संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ७२

मध्यम भागः - अध्यायः ७२

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच
तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो वीर स्त्रिसानुरपाजितः ॥१॥

करन्धमस्तु त्रैसानो मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वाविज्ञितो राजा मरुत्तः कथितः पुरा ॥२॥

अनपत्यो मरुत्तस्तु स राजासीदिति श्रुतम् ।
दुष्कन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥३॥

एवं ययातिशापेन जरासंक्रमणे पुरा ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥४॥

दुष्कन्तस्य तु दायादः सरूप्यो नाम पार्थिवः ।
सरूप्यात्तु तथाण्डीरश्चत्वारस्तस्य चात्मजाः ॥५॥

पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च ।
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६॥

द्रुह्योश्च तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ ।
अरुद्धः सेतुपुत्रस्तु बाब्रवो रिपुरुच्यते ॥७॥

यौवनाश्वेन समितौ कृच्छेण निहतो बली ।
युद्धं सुमहदासीत्तु मासान्परिचतुर्दश ॥८॥

अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥९॥

गान्धारादेशजाश्चापि तुरगा वाजिनां वराः ।
गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥१०॥

धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥११॥

म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमास्थिताः ।
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ॥१२॥

सभानरः कालचक्षुः पराक्षस्चेति विश्रुताः ।
सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥१३॥

कालानलस्य धर्मात्मा सृंजयो नाम विश्रुतः ।
सृंजयस्याभवत्पुत्रो वीरो नाम्ना पुरञ्जयः ॥१४॥

आसीदिन्द्रसमो राजा प्रतिष्टितयशादिवि ।
महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥१५॥

सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः ।
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ ॥१६॥

उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥१७॥

नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः ॥१८॥

तपस्यतः सुमहतो जाता वृद्धस्य धार्मिकाः ।
नृगायास्तु नृगः पुत्रो नवाया नव एव तु ॥१९॥

कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ।
दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः ॥२०॥

शिबे शिवपुरं ख्यातं यौधेयं तु नृगस्य च ।
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥२१॥

सुव्रतस्य तथांबष्टा शिबिपुत्रान्निबोधत ।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः ॥२२॥

वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ।
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ॥२३॥

वृषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः ।
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः ॥२४॥

उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ।
हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः ॥२५॥

जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ।
महायोगी स तु बलिर्बद्धो यः स महामनाः ॥२६॥

पुत्रानुत्पादयामास जातुर्वर्ण्यकरान्भुवि ।
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च ॥२७॥

युद्धं कलिङ्गं च तथा वालेयं क्षत्रमुच्यते ।
वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ॥२८॥

बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमतः ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥२९॥

संग्रामे वाप्यजेयत्वं धर्मे चैव प्रभावतः ।
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥३०॥

बलेश्चा प्रतिमत्वं वे धर्मतत्त्वार्थदर्शनम् ।
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै ॥३१॥

इत्युक्तो विभुना राजा बलिः शान्ति पराययौ ।
कालेन महता विद्वान्स्वं च स्थानमुपागतः ॥३२॥

तेषां जनपदाः स्फीता अङ्गवङ्गाश्च सुह्मकाः ।
पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत ॥३३॥

तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ।
संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥३४॥

ऋषय ऊचुः
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो ।
ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम् ॥३५॥

सूत उवाच
उशिजो नाम विख्यात आसीद्धीमानृषिः पुरा ।
भार्या वै ममता नाम बभूवास्य महात्मनः ॥३६॥

उशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥३७॥

उवाच ममता तं तु बृहस्पतिमनिच्छती ।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्यास्य च भामिनी ॥३८॥

अयं हि मे महान्गर्भो रोरवीति बृहस्पते ।
अजस्रं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥३९॥

अमोघरे तास्त्वं चापि न मां भजितुमर्हसि ।
अस्मिन्नेव यथाकाले यथा वा मन्यसे विभो ॥४०॥

एवमुक्तस्तया सम्यग्बृहतेजा बृहस्पतिः ।
कामात्मानं महात्मापि नात्मानं सोऽभ्यधारयत् ॥४१॥

संबभूवैव धर्मात्मा तया सार्द्धं बृहस्पति ।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽस्य भाषत ॥४२॥

शुक्रं त्याक्षीश्च मा जीव द्वयोर्नेहास्ति संभवः ।
अमोघरेतास्त्वं वापि पूर्वं चाहमिहागतः ॥४३॥

शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः ।
उशिजस्य सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥४४॥

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।
मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेक्ष्यसि ॥४५॥

ततो दीर्घतमा नाम शापादृषिरजायत ।
अथौशिजो बृहत्कीर्तिर्बृहस्पतिरिबौजसा ॥४६॥

ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे ।
गोधर्मं सौरभेयात्तु वृषभाच्छतवान्प्रभोः ॥४७॥

तस्य भ्राता पितृव्यस्तु चकार भवनं तदा ।
तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥४८॥

दर्शार्थमास्तृतान्दर्भाञ्चचार सुरभीसुतः ।
जग्राह तं दीर्घ तमा विस्फुरन्तं तु शृङ्गयोः ॥४९॥

स तेन निगृहीतस्तु न चचाल पदात्पदम् ।
ततोऽब्रवीद्वृषस्तं वै सुंच मां बलिनां वर ॥५०॥

न मया सादितस्तात बलवांस्तद्विधः क्वचित् ।
त्र्यंबकं वहता देवं यतो जातोऽस्मि भूतले ॥५१॥

सुंच मां बलिनां श्रेष्ठ प्रतिस्नेहं वरं वृणु ।
एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥५२॥

तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् ।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥५३॥

नास्माकं विद्यते तात पातकं स्तेयमेव च ।
भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥५४॥

कार्या कार्यं च वै विप्र गम्यगम्यं तथैव च ।
न पाप्मानो वयं विप्र धर्मो ह्येष गवां श्रुतः ॥५५॥

गवां नाम स वे श्रुत्वा संभ्रान्तस्त ममुञ्चत ।
भक्त्या चानुश्रविकया गोसुतं वै प्रसादयन् ॥५६॥

प्रसादतो वृषेन्द्रस्य गोधर्मं जगृहेऽथ सः ।
मनसैव तदा दध्रे तद्विधस्तत्परायणः ॥५७॥

ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत ।
विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥५८॥

अवलेपं तु तंमत्वा सुरद्वांस्तस्य नाक्षमत् ।
गोधर्म वै बलं कृत्वा स्नुषां स ह्यभ्यमन्यत ॥५९॥

विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रविचिन्त्य च ।
भविष्यमर्थं ज्ञात्वा च महात्मा त्ववमत्य तम् ॥६०॥

प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः ।
गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्स्रुषाम् ॥६१॥

दुर्वृत्तं त्वां त्यजाम्येष गच्छ त्वं स्वेन कर्मणा ।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥६२॥

तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतः ।
सूत उवाच
कर्मण्यस्मिंस्ततः क्रूरे तस्य बुद्धिरजायत ॥६३॥

निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ।
कोष्टे समुद्रे प्रक्षिप्य गङ्गांभसि समुत्सृजत् ॥६४॥

उह्यमानः समुद्रस्तु सप्ताहं श्रोतसा तदा ।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥६५॥

अपश्यन्मज्जमानं तु स्रोतसोभ्यासमागतम् ।
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा ॥६६॥

अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ।
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् ॥६७॥

स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः ।
बलिरुवाच
संतानार्थं महाभाग भार्यायां मम मानद ॥६८॥

पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ।
एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम् ॥६९॥

सुदेष्णां नाम भार्यां स्वां राजास्मै प्राहिणोत्तदा ।
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह ॥७०॥

स्वां च धात्रेयिकां तस्मै भूषयित्वा व्यसर्जयत् ।
कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी ॥७१॥

जनया मास धर्मात्मा पुत्रावेतौ महौजसौ ।
कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा ॥७२॥

अधीतौ विधिवत्सम्य गीश्वरौ ब्रह्मवादिनौ ।
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि ॥७३॥

ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ।
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् ॥७४॥

उत्पन्नौ शूद्रयोनौ तु भवतः क्ष्मासुरोत्तमौ ।
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव ॥७५॥

प्राहिणोदवमानीय शूद्रीं धात्रेयिकां मम ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ॥७६॥

बलिर्भार्यां सुदेष्णा च भर्त्सयामास वै प्रभुः ।
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् ॥७७॥

तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ।
दध्ना लवणमिश्रेण स्वभ्यक्तं नग्नकं तथा ॥७८॥

लेहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ।
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् ॥७९॥

तस्य सा तद्वचो देवी सर्वं कृतवती तथा ।
अपानं च समासाद्य जुगुप्संती ह्यवर्जयत् ॥८०॥

तमुवाच ततः सर्षिर्यस्ते परिहृतं शुभे ।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥८१॥

ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह॥
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥८२॥

ऋषिरुवाच
तवापरधो देव्येष नान्यथा भविता तु वै ।
देवीदृशं च ते पौत्रमहं दास्यामि सुप्रते ॥८३॥

तस्यापानं विना चैव योग्यभावो भविष्यति ।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीत् ॥८४॥

प्राशितं दधियत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥८५॥

भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः ।
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥८६॥

ततोंऽगस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत ।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रः सुह्मस्तथैव च ॥८७॥

वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥८८॥

प्रजा ह्युपहतास्तस्य ब्रह्मणा कारणं प्रति ।
अपत्यमस्य दारेषु स्वेषु माभून्महात्मनः ॥८९॥

ततो मनुष्ययोन्यां वै जनयामास स प्रजाः ।
सुरभिर्दीर्घत मसमथ प्रीतो वचोऽब्रवीत् ॥९०॥

विचार्य यस्माद्गोधर्मं त्वमेवं कृतवानसि ।
भक्त्या चानन्ययास्मासु मुने प्रीतास्मि तेन ते ॥९१॥

तस्मात्तव तमो दीर्घं निस्तदाम्यद्य पश्य वै ।
बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥९२॥

जरामृत्युभयं चैव ह्याघ्राय प्रणुदामि ते ।
आघ्रातमात्रोऽसा पश्यत्सद्यस्तमसि नाशिते ॥९३॥

आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् ।
गवा हृततमाः सोऽथ गौतमः समपद्यत ॥९४॥

कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ।
यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः ॥९५॥

ततः कालेन महता तपसा भावितः स वै ।
विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥९६॥

ततोऽब्रवीत्पिता त्वेनं पुत्रवानस्म्यहं प्रभो ।
सुपुत्रेण त्वया तात कृतार्थश्च यशस्विना ॥९७॥

युक्तात्मानं ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् ।
ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥९८॥

कूष्माण्डा गौतमास्ते वै स्मृताः कक्षीवतः सुताः ।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥९९॥

समागमः समाख्यातः संतानश्चोभयोस्तथा ।
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् ॥१००॥

कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः ।
अदृश्यः सर्वभूतानां कालाकाक्षी चरत्युत ॥१०१॥

तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः ।
सोऽपराधात्सुदेष्णाया अनपानोऽभवन्नृपः ॥१०२॥

अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः ।
पुत्रो दिविरथस्यासीद्विद्वान्धर्मरथो नृपः ॥१०३॥

एते एक्ष्वाकवः प्रोक्ता भवितारः कलौ युगे ।
बृहद्बलान्वये जाता महावीर्यपराक्रमाः ॥१०४॥

शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ।
अत्रानुवंशश्लोकोऽयं भविष्यज्ज्ञैरुदाहृतः ॥१०५॥

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥१०६॥

इत्येतन्मानवं क्षत्रमैलं च समुदात्दृतम् ।
अत ऊर्ध्वं प्रवक्ष्यामि मगधो यो बृहद्रथः ॥१०७॥

जरासंधस्य ये वंशे सहदेवान्वये नृपाः ।
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः ॥१०८॥

प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।
संग्रामे भारते तस्मिन्सहदेवो निपातितः ॥१०९॥

सोमापिस्तस्य तनयो राजर्षिः स गिरिव्रजे ।
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत् ॥११०॥

श्रुतश्रवाः सप्तषष्टिः समास्तस्य सुतोऽभवत् ।
अयुतायुस्तु षड्विंशद्राज्यं वर्षाण्यकारयत् ॥१११॥

समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः ।
पञ्चाशतं समाः षट्च सुक्षत्रः प्राप्तवान्महीम् ॥११२॥

त्रयोविंशद्बृहत्कर्मा राज्यं वर्षाण्यकारयत् ।
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः ॥११३॥

श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ।
रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः ॥११४॥

पञ्जत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ।
अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः ॥११५॥

अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ।
सुव्रतस्तु चतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान् ॥११६॥

पञ्च वर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ।
भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः ॥११७॥

अष्टत्रिंशत्समाराष्ट्रं सुश्रमस्य भविष्यति ।
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति ॥११८॥

त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥११९॥

सत्यजित्पृथिवी राष्ट्रं त्र्यशीतिं भोक्ष्यते समाः ।
प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति ॥१२०॥

अरिञ्जयस्तु वर्षाणां पञ्चाशत्प्राप्यते महीम् ।
द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः ॥१२१॥

पूर्मं वर्षसहस्रं वै तेषां राज्यं भविष्यति ।
बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु ॥१२२॥

शुनकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति ।
मिषतां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलात् ॥१२३॥

स वै प्रणतसामन्तो भविष्येण प्रवर्त्तितः ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥१२४॥

चतुर्विंशत्समा राजा पालको भविता ततः ।
विशाखयूपो भविता नृपः पञ्चाशतं समाः ॥१२५॥

एकविंशत्समा राज्य मजकस्य भविष्यति ।
भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः ॥१२६॥

अष्टत्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते नृपाः ।
हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति ॥१२७॥

वाराणस्यां सुतस्तस्य संयास्यति गिरिव्रजम् ।
शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति ॥१२८॥

काकवर्णः सुतस्तस्य पट्त्रिंशच्च भविष्यति ।
ततस्तु विंशतिं राजा क्षेमधर्मा भवष्यति ॥१२९॥

चत्वारिंशत्समा राष्ट्रं क्षत्रौजाः प्राप्स्यते ततः ।
अष्टत्रिंशत्समा राजाविधिसारो भविष्यति ॥१३०॥

अजातशत्रुर्भविता पञ्चविंशत्समा नृपः ।
पञ्चत्रिंशत्समा राजा दर्भकस्तु भविष्यति ॥१३१॥

उदयी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः ।
स वै पुरवरं राजा वृथिव्यां कुसुमाह्वयम् ॥१३२॥

गगाया दक्षिणे कूले चतुर्थेऽह्नि कारिष्यति ।
चत्वारिशत्समा भाव्यो राजा वै नन्दिवर्द्धनः ॥१३३॥

चत्वारिशत्त्रयश्चैव सहानन्दिर्भविष्यति ।
भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयम् ॥१३४॥

शिशुनागा दशैवैते राजानः क्षत्रबन्धवः ।
एतैः सार्द्धं भविष्यन्ति तावत्कालं नृपाः परे ॥१३५॥

एक्ष्वाकवश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः ।
कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥१३६॥

द्वात्रिंशदेकलिङ्गास्तु पञ्चविंशत्तथा शकाः ।
कुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः ॥१३७॥

शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः ।
तुल्यकालं भविष्यन्ति सर्वं एव महीक्षितः ॥१३८॥

महानन्दिसुतश्चापि शूद्रायाः कालसंवृतः ।
उत्पत्स्यते महा पद्मः सर्वक्षत्रान्तकृन्नृपः ॥१३९॥

ततः प्रभृति राजानो भविष्यः शूद्रयोनयः ।
एकराट्स महापद्म एकच्चत्रो भविष्यति ॥१४०॥

अष्टाशीति तु वर्षाणि पृथिवीं पालयिष्यति ।
सर्वक्षत्रं समुद्धृत्य भाविनोर्ऽथस्य वै बलात् ॥१४१॥

तत्पश्चात्तत्सुता ह्यष्टौ समाद्वादश ते नृपाः ।
महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥१४२॥

उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विजर्षभः ।
भुक्त्वा महीं वर्षशतं नरेद्रः स भविष्यति ॥१४३॥

चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति ।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥१४४॥

भविता भद्रसारस्तु पञ्चविंशत्समा नृपः ।
षट्त्रिंशत्तु समा राजा अशोकानां च तृप्तिदः ॥१४५॥

तस्य पुत्रः कुलालस्तु वर्षाण्यष्टौ भविष्यति ।
कुशालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥१४६॥

बन्धुपालितदायादो भविता चेन्द्रपालितः ।
भविता सप्त वर्षाणि देववर्मा नराधिपः ॥१४७॥

राजा शतधनुश्चापि तस्य पुत्रो भविष्यति ।
बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः ॥१४८॥

इत्येते नव मौर्या वै भोक्ष्यन्ति च वसुंधराम् ।
सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गो गमिष्यति ॥१४९॥

पुष्पमित्रस्तु सेनानीरुद्धृत्यतु बृहद्रथम् ।
कारयिष्यति वै राज्यं समाः षष्टिं स चैव तु ॥१५०॥

अग्निमित्रो नृपश्चाष्टौ भविष्यति समा नृपः ।
भविता चापि सुज्येष्टः सप्त वर्षाणि वै ततः ॥१५१॥

वसुमित्रस्ततो भाव्यो दशवर्षाणि पार्थिवः ।
ततो भद्रः समे द्वे तु भविष्यति नृपश्च वै ॥१५२॥

भविष्यति समास्तस्मात्तिस्र एव पुलिन्दकः ।
राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः ॥१५३॥

सप्त वै वज्र मित्रंस्तु समा राजा ततः पुनः ।
द्वात्रिंशद्भविता वापि समा भागवतो नृपः ॥१५४॥

भविष्यति सुतस्तस्य देवभूमिः समा दश ।
दशैते शुङ्गराजानो भोक्ष्यन्तीमां वसुंधराम् ॥१५५॥

शतं पूर्मं दश द्वे च तेभ्यः कण्वं गमिष्यति ।
अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम् ॥१५६॥

देवभूमिं ततो हत्वा शुङ्गेषु भविता नृपः ।
भविष्यति समा राजा पञ्च कण्वायनस्तु सः ॥१५७॥

भूमिमित्रः सुतस्तस्य चतुर्विंशद्भविष्यति ।
भविता द्वादश समास्तस्मान्नारायणो नृपः ॥१५८॥

सुशर्मा तत्सुतश्चापि भविष्यति चतुःसमाः ।
कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च ॥१५९॥

समा भोक्ष्यन्ति वृथिवीं पुनरन्ध्रान्गमिष्यति ।
कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम् ॥१६०॥

सिंधुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुंधराम् ।
त्रयोविंशत्समा राजा सिंधुको भविता त्वथ ॥१६१॥

कृष्णो भ्रातास्य वर्षाणि सोऽस्माद्दश भविष्यति ।
श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान् ॥१६२॥

पञ्चाशत्तु समाः षट्च शान्तकर्णिर्भविष्यति ।
आपोलवोद्वादश वै तस्य पुत्रो भविष्यति ॥१६३॥

चतुर्विंशत्तु वर्षाणि पटुमांश्च भविष्यति ।
भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम् ॥१६४॥

ततः संवत्सरं पूर्णं हालो राजा भविष्यति ।
पञ्चपत्तल्लको नाम भविष्यति महाबलः ॥१६५॥

भाव्यःपुरीषभीरुस्तु समाः सोऽप्येकविंशतिम् ।
शातकर्णिर्वर्षमेकं भविष्यति नराधिपः ॥१६६॥

अष्टविंशतिवर्षाणि शिवस्वातिर्भविष्यति ।
राजा च गौतमी पुत्र एकविंशत्समा नृपः ॥१६७॥

एकोनविंशति राजा यज्ञः श्रीशातकर्ण्यथ ।
षडेव भविता त्समाद्विजयस्तु समानृपः ॥१६८॥

देडश्रीशातकर्णी च तस्य पुत्रः समास्त्रयः ।
पुलोमारिः समाