह ॥१०८॥

दृश्यमानोऽप्सरो लिप्सुः शङ्कां नैव चकार सः ।
ततः संसिद्धकारणः सद्यो जातः सुतस्तु वै ॥१०९॥

उछ्रयात्परिणाहेन सद्यो वृद्धः श्रिया ज्वलन् ।
राजाहमिति नाभिर्हि पितरं सोऽभ्यवादयत् ॥११०॥

भवान् रजतनाभेति पिता तं प्रत्युवाच ह ।
मात्रानुरूपो रूपेम पितुर्वीर्येणजायते ॥१११॥

जाते तस्मिन्कुमारे तु स्वरुपं प्रयपद्यत ।
स्वरूपं प्रतिपद्यन्ते गूहन्तो यक्षराक्षसाः ॥११२॥

सुप्ता म्रियन्तः क्रुद्धाश्च भीतास्ते हर्षितास्तथा ।
ततोऽब्रवीत्सोऽप्सरसं स्मयमानस्तु गुह्यकः ॥११३॥

गृहं मे गच्छ भद्रं ते सपुत्रा त्वं वरानने ।
इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितम् ॥११४॥

विभ्रान्ताः प्रद्रुताः सर्वाः समेत्याप्सरसस्तदा ।
गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयन्शिरा ॥११५॥

गन्धर्वाप्सरसां मध्ये नयित्वा स न्यवर्त्तत ।
तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः ॥११६॥

यक्षाणां तु जनित्री त्वं इत्यूचुस्तां क्रतुस्थलाम् ।
जगाम सह पुत्रेण ततो यक्षः स्वमालयम् ॥११७॥

न्यग्रोधो रोहिणो नाम्ना शेरते तत्र गुह्यकाः ।
तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः ॥११८॥

यक्षो रजतनाभश्च गुह्यकानां पितामहः ।
अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम् ॥११९॥

उपयेमेऽनवद्याङ्गीं तस्यां मणिवरो वशी ।
जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रममम् ॥१२०॥

तयोः पत्न्यौ भगिन्यौ च क्रतुस्थस्यात्मजे शुभे ।
नाम्ना पुण्यजनी चैव तथा देवजनी च या ॥१२१॥

विजज्ञे पणिभद्रातु पुत्रान्पुण्यजनी शुभा ।
सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा ॥१२२॥

मण्डूकं रुचकं चैव मणिमन्तं वसुं तथा ।
सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च ॥१२३॥

असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा ।
मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम् ॥१२४॥

द्युति मन्तं केतुमन्तं दर्शनीयं सुदर्शनम् ।
चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः ॥१२५॥

जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः ।
तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः ॥१२६॥

विजज्ञे वै देवजनी पुत्रान्मणिवराञ्छुभा ।
पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ ॥१२७॥

कुसुं चरं पिशङ्गं च स्थूलकर्णं महामुदम् ।
स्वेतं च विमलं चैव पुष्पदन्तं चयावहम् ॥१२८॥

पद्मवर्णं सुचन्द्रं च पक्षञ्च बलकं तथा ।
कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम् ॥१२९॥

पद्मनाभं सुगन्धं च सुवीरं विजयं कृतम् ।
पूर्ममासं हिरण्याक्षं सारणं चैव मानसम् ॥१३०॥

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः ।
सुरुपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः ॥१३१॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ॥१३२॥

तेषां यथा प्रधानान्वै वर्ण्यमा नान्निबोधत ।
लालाविः क्रथनो भीमः सुमाली मधुरेव च ॥१३३॥

विस्फूर्जनो बृहज्जिह्वो मातङ्गो धूम्रितस्तथा ।
चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः ॥१३४॥

पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः ।
त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः ॥१३५॥

अश्वश्चाकंपनश्चैव दुर्मुखश्च निशाचरः ।
इत्येते राक्षसवारा विक्रान्ता गणरूपिमः ॥१३६॥

सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ।
सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम् ॥१३७॥

यासां च यः प्रजासर्गो येन चोत्पादिता गणाः ।
आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा ॥१३८॥

केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ।
ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः ॥१३९॥

उदीर्णा राक्षसगणा इमे चोत्पादिताः शुभाः ।
आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा ॥१४०॥

तथौ त्कार्ष्टेयशैवेयौ रक्षसां ह्युत्तमा गणाः ।
तथैव नैरृतो नाम त्र्यंबकानुचरेण ह ॥१४१॥

उत्पादितः प्रजाकर्गे गणेश्वरवरेण तु ।
विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः ॥१४२॥

येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ।
तेषां गणशतानीका उद्धतानां महात्मनाम् ॥१४३॥

प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ।
दैत्यराजेन कुम्भेन महाकाया महात्मना ॥१४४॥

उत्पादिता महावीर्या महाबलपराक्रमाः ।
कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः ॥१४५॥

कपिलेन च यक्षेण केशिन्यां ह्यपरे जनाः ।
उत्पादिता बलावता उदीर्णा यक्षराक्षसाः ॥१४६॥

केशिनी दुहिता चैव नीला या श्रुद्रराक्षसी ।
आलंबेयेन जनिता नैकाः सुरसिकेन हि ॥१४७॥

नैला इति समाख्याता दुर्जया घोरविक्रमाः ।
चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः ॥१४८॥

बहुत्वाच्चैवसर्गस्य तेषां वक्तुं न शक्यते ।
तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी ॥१४९॥

दुहिता सुताश्च विकया महा सत्त्वपराक्रमाः ।
विरूपकेन तस्यां वै नैरृतेन इह प्रजाः ॥१५०॥

उत्पादिताः सुघोराश्च शृणु तास्त्वनुपूर्वशः ।
दंष्ट्राकराला विकृता महाकर्णा महोदराः ॥१५१॥

हारका भीषकाश्चैव तथैव क्लामकाः परे ।
रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे ॥१५२॥

भूमिराक्षसका ह्येते मन्दाः परुपविक्रमाः ।
चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः ॥१५३॥

उत्कृष्टबलसत्त्वा ये तेषां वैखेचराः स्मृताः ।
लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै ॥१५४॥

एतैर्व्याप्तमिदं विश्वं शतशोऽथ सहस्रशः ।
भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः ॥१५५॥

नानाप्रकारैराक्रान्ता नाना देशाः समन्ततः ।
समासाभिहिताश्चैवह्यष्टौ राक्षसमातरः ॥१५६॥

अष्टौ विभागा ह्येषां हि व्याख्याता अनुपूर्वशः ।
भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः ॥१५७॥

सहस्रशतसंख्याता मर्त्य लोकविचारिणः ।
पूतरा मातृसामान्यास्तथा भूतभयङ्कराः ॥१५८॥

बालानां मानुषे लोके ग्रहा मरणहेतुकाः ।
स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः ॥१५९॥

कौमारास्ते तु विज्ञेया बालानां गृहवृत्तयः ।
स्कन्दग्रहविशेषाणां मायिकानां तथैव च ॥१६०॥

पूतना नाम भूतानां ये च लोकविनायकाः ।
एवं गणसहस्राणि चरन्ति पृथिवीमिमाम् ॥१६१॥

यक्षाः पुण्यजना नामपूर्णभद्राश्च ये स्मृताः ।
यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये ॥१६२॥

नैरृतानां च सर्वेषां राजभूदलकाधिपः ।
यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे ॥१६३॥

रक्षांस्यनुप्रवेशेन पिशाचैः परिपीडनैः ।
सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः ॥१६४॥

भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः ।
अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः ॥१६५॥

सूक्ष्माश्चौजस्विनोमेध्या वरदा याज्ञिकाश्च वै ।
देवानां लक्षणं ह्येतदसुराणां तथैव च ॥१६६॥

हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसः स्मृताः ।
गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः ॥१६७॥

ऐश्वर्यहीना रक्षोभ्यः पिशाचास्त्रिगुणां पुनः ।
एवन्धनेन रूपेण आयुषा च बलेन च ॥१६८॥

धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ।
देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान्परस्परम् ॥१६९॥

गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ।
अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः ॥१७०॥

क्रोधायाः कन्यका जज्ञे द्वादशैवात्मसंभवाः ।
ता भार्या पुलहस्यासन्नामतो मे निबोधत ॥१७१॥

मृगी च मृगमन्दा च हरिभद्रा त्विरावती ।
भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च ॥१७२॥

श्वेता च सरमा चैव सुरसा चेति विश्रुता ।
मृग्यास्तु हरिगाः पुत्रा मृगश्चान्ये शशास्तथा ॥१७३॥

न्यङ्कवःशरभा ये च रुरवः पृषताश्च ये ।
ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा ॥१७४॥

महिषोष्ट्रवराहश्च खड्गा गौरमुखास्तथा ।
हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः ॥१७५॥

वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा ।
सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः ॥१७६॥

सर्पाश्चाजगरा ग्राहा मार्जारा मूषिकाः परे ।
मण्डूका नकुलाश्चैव वल्कका वनगोचराः ॥१७७॥

हंसं तु प्रथमं जज्ञे पुलहस्य वरं शुभा ।
रणचन्द्रं शतमुखं दरीमुखमथापि च ॥१७८॥

हरितं हरिवर्माणं भीषणं शुभलक्षणम् ।
प्रथितं मथितं चैव हरिणं लाङ्गलिं तथा ॥१७९॥

श्वेताया जज्ञिरे वीरा दश वानरपुङ्गवाः ।
ऊर्द्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः ॥१८०॥

पारिजातः सुजातश्च हरिदासो गुणाकरः ।
क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते ॥१८१॥

तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहाः ।
अशक्याः समरेजेतुं देवदानवमानवैः ॥१८२॥

यक्षभूतपिशाचैश्च राक्षसैः सुभुजङ्गमैः ।
नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते ॥१८३॥

असंगगतयः सर्वे पृथिव्यां व्योम्नि चैव हि ।
पाताले च जले वायौ ह्यविनाशिन एव ते ॥१८४॥

दशकोटिसहस्राणि दशार्बुदशतानि च ।
महापद्मसहस्राणि महापद्मशतानि च ॥१८५॥

दशार्बुदानि कोटीनां सहस्राणां शतं शतम् ।
नियुतानां सहस्राणि निखर्वाणां तथै व च ॥१८६॥

दशार्बुदानि कोटीनां षष्टिकोटिस्तथैव च ।
अर्बुदानां च लक्षं तु कोटीशतमथापरम् ॥१८७॥

दश पद्मानि चान्यानि महापद्मानि वै नव ।
संख्यातानि कुलीनानां वानराणां तरस्विनाम् ॥१८८॥

सर्वे तेजस्विनः शूराः कामरूपा महा बलाः ।
दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः ॥१८९॥

यष्टारः सर्वयज्ञानां सहस्रशतदक्षिणाः ।
मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः ॥१९०॥

वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः ।
अस्त्राणां मोचने चापि तथा संहारकर्मणि ॥१९१॥

दिव्यमं त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः ।
समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः ॥१९२॥

दिव्यरूपधराः सौम्या जरामरणवर्जिताः ।
कुलानां च सहस्राणि दश तेषां महात्मनाम् ॥१९३॥

चतुर्षु मेरुपार्श्वेषु हेमकूटे हिमाह्वये ।
नीले श्वेतनगे चैव निषधे गन्धमादने ॥१९४॥

द्वीपेषु सप्तसु तथा या गुहा ते च पर्वताः ।
निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम् ॥१९५॥

पुरैश्च विविधाकारैः प्रकारैश्च विभूषिताः ।
सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः ॥१९६॥

गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः ।
आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा ॥१९७॥

सर्वरत्नसमाकीर्णा मानसीं सिद्धिमास्थिताः ।
वानरा वानरीभिस्ते दिव्याभरणभूषिताः ॥१९८॥

पिबन्तो मधु माध्वीकं सुधाभक्षानुमिश्रितम् ।
क्रियामयाः समुदिता दिवि देवगणा इव ॥१९९॥

देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः ।
धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः ॥२००॥

अक्षुद्राः सर्वसत्त्वानां देवद्विजपरायणाः ।
अम्लानिनः सत्यसंधा नानार्थे बहुजल्पिनः ॥२०१॥

मितभाषाः क्षमावन्तो ह्याचारपरिनिष्ठिताः ।
वनालङ्कारभूतो हि सृष्टा वै ब्रह्मणा स्वयम् ॥२०२॥

भक्त्या निमित्तं लोकेषु रामस्यार्थे गुणाकरः ।
कपीनामवतारोऽयं सर्वपापविनाशनः ॥२०३॥

धन्यः पुण्यो यशस्यश्च रमणीयः सुखावहः ।
तदेव कीर्तयिष्यामि तच्छृणुध्वमतन्द्रिताः ॥२०४॥

ऊर्द्ध्वदृष्टेश्च तनयो प्याघ्रो नामाभवद्भली ।
व्याघ्रस्य भ्रातरः पञ्च स्वसारश्च तथास्य वै ॥२०५॥

तांस्तथा स्वानुरूपेषु वानरेषु कृतात्मसु ।
प्रतिपादिता स्वयं भ्रात्रा भातृदारास्तथैव च ॥२०६॥

व्याघ्रस्य तु सुतो जज्ञे शरभोलोकविश्रुतः ।
शरभस्यापि विद्धांसो भ्रातरो वीर्यसंमताः ॥२०७॥

राजानो वानराणां च सर्वधर्मप्रतिष्ठिताः ।
शरभस्य सुतो धीमाञ्शुको नाम महाबलः ॥२०८॥

तस्यापि पुत्रो बलवान्व्यघ्री जठरसंभवः ।
संमतः सर्वशूराणां चक्रवर्ति दुरासदः ॥२०९॥

ऋक्षोनाम महातेजाः सर्ववानरयूथपः ।
इन्ता सदैव शत्रूणां सर्वास्त्रविधिपारगः ॥२१०॥

तस्मै तादृग्विशिष्टाय सुतां गुणगणैर्युताम् ।
प्रजापतिरुपादाय कन्यां हेमविभूषिताम् ॥२११॥

विरजौ विरजां तस्मै प्रत्यपादयदं जसा ।
पाणिं जग्राह तस्यास्तु ऋक्षो वानरयूथपः ॥२१२॥

दर्शनीयानवद्याङ्गी सा कन्या चारुहासिनी ।
चकमे तां महेन्द्रस्तु दृष्ट्वा वै प्रियदर्शनाम् ॥२१३॥

तेन तस्यां सुतो जातो वाली विक्रमपौरुषः ।
विरजायां महेन्द्रेण महेन्द्रसमविक्रमः ॥२१४॥

तथा स्वांशो भानुना वै तस्यामेव यधाविधि ।
रहस्युत्पादितः पुत्रः सुग्रीवो हरियूथपः ॥२१५॥

ऋक्षो दृष्ट्वा तु तनयौ बलरूपश्रिया युतौ ।
हर्ष चक्रे सुविपुलं सर्ववानरयूथपः ॥२१६॥

सोऽब्यषिञ्चत्सुतं ज्येष्ठं वालिनं हेममालिनम् ।
अभिषिक्तस्ततो वाली सुग्रीवानुगतो बली ॥२१७॥

कारयामास राज्यं च दिवि देवेश्वरो यथा ।
सुषेणास्य सुता चापि भार्या तस्य महात्मनः ॥२१८॥

तारा नाम महाप्राज्ञा ताराधिपनिभानना ।
सुषुवे सापि तनयमङ्गदं कनकाङ्गदम् ॥२१९॥

अङ्गदस्यापि तनयो जातो भीमपरा क्रमः ।
मैन्दस्य च्येष्ठकन्यायां ध्रुवो नाम महायशाः ॥२२०॥

सुग्रीवस्य रुमा भार्या पनसस्य सुता शुभा ।
तस्यापि च सुता जातास्त्रयः परमकीर्त्तयः ॥२२१॥

तेषां दारांस्तथासाद्य सुस्वरूपान्बली ततः ।
वालिनः पार्श्वतोऽतिष्ठत्सुग्रीवः सह वानरैः ॥२२२॥

बहून्वर्षगणानग्रो भ्रात्रा सह यथामरः ।
केसरी कुञ्जरस्याथ सुतां भार्यामविन्दत ॥२२३॥

अञ्जना नाम सुभागा गत्वा पुंसवने शुचिः ।
पर्युपास्ते च तां वायुर्यौंवनादेव गर्विताम् ॥२२४॥

तस्यां जातस्तु हनुमान्वायुना जगदायुना ।
ये ह्यन्ये केसरिसुता विख्याता दिवि चेह वै ॥२२५॥

ज्येष्ठस्तु हनुमांस्तेषां मतिमांस्तु ततः स्मृतः ।
श्रुतिमान्केतुमांश्चैव मतिमान्धृतिमानपि ॥२२६॥

हनुमद्भ्रातरो ये वै ते दारैः सुप्रतिष्ठताः ।
स्वानरूपैः सुताः पित्रा पुत्रपौत्रसमन्विताः ॥२२७॥

ब्रह्मचारी च हनुमान्नासौदारैश्च योजितः ।
सर्वलोकानपि रणे यो योद्धुं च समुत्सहेत् ॥२२८॥

जवे जवे च वितते वैनतेय इवापरः ।
अग्निपुत्रश्च बलवान्नलः परमदुर्ज्जयः ॥२२९॥

क्षेत्रे कनकबिन्दोस्तु जातो वानरपुङ्गवः ।
तथात्वन्ये महाभागा बलवन्तश्च वानराः ॥२३०॥

सप्रधानास्तु विज्ञेया हरियूथप यूथपाः ।
तारश्च कुसुमश्चैव पनसो गन्धमादनः ॥२३१॥

रूपश्रीर्विभवश्चैव गवयो विकटः सरः ।
सुषेणः सुधनुश्चैव सुबन्धुः शतदुन्दुभिः ॥२३२॥

विकचः कपिलो रौद्रः परियात्रः प्रभञ्जनः ।
कुञ्जरः शरभो दंष्ट्री कालमूर्तिर्महासुखः ॥२३३॥

नन्दः कन्दरसेनश्च नलो वारुणिरेव च ।
चिरवः करवस्ताम्रश्चित्रयोधी रथीतरः ॥२३४॥

भीमः शतबलिश्चैव कालचक्रोऽनलो नलः ।
यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा ॥२३५॥

पारिजातो महादीप्तः सुतपा बलसागरः ।
श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार्थकः ॥२३६॥

धर्मचेतास्सुहोत्रश्च शालिहोत्रोऽथ सर्पगः ।
पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शतुजित् ॥२३७॥

विकटः कवटो मैन्दो बिन्दुकारोऽसुरान्तकः ।
मन्त्री भीमरथः संगो विभ्रान्तश्चारुहासवान् ॥२३८॥

क्षणक्षणामताहारी दृढभक्तिः प्रमर्दनः ।
जाजलिः पञ्चमुकुटो बलबन्धुः समाहितः ॥२३९॥

पयः कीर्त्तिः शुभः क्षेत्रो बिन्दुकेतुः सहस्रपात् ।
नवाक्षे हरिनेत्रश्च जीमूतोऽथ बलाहकः ॥२४०॥

गजो गवयनामा च सुबाहुश्च गुणाकरः ।
वीरबाहुः कृती कुण्डो कृतकृत्यः शुभेक्षणः ॥२४१॥

द्विविदः कुमुदो भासः सुमुखः सुरुवुर्वृकः ।
विकटः कवकश्चैव जवसेनो वृषाकृतिः ॥२४२॥

गवाक्षो नरदेवश्च सुकेतुर्विमलाननः ।
सहस्वारः शुभक्षेत्रः पुष्पध्वंसो विलोहितः ॥२४३॥

नवचन्द्रो बहुगुणः सप्तहोत्रो मरीचिमान् ।
गोधामा च धनेशश्च गोलाङ्गूलश्च नेत्रवान् ॥२४४॥

इत्येते हरयः क्रान्ताः प्राधान्येन यथार्थतः ।
बहुत्वान्नामधेयानां न शक्यमभिवर्णितुम् ॥२४५॥

नागकोटीदशबले एकैकस्य प्रतिष्ठितम् ।
सर्ववानरसैन्यस्य सप्तद्वीपस्थितस्य तु ॥२४६॥

किष्किन्धामाश्रितो वाली राजासीच्छत्रुतापनः ।
रणे निगूङ्य वामेन भुजेन स महाबलः ॥२४७॥

विष्टभ्य पार्श्वेसंस्थाप्य रावणन्ध्यानमस्थितः ।
मौहूर्तिकीं गतिं गत्वा चतुः परशर्वानुपस्पृशन् ॥२४८॥

समुद्रं दक्षणं पूर्वपश्चिमं च तथोत्तरम् ।
मनोवायुगतिर्भूत्वा वाली व्यपगतक्रमः ॥२४९॥

स निर्जित्य महावीर्यो रावणं लोकरावणम् ।
वाली बाहुविनिर्मुक्तं विह्वलं नष्टचेतसम् ॥२५०॥

वृक्षमूलप्रदेशे च स्थापयित्वा बलोत्कटः ।
सिच्यांभसा सुशीतेन ह्यापादतलमस्तकात् ॥२५१॥

स च तं लब्धसंज्ञं च कृत्वा विस्मयमास्थितः ।
उवाच रणचण्डं तं राक्षसेंद्रं कपीश्वरः ॥२५२॥

भो भो राक्षसाजेन्द्र महेन्द्रसमविक्रम ।
असंख्येयं बलं जित्वा यमं ससचिवं रणे ॥२५३॥

वरुणं च कुबेरं च शशिनं भास्करं तथा ।
मरुद्गणं तथा रुद्रानादित्यानश्विनौ वसून् ॥२५४॥

दैतेयान्कालकेयांश्च दानवान्सुमहाबलान् ।
सिद्धांस्तथैव गन्धर्वान्यक्षरक्षोभुजङ्गमान् ॥२५५॥

पक्षिणां प्रवरांश्चैव ग्रहनक्षत्रतारकाः ।
तथा भूतपिशाचांश्च विवृद्धबलदर्पितान् ॥२५६॥

मानुषाणां नृपांश्चैव शतशोऽथ सहस्रशः ।
कथमीदृग्गुणो भूत्वा मनोवायुसमो जवे ॥२५७॥

शक्तोऽसि चालनि मेरोः कृतान्त इव दुर्जयः ।
विद्राव्य सर्वोंल्लोकेषु वीरान्परपुरञ्ज्यः ॥२५८॥

बलैरशनिकल्पैश्च समीकृत्य च पर्वतान् ।
विक्षोभ्य सागरान्सप्त सप्तकृत्वो महारथः ॥२५९॥

निर्विकारो जयप्रेप्सुः स्मयमानो बलाद्बली ।
दुर्बलेन मया क्रान्तो वानरेण विशेषतः ॥२६०॥

किमर्थमीदृशं शप्तो बलवानपि दुर्जयः ।
प्रब्रूहि हेतुना केन ब्रह्मन्राक्षसपुङ्गव ॥२६१॥

अभयं ते मया दत्तं विश्वस्तो भव ते न भीः ।
वयनं वालिनः श्रुत्वा दशग्रीवः प्रतापवान् ॥२६२॥

उवाच भयसंविग्नः सांत्वपूर्वमिदं वचः ।
असंशयं जिताः सर्वे मया देवासुरा रणे ॥२६३॥

एवं विधस्तु बलवान्न मयासादितः क्वचित् ।
तदिच्छामि त्वया सार्द्धं सौहृदं भयवर्जितम् ॥२६४॥

मत्तो भवेन्न ते वीर कदाचिद्वै रणाजिरम् ।
एवमुक्तोऽब्रवीद्वाली भवत्येतद्वचस्तव ॥२६५॥

समये स्थापयित्वा तु रावणो वालिनं पुरा ।
जगाम लङ्कां सगणः प्रहृष्टेनान्तरात्मना ॥२६६॥

वाली विजित्य बलवान् पुष्करे राक्षसेश्वरम् ।
आजहार बहून्यज्ञानन्नपानसमावृतान् ॥२६७॥

दक्षिणाभिः प्रवृद्धाभिः शतशोऽथ सहस्रशः ।
अग्निष्टोमाश्वमेधांश्च राजसूयान्नृमेधकान् ॥२६८॥

सर्वमेधानपि बहून्सर्वदानसमन्वितान् ।
तर्पयित्वाथ देवांश्च देवेन्द्रंबहुभिस्तथा ॥२६९॥

ब्रह्माणं तेषयित्वा च हुत्वाग्रिं बहुवार्षिकम् ।
सुग्रीवेण सह भ्रात्रा सुखी भूत्वा यवीयसा ॥२७०॥

राज्यं च पालयित्वा स कपीनामकुतोभयः ।
ब्रह्मण्यो ब्रह्मपरमो धर्मसेतुः क्रियापरः ॥२७१॥

बहून्वर्षगणान्रेमे सर्वशास्त्रविशारदः ।
यस्य देवमुनिर्गाथां जगौ यज्ञेषु नारदः ॥२७२॥

न यज्ञहवने दानेजवेनापि पराक्रमे ।
तुल्योऽस्ति त्रिषु लोकेषु वालिनोहेममालिनः ॥२७३॥

शांशपायन उवाच
अहो महाप्रभा वस्तु महेन्द्रतनयो बली ।
वाली यज्ञसहस्राणां यज्वा परमदुर्जयः ॥२७४॥

चक्रवर्त्ती महाप्राज्ञे वाली च कथितस्त्वया ।
मार्त डस्य तु नो ब्रूहि कथं मार्त्तण्डता स्मृता ।
निरुक्तमस्य तु विभो याथातथ्येन सुव्रत ॥२७५॥

सूत उवाच
सृत्यमानेषु भूतेषु प्रजापतिरथ स्वयम् ॥२७६॥

त्रैलोक्याद्यत्परं तेजस्तदाहृत्यादितेर्त्दृदि ।
प्रवेशायामास तदा योगेन महता वृताः ॥२७७॥

पूर्वमण्डं तु भगवानस्याश्चक्रे तथोदरे ।
तत्रावर्त्तत गर्भो वै अण्डस्याभ्यन्तरे बली ॥२७८॥

वर्द्धमानोऽतिमात्रं वै देवा निस्तेजसोऽभवन् ।
सर्वतो निर्मितं ज्ञात्वा गर्भं ते त्दृततेजसः ॥२७९॥

ऊचुः प्रजापतिं भीता कथं नो भविता त्विदम् ।
बलं तेजोऽस्य भविता निर्मितस्याधिकं विभो ॥२८०॥

नुनं कथं भविष्यामो नूनं नष्टा हि शाश्वत ।
सर्वभूतानि यानीह स्यावराणि चरणि च ॥२८१॥

तानि दग्धानि न चिराद्भविष्यन्ति न संशयः ।
यदेडे स्थापितं तेजो बलं च द्विजसत्तम ॥२८२॥

तत्संहर विचिन्त्येह यन्नः श्रेय स्करं भवेत् ।
श्रुतितेजः प्रभावश्च धक्षते सर्वतोंऽजसा ॥२८३॥

स चिन्तयित्वा भगवान्प्रजापतिरथाक्षिपत् ।
बलं चाण्डे चकाराथ ततस्त्वण्डान्तरे शिशुः ॥२८४॥

यदण्डं तद्बलं प्राहुर्यत्तेजः स शिशुर्मतः ।
तत्तूदराद्विनिष्क्रान्तं मृतपिण्डोपमं स तु ॥२८५॥

प्रजापतिस्ततो दृष्ट्वा तदण्डं वै द्विधाकरोत् ।
शकले द्वे समास्थाय स एकस्मिन्नपश्यत ॥२८६॥

गर्भं दुर्बलभावेन युक्तं तेजोमयं सकृत् ।
तत्समुद्यम्य चोत्थायादिन्युत्संगे निवेद्य च ॥२८७॥

उवाचादित्यभावच्च यस्मादण्डेन वै स्मृतः ।
तेन मार्त्तण्ड इति वै कथ्यते सविता बुधैः ॥२८८॥

तेजश्चैवाधिकं तस्मै निर्ममे प्रपितामहः ।
ये ते अण्डकपाले द्वे तद्बलं परमं मतम् ॥२८९॥

नाभौ पृथग्व्य वस्थाप्य इरावत्यै ददौ प्रभुः ।
उदरे प्रवेशयामास तस्याः स जननेच्छया ॥२९०॥

इरावत्यास्तथा जाताश्चत्वारो लोकसंमताः ।
देवोपवाह्या राजानो हस्तिनो बलवत्तराः ॥२९१॥

ऐरावणोऽथ कुमुदौ ह्यञ्जनो वामनस्तथा ।
उत्तरत्र च वो भूयस्तेषां वक्ष्यामि विस्तरम् ॥२९२॥

योऽयं प्रधानो लोकेऽस्मिन्नधिकेनामितौजसा ।
भगवान्सविता साक्षात्प्रभासयति रश्मिभिः ॥२९३॥

निरालोकं जगदिदं लोकालोकान्तरं द्विजाः ।
बाह्यं तमोवृतं सर्वं तत्प्रमाणमशेषतः ॥२९४॥

एतदुक्तं मया सर्वं यथावद्द्विजसत्तमाः ।
श्रुतं भगवतो व्यासात्पाराशर्यान्महात्मनः ॥२९५॥

सनत्कुमारेण पुरा प्रोक्तं वै वायुना पुरा ।
विमृश्य बहुधा तत्तु पुनरन्यैः पृथक्पृथक् ॥२९६॥

पुराणामृतकं श्रुत्वा पुण्यं सर्वार्थसाधकम् ।
अभयो विचरत्येव जात्यन्तरशतं गतः ॥२९७॥

मार्तण्डजननं ह्येतद्गेहे यस्य व्यवस्थितम् ।
कथ्यते वा कथा यस्य न तं विद्धि समानकम् ॥२९८॥

न चाकाले म्रियन्तेऽस्य बाला अपि कदाचन ।
ऋक्षस्य भगिनी रक्षा वानरस्य बलीयसः ॥२९९॥

प्रजापतिसकाशात्सा जज्ञे शूरपरिग्रहम् ।
ऋक्षराजं महाप्राज्ञं जांबवन्तं यशस्विनम् ॥३००॥

तस्य जांबवती नाम सुता व्याध्र्यामजायत ।
वासुदेवस्य सा दत्ता पित्रा राजीवलोचना ॥३०१॥

तथान्ये ऋक्षराजस्य सुता जाता महाबलाः ।
जयन्तोऽथ च सर्वज्ञो मृगराट्संकृतिर्जयः ॥३०२॥

मार्जारो बलिबाहुश्च लक्षणज्ञः श्रुतार्थकृत् ।
भोजो राक्षसजिच्चैव पिशाचवनगोचरौ ॥३०३॥

शरभः शलभश्चैव व्याघ्रः सिंहस्तथैव च ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥३०४॥

ऋक्षाणामेव तु गणो देवदानवपूजितः ।
मार्जारस्य तु मार्जारा वाद्याः पुत्रा महाबलाः ॥३०५॥

बभूवुः शतसाहस्राः सर्वे वीर्यसमन्विताः ।
आचार्याः श्वापदादीनां शरभाणां महौजसः ॥३०६॥

स्वादकाः पृषतादीनां मूषिकाणां च पक्षिणाम् ।
लाघवे प्लवने युक्ताः सर्वसत्त्वावसादकाः ॥३०७॥

ग्रामेषु वनशण्डेषु कोटरेषु गुहासु च ।
गृहेषु गृहगर्भेषु गृहवासावलंबिनः ॥३०८॥

नानागतिषु संचाराः कुशला ग्रामगोचराः ।
तथा वनचराश्चैव स्वभावात्समवस्थिताः ॥३०९॥

रात्रौ दिवाचराश्चैव संध्यासु च चरन्ति ते ।
नीलजीमूतवर्णाश्च कपिला केकरारुणाः ॥३१०॥

कृष्णवर्णास्तथा पिङ्गाभक्तिचित्रास्तथापरे ।
नखदंष्ट्रायुधा घोरा मयूरसमभाषणाः ॥३११॥

सरमायाः सुतौ जातौ शूरौ परमदुःसहौ ।
श्यामश्च शबलश्चैव यमस्यानुचरौ स्मृतौ ॥३१२॥

तयोः पुत्रा दुराधर्षाः पुत्रपौत्रसमन्विताः ।
श्रुतिमाप्तः पुनर्वंशः सारमेयेषु सर्वदा ॥३१३॥

सांप्रतं तत्सजातीया घोररूपा महाबलाः ।
विषादयन्ति च नरान्सर्वजातिसमन्वितान् ॥३१४॥

ग्रामासक्तो निवासस्तु तेषामेव भवत्युत ।
य इदं शृणुयाज्जन्म दंष्ट्रिणां श्रावयेत्तु यः ॥३१५॥

दंष्ट्रिभ्यो न भयं तस्य न चोरेभ्यो नवान्यतः ।
तात्कालमरणं चैव भवतीति विनिर्णयः ॥३१६॥

न च बन्धनमाप्नोति न वियोनिं न संकरम् ।
वानप्रस्था श्रितं धर्ममाप्नोति मुनिसेवितम् ॥३१७॥

संपन्नश्चैव दिव्येन धनेन च बलेन च ।
च्यवते न च ज्ञानेन जायते देवयोनिषु ॥३१८॥

द्वीपिनः शरभाः सिंहा व्याघ्रा नीलाश्च शल्यकाः ।
ऋक्षा मार्जारलोहासा वानरा मायवस्तथा ॥३१९॥

एता एकादश मता वानराणां तु जातयः ।
एषां प्रणेता सर्वेषां वाली राजा प्रतापवान् ॥३२०॥

देवासुरविमर्देषु जिघ्नता नित्यमानिनाम् ।
प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम् ॥३२१॥

उत्सिक्तबलनाशाय विचिन्त्य तु महात्मना ।
पक्ष एष समुद्दिष्टो महेन्द्रस्य सहायवान् ॥३२२॥

विहितः पूर्वमेवात्र ब्रह्मणा लोकधारिणा ।
इत्येते हरयः प्रोक्ता इरावत्या निबोधत ॥३२३॥

सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः ।
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥३२४॥

साम्ना प्रस्तूयमाने तु सद्य एव गतोऽभवत् ।
संप्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥३२५॥

इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः ।
देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥३२६॥

श्वेताभ्राभश्चतुर्दन्तः श्रीमानैरावतो गजः ।
अञ्जनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ॥३२७॥

षड्दन्तस्य हि भद्रस्य ह्यौपवाह्यस्य वै बलेः ।
तस्य पुत्रोंऽजनश्चैव सुप्रतीकश्च वामनः ॥३२८॥

पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ।
दिग्गजान्बलिनश्चैवाभ्रमुर्ज नयताप्सुगान् ॥३२९॥

भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् ।
संकीर्णो ह्यञ्जनो योऽसावौपवाह्यो यमस्य सः ॥३३०॥

भद्रो यः सुप्रतीकस्तु हस्तिः स ह्यपांपतेः ।
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य च ॥३३१॥

मृगश्यामस्तु यो हस्ती चौप वाह्यः स पावकेः ।
पद्मोत्तमः पद्मागुल्मो गजो वातगजो गजः ॥३३२॥

चपलोऽरिष्टसंज्ञश्च तस्याष्टौ जज्ञिरे सुताः ।
उदग्रभावेनो पेता जायन्ते तस्य चान्वये ॥३३३॥

श्वेतबालनखाः पिङ्गा वर्षावन्तो मतङ्गजाः ।
सामजांस्तु प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥३३४॥

कपिलः पुण्डरीकश्च सुनामानौ रथन्तरात् ।
जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ ॥३३५॥

शूराः स्थूलशिरोदन्ताः शुद्धबालनखास्तथा ।
बलिनः शङ्किताश्चैव स्मृतास्तद्वंशिनो गजाः ॥३३६॥

पुष्पदन्तो बृहत्साम्नः षड्दन्तः पद्मपुच्छवान् ।
ताम्र पर्णश्च तत्पुत्राः संघचारिविषाणिनः ॥३३७॥

अन्वये चास्य जायन्ते लंबोष्ठाश्चारुदर्शनाः ।
श्यामत्वग्रसनाशुण्डा नागाः पीनायता ननाः ॥३३८॥

वामदेवोंऽजनः श्यामः साम्नो जज्ञेऽथ वामनः ।
भार्या चैवाङ्गना तस्य नीलवल्लक्षणौ सुतौ ॥३३९॥

चण्डाश्चारु शिरोग्रीवा व्यूढोरस्कास्तरस्विनः ।
नीचैर्बद्धाः कुले तस्य जायन्ते निबिडा गजाः ॥३४०॥

सुप्रतीकस्तु वैरूप्यात्साम्नः सारूप्य मागतः ।
तस्य प्रहारी संपातिः पृथुश्चेति सुतास्त्रयः ॥३४१॥

प्रांशवो दीर्घताल्वोष्ठाः सुविभक्तशिरोरुहाः ।
जायन्ते मृदुसंभोगा वंशे तस्य मतङ्गजाः ॥३४२॥

अञ्जनादञ्जनः साम्नो विजज्ञे जाञ्जनावती ।
सुतौ जातौ तयोश्चापि प्रमाथिपुरुषौ स्मृतौ ॥३४३॥

महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः ।
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥३४४॥

शूरा दीनायतमुखा गजास्तस्यान्वयेऽभवन् ।
जज्ञे चान्द्रमसः साम्नः कुमुदः कुमुदद्युतिः ॥३४५॥

पिङ्गलायां सुतौ तस्य महापद्मोर्मिमालिनौ ।
शैलजीमूतसंकाशान्सुबुद्धान्बलिनो वरान् ॥३४६॥

हस्तियुद्धप्रियान्नागान्विद्धि तस्य कुलोद्भवान् ।
एतान्देवासुरे युद्धे जयार्थं जगृहुः सुराः ॥३४७॥

कृतार्थैश्च विसृष्टास्ते पूर्वोक्ताः प्रययुर्द्दिशः ।
एतेषां चान्वये जातान्विनीतांस्त्रिदशा ददुः ॥३४८॥

अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ।
द्विरदो रदनद्वाभ्यां हस्ती हस्तात्करात्करी ॥३४९॥

वारणो वारणाद्दन्ती दन्ताभ्यां गर्जनाद्गजः ।
कुञ्जरः कुञ्जचारित्वान्नागो नगम्यमस्य यत् ॥३५०॥

मत्तं यातीति मातङ्गो द्विपो द्वाभ्यां पिबन्स्मृतः ।
सामजः सामजातत्वादिति निर्वचनक्रमः ॥३५१॥

एषां जिह्वापरावृत्तिर्ह्युक्ता वै चाग्निशापजा ।
बलस्यानवबोधो यो या चैषां गूढमुष्कता ॥३५२॥

उभयं दन्तिनामेतज्ज्ञेयं तु सुरशापजम् ।
देवदानगन्धर्वपिशाचोरगरक्षसाम् ॥३५३॥

कन्यासु जाता दिग्नागैर्नानासत्त्वास्ततो गजाः ।
संभूतिश्च प्रसूतिश्च नामनिर्वचनं तथा ॥३५४॥

एतद्गजानां विज्ञेयमेषां राजा स चाभ्रमः ।
कौशिक्या ह्यासमुद्रात्तु गङ्गायश्च यदुत्तरम् ॥३५५॥

अञ्जनस्यैकमूलस्य विज्ञेयं गहनं तु तत् ।
उत्तरं चैव विध्यस्य गङ्गाया दक्षिणं च यत् ॥३५६॥

गङ्गोद्भेदे सकेरुभ्यः सुप्रतीकस्य पत्तनम् ।
अपरेणोत्कलं चैव कावेरीभ्यश्च पश्चिमम् ॥३५७॥

एकसूकात्मजस्यैतद्वामनस्यवनंस्मृतम् ।
अपरेणतु लौहित्यमासिंधोः पश्चिमेन तु ॥३५८॥

पद्मस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ।
भूता विजज्ञे भूतांस्तु रुद्रस्यानुचरानिह ॥३५९॥

स्थूलान्कृशांश्च दीर्घांश्च वामनान्ह्रस्वकान्समान् ।
लंबकर्णान्प्रलंबौष्ठान् लंबजिह्वांस्तनूदरान् ॥३६०॥

एकनेत्रान्विरूपांश्च लंबस्फिक्स्थूलपिण्डिकान् ।
सकृष्णगौरान्नीलांश्च श्वेतान्वै लोहिताननान् ॥३६१॥

बभ्रून्वै शबलान्धूम्रान्विकद्रून्नासमारूणान् ।
मुञ्जकेशान्त्दृष्टरोम्णः सर्वयज्ञोपवीतिनः ॥३६२॥

बहुशीर्षान्विपादांश्च ह्येकशीर्षानशीर्षकान् ।
चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान् ॥३६३॥

मुण्डांश्च जटिलांश्चैव कुब्जान्वक्रान्सवामनान् ।
सरः श्रेष्ठसमुद्राद्रिनदीपुलिनसेविनः ॥३६४॥

एककर्णान्महाकर्णाञ्छङ्कुकर्णानकर्णकान् ।
दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च विजिह्वकान् ॥३६५॥

एकहस्तान्द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ।
एकपादान्द्विपादांश्च त्रिपादान्बहुपादकान् ॥३६६॥

महायोगान्महासत्त्वान्सुमनस्कान्महाबलान् ।
सर्वत्रगातप्रतिघातब्रह्मज्ञान्कामरूपिणः ॥३६७॥

घोरान्क्रूरांश्च मेध्यांश्च मद्यमेध्यान्सुधार्मिकान् ।
कूटदन्तान्महाजिह्वान्विकेशान्विकृताननान् ॥३६८॥

हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ।
धन्विनो मुद्गरधरा नसिशूलधरांस्तथा ॥३६९॥

दिग्वाससश्चित्रवेषांश्चित्रमाल्यानुलेपनान् ।
अन्नादान्पिशितादांश्च सुरापान्सोमपांस्तथा ॥३७०॥

केचित्संध्याचरा घोराः केचित्सौम्या दिवाचराः ।
नक्तञ्चराः खरस्पर्शा घोरास्तेषां निशाचराः ॥३७१॥

परत्वेन भवं देवं सर्वे ते गतमानसाः ।
नैषां भार्यास्ति पुत्रा वा सर्वे ते ह्यूर्ध्वरेतसः ॥३७२॥

शतं तानि सहस्राणि भूतानामात्मयोगिनाम् ।
भवपारिषदास्ते वै सर्वे भूताः प्रकीर्त्तिताः ॥३७३॥

कपिशायाश्च कूष्माण्डा जज्ञिरे च पुनः पुनः ।
मिथुनेन पिशाचांश्च वर्णेन कपिशेन तु ॥३७४॥

कपिशत्वात्पिशाचास्ते सर्वे च पिशिताशनाः ।
युग्मानि षोडशाद्यानि वर्त्तमानस्तदन्वयः ॥३७५॥

नामतस्तान्प्रवक्ष्यामि रूपतश्च तदन्वयम् ।
छगलश्छगला चैव वक्रो वक्रमुखी तथा ॥३७६॥

दुष्पूरः पूरणा चैव सूची सूचीमुखस्तथा ।
विपादश्च विपादी च ज्वाला चाङ्गारकस्तथा ॥३७७॥

कुंभपात्रश्च कुंभी च प्रतुन्दश्च प्रतुन्दिका ।
उपवीरश्च वीरा च ह्युलूखल उलूखली ॥३७८॥

अकर्मकः कर्मकी च कुषण्डश्च कुषण्डिका ।
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥३७९॥

नितुन्दश्च नितुन्दी च निपुणो निपुणी तथा ।
बालादः केषणादी च प्रस्कन्दः स्कन्दिका तथा ॥३८०॥

षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ।
अजामुखा पक्रमुखाः पूरणः स्कन्दिनस्तथा ॥३८१॥

विपादाङ्गारिकाश्चैव कुंभपात्राः प्रतुन्दकाः ।
उपवीरोलूखलिका अर्कमर्काः कुषण्डिकाः ॥३८२॥

पांशवः पाणिपत्राश्च नैतुन्दा निपुणास्तथा ।
सूजीमुखोच्छेषणादाः कलान्येतानि षोडश ॥३८३॥

इत्येता ह्यभि जातास्तु कूष्माण्डानां प्रकीर्त्तिताः ।
पिशाचास्ते पिशाच्यस्ताः सकुल्याः संप्रजज्ञिरे ॥३८४॥

बीभत्सं विकृताकारं पुत्रपौत्रमनेतकम् ।
अतस्तेषां पिशाचानां लक्षणानि निबोधत ॥३८५॥

सर्वाङ्गकेशा वत्ताक्षा दंष्ट्रिणो नखिनस्तथा ।
तिर्य्यगङ्गाः पारुषदाः पिशाचास्ते ह्यजामुखाः ॥३८६॥

अकर्णका ह्यरोमाणोऽवाससश्चर्मवाससः ।
कुषण्डिकपिशाचास्ते प्रियभक्षाः सदामिषाः ॥३८७॥

वक्राङ्गहस्तापादाश्च वक्रशीलमतास्तथा ।
ज्ञेया वक्राः पिशाचास्ते वक्रगाः कामरूपिणः ॥३८८॥

लंबोदरास्तुण्डनासा ह्रस्वकाय शिरोभुजाः ।
नितुन्दकाः पिशाचास्ते तिलभक्षाः प्रियासृजाः ॥३८९॥

वानराकृतयश्चैव वाचालाः प्लुतगामिनः ।
पिशाचार्कमर्कास्ते वृक्षवासोदनप्रियाः ॥३९०॥

ऊर्ध्वबाहूर्द्ध्वरोमाण उद्धृताक्षा यथालयाः ।
मुञ्चन्ति पांशुमङ्गेभ्यः पिशाचाः पांशवस्तु ते ॥३९१॥

भ्रमरीसन्निभाः शुष्कासशूलाश्चीरवाससः ।
उपवीराः पिशाचास्ते श्मशानायतनाः सदा ॥३९२॥

निष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युलूखलाः ।
उलूखलैराभरणा रत्नधाराश्च ते खलाः ॥३९३॥

पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ।
हस्त्युष्ट्रस्थूलशिरसो विनतोद्धतपिण्डिकाः ॥३९४॥

पिशाचाः कुंभपात्रास्ते अदृष्टान्नानि भुञ्जते ।
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति ये ॥३९५॥

अयुक्तान्प्रचरन्तीह निपुणास्ते पिशाचकाः ।
आकर्णाद्दारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥३९६॥

शून्यागारप्रियाः स्थूलाः पिशाचास्ते तु पूरणाः ।
हस्तपादाक्रान्ततुण्डा ह्रस्वकाः क्षितिदृष्टयः ॥३९७॥

बालादास्ते पिशाचा वै सूतिकागृहसेविनः ।
पृष्ठतः पाणि पादाश्च पृष्ठतो वातरंहसः ॥३९८॥

विपादकाः पिशाचास्ते संग्रामे रुधिराशनाः ।
नग्नका ह्यनिकेताश्च लंबशेफ आण्डपिडकाः ॥३९९॥

पिशाचाः स्कन्दिनस्ते वै अन्य उच्छेषणादिनः ।
षोडशैता हि जात्यस्ताः पिशाचानां प्रकीर्त्तिताः ॥४००॥

एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकंपया ।
ब्रह्मा तेभ्यो वरं प्रादात्कारुण्यादल्पचेतसः ॥४०१॥

अन्तर्धानं प्रजायां हि कामरूपित्वमेव च ।
संध्ये उभे प्रचारं च स्थानान्याजीवमेव च ॥४०२॥

गृहाणि यानि भग्नानि शून्यान्यल्पजलानि च ।
विध्वस्तानि च यानि स्युरनाचारोषिता नि च ॥४०३॥

असंमृष्टोपलिप्तानि संस्कारैर्वर्जितानि तु ।
राजमार्गोपरथ्याश्च निष्कुटाश्चत्वराणि च ॥४०४॥

द्वाराण्यट्टालकांश्चैव निर्गमास्संक्रमास्तथा ।
पथो नद्योऽथ तीर्थानि चैत्यवृक्षा महापथम् ॥४०५॥

पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ।
अधार्मिको जनस्तेषामा जीवो विहितः सुरैः ॥४०६॥

वर्णाश्रमाः संकरिकाः कारुशिल्पिजनास्तथा ।
प्रकृतोपधिसंधानाश्चोरा विश्वासघातिनः ॥४०७॥

एतैरन्यैश्च बहुभिरन्यायोपार्जितैरपि ।
आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतम् ॥४०८॥

मधुमांसोदनैर्दध्ना तिलचूर्णैः सुरासवैः ।
धूपैर्हारिद्रकृसरैस्तिलभक्षगुडौदनैः ॥४०९॥

कृष्णानि चैव वासांसि धूपः सुमनमोऽक्षयः ।
एवसुक्तास्तु बलयस्त्वेषां वै पर्वसंधिषु ॥४१०॥

पिशाचानामनुज्ञाय ब्रह्मा चाधिपतिं ददौ ।
सर्वभूतपिशाचानां गिरीणां शूलपाणिनाम् ॥४११॥

दंष्ट्रा त्वजनयत्पुत्रान्सिंहान्व्याघ्रांश्च भामिनी ।
द्वीपिनश्च सुतास्तस्याः श्वापदाश्चामिषाशिनः ॥४१२॥

ऋषायास्त्वपि कार्त्स्न्ये प्रजासर्गं निबोधत ।
तस्या दुहितरः पञ्च तासां नामानि मे शृणु ॥४१३॥

मीनामीना तथा वृत्ता परि वृत्ता तथैव च ।
अनुवृत्ता च विज्ञेया तासां वै शृणुत प्रजाः ॥४१४॥

सहस्रदंष्ट्रा मकराः पाठीनास्तिमिरोहिताः ।
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥४१५॥

ग्राहाश्चतुर्विधा ज्ञेया मद्गुराःशङ्कवस्तथा ।
उग्राश्च शिशुमाराश्चामीनाश्चैतान्व्यजायत ॥४१६॥

वृत्ता कर्मविकाराणि नैकानि जलचारिणाम् ।
तथा शङ्खविकाराणि जनयामास नैकशः ॥४१७॥

मण्डूकानां विकाराणि ह्यनुवृत्ता व्यजायत ।
ऐणेयानां विकाराणि शंबूकानां तथैव च ॥४१८॥

तथा शुक्तिविकारणि वराटविकृतानि च ।
तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥४१९॥

कालकण्ठविकाराणि जलूकाविकृतानि च ।
इत्येष हि ऋषावंशः पञ्चशाखः प्रकीर्त्तितः ॥४२०॥

तिर्याहेतुक मप्याहुर्वहुलं वंशविस्तरम् ।
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥४२१॥

स्वेदक्लिन्नशरीरेभ्यो यूकालिक्षादिका द्विजाः ।
मनुष्यस्वेदमलजा उशना नाम जन्तवः ॥४२२॥

नानापिपीलिकगणाः कीटका बहुपादकाः ।
शङ्खोपलविकाराणि कीलकावरकाणि च ॥४२३॥

इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ।
यथा घर्मदितप्पाभ्यश्चाभ्द्यो वृष्टिभ्य एव ॥४२४॥

नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ।
मक्षिकाः पिच्छला देशास्तथा तित्तिरिपुत्तिकाः ॥४२५॥

नीलाचत्राश्च जायन्ते मलजा बहुविस्तराः ।
जलजाः स्वेदजाश्चैव जायन्ते जन्तस्त्विमे ॥४२६॥

काशतोयजकाः कीटा नलदा बहुपादकाः ।
सिंहला रोमलाश्चैव पिच्छिलाः परिकीर्त्तिताः ॥४२७॥

इत्येवमादिर्हि गणो जलजस्वेदजः स्मृतः ।
शिंबिभ्यो माषमुद्गानां जायन्ते कृमयस्तथा ॥४२८॥

बिल्वजं ब्वाम्रपूमेभ्यः फलेभ्यश्चैव जन्तवः ।
मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च ॥४२९॥

तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ।
अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा ॥४३०॥

जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ।
बहून्यहानि निक्षिप्ते संभवन्ति च गोमये ॥४३१॥

जायन्ते कृमयो विप्राः काष्ठेभ्यश्चापि सर्वशः ।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥४३२॥

गोभ्यो हि महिषेभ्यश्च तथान्येभ्यश्च जन्तवः ।
मत्स्याद्यिश्च विविधा अन्नकूटे विशेषतः ॥४३३॥

वैकारिकाश्च जायन्ते तथा गाजकुलानि च ।
तथन्यानि च सक्ष्माणि जलौकादीनि जातयः ॥४३४॥

कपोतकुररादिभ्यः सूक्ष्माः शूकास्तथैव च ।
माक्षिकाणां विकाराणि जायन्ते जातयोऽपरे ॥४३५॥

प्रायेणानुवसंत्यस्मिन्नुच्छिष्टोदककर्द्दमे ।
मशकानां विकाराणि भ्रमराणां तथैव च ॥४३६॥

गोभ्यः समभिजायन्ते पुत्तिकापुत्रसप्तकाः ।
मणिच्छेदाः स्मृता व्यालाः पोतजाः परिकीर्त्तिताः ॥४३७॥

शतवेरिविकाराणि करीषेभ्यो भवन्ति हि ।
एवमादिरसंख्यातो गणः संस्वेदजो मया ॥४३८॥

समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ।
ये चान्ये नैरृताः सत्त्वास्ते स्मृता उपसर्गजाः ॥४३९॥

भूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ।
प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ॥४४०॥

केचित्तु योनिजा देवाः केचिद्देवा निमित्ततः ।
दुल्लोलकं ललोहं च सरमा द्वौ व्यजायत ॥४४१॥

त्योरपत्यं चत्वारो विज्ञेयाः सृमरादयः ।
श्यामाश्च शबलाश्चैव लोहिता अञ्जनास्तथा ॥४४२॥

कृष्णधूम्ररुणास्चैव दुल्लो लस्याष्ट कद्रुकाः ।
सर्पाणां सुरसा जज्ञे शन्त नैकशिरोभृताम् ॥४४३॥

सर्पाणां तक्षको राजा नागानां चापि वासुकिः ।
तमोबहुल इत्येष गणः क्रोधवशान्वयः ॥४४४॥

पुलहस्यात्मजः सर्गस्ताम्रायास्तु निबोधत ।
षट्कन्यास्त्वभिविख्यातास्ता म्रायाश्च विजज्ञिरे ॥४४५॥

गृध्री भासी शुकी क्रैञ्ची श्येनी च धृतराष्ट्रिका ।
अरुणस्य च गृद्री तु वीर्यवन्तौ महाबलौ ॥४४६॥

संपातिं च जटायुं च प्रसूता पक्षिसत्तमौ ।
संपातेर्विजयाः पुत्रा द्विरास्याः प्रसहश्च ये ॥४४७॥

जटायुषः पुराः पुत्राः ककगृध्राश्च कर्णिकाः ।
भार्या गरुत्मतश्चैव भासी क्रैञ्ची तथा शुकी ॥४४८॥

धृतराष्ट्री तथा श्येनी तास्वपत्यानि वच्मिते ।
शुकीगरुत्मतः पुत्रान्सुषुवे षट्परिश्रुतान् ॥४४९॥

सुखं सुनेत्रं विशिखं सुरूपं सुरसं बलम् ।
तेषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥४५०॥

चतुर्दश सहस्राणि पुराणां पन्नगाशिनाम् ।
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरैः ॥४५१॥

व्याप्तानि यानि स्थानानि तानि वक्ष्ये यथाक्रमम् ।
शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम् ॥४५२॥

मणिमन्तं च शैलेन्द्रं महस्रशिखरं तथा ।
पर्णमालं सुकेशं च शतशृङ्गं तथाचलम् ॥४५३॥

कौररं पञ्चशिखरं हेमकूटं च पर्वतम् ।
प्रचण्डवायुप्रजवैर्दीपितैः पद्मरागिभिः ॥४५४॥

शैलशृङ्गाणि व्याप्तानि गारुडैस्तैर्महात्मभिः ।
भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ॥४५५॥

मयूराः कलविङ्काश्च कपोतालावतित्तिराः ।
क्रैञ्चा वाध्रीणसाः श्येनाः कुरराः सारसा बकाः ॥४५६॥

इत्येवमादयोऽन्येऽपि क्रव्यादा ये च पक्षिणः ।
धृतराष्ट्री तु हंसाश्च कलहंसांश्च भामिनी ॥४५७॥

चक्रवाकांश्च विहगान्सर्वांश्चैवौदकान्द्विचान् ।
श्येन्यनन्तं विजज्ञे तु पुत्रपौत्रं द्विजोत्तमाः ॥४५८॥

गरुडस्यात्मजाः प्रोक्ता इरायाः शृणुत प्रजाः ।
इरा विजज्ञे कन्या वै तिस्रः कमललोजनाः ॥४५९॥

वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ।
लता चैवालता चैति वीरुधा चैति तत्र या ॥४६०॥

लता वनस्पतिर्ज्जज्ञेपुष्पादपि फलावहान् ।
पुष्पैः फलग्रहैर्वृक्षानलता समसूयत ॥४६१॥

गुल्मास्तथा लतावल्ल्यस्त्वकूसारास्तृणजातयः ।
वीरुधस्तदपत्यं हि वंशश्चात्र समाप्यते ॥४६२॥

एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः ।
तेषां पुत्राश्च पौत्राश्च यैरिदं संततं जगत् ॥४६३॥

एष सर्गैकदेशस्य कीर्तितोऽवयवो मया ।
मारीचो वः प्रजासर्गः समासेन प्रकीर्त्तितः ॥४६४॥

न शक्यं व्यासतो वक्तुं वर्षाणां च शतैरपि ।
अदितिर्धर्मशीला तु बलशीला दितिस्तथा ॥४६५॥

तपःशीला तु सुरभिर्मायाशीला दनुस्तथा ।
गन्धशीला मुनिश्चैव क्रोधाध्यायनशीलिनी ॥४६६॥

गीतशीला ह्यरिष्टा तु क्रूरशीला खशा स्मृता ।
क्रोधशीला तथा कदूः क्रोधा च शुचिशीलिनी ॥४६७॥

वाहशीला तु विनता ताम्रा वै घातशीलिनी ।
इरानुग्रहशीला तु ह्यनायुर्भक्षणे रता ॥४६८॥

अभवंल्लोकमातॄणां शीलान्येतानि सर्वशः ।
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ॥४६९॥

रजः सत्त्व तमोद्रिक्ता धार्मिकाधार्मिकाश्च वै ।
मातुस्तुल्याभिजाताश्च कश्यपस्यात्मजाः प्रभोः ॥४७०॥

देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचाः पशवश्चैव मृगाः पतगवीरुधः ॥४७१॥

यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्पिह ।
मनुष्यप्रकृतीस्तस्माद्देवादींश्च विजानते ॥४७२॥

यस्माच्च संभवः कृत्स्नो देवानां मानुषेष्विह ।
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥४७३॥

धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै ।
ततोर्ऽवाक्स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥४७४॥

जायन्ते कार्यसिद्ध्यर्थं मानुषेषु पुनः पुनः ।
इत्येष वंशप्रभवः प्रसंख्यातस्तु विस्तरात् ॥४७५॥

सुराणामसुराणां च गन्धर्वाप्सरसां तथा ।
यक्षरक्षः पिशाचानां सुपर्णोरगपक्षिणाम् ॥४७६॥

व्यालानां शिखिनां चैव औषधीनां च सर्वशः ।
कृमिकीटपतङ्गानां क्षुद्राणां जलचारिणाम् ॥४७७॥

पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः ।
आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः ।
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयतः ॥४७८॥

इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणवन्द्यसंसदि ।
अपत्यलाभं लभते च पुष्कलं प्रियं धनं प्रेत्य च शोभनां गतिम् ॥४७९॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे काश्यपेयवर्णनं नाम सप्तमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

internal economies

  • परिव्ययऱ्हासक अंतर्गत अनुकूलता 
  • अंतर्गत काटकसरी 
  • Econ. (as, economies taking place within a firm and arising mainly from 'indivisibilities' -as distinguished from external economies) अंतर्गत परिव्ययऱ्हासक अनुकूलता 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.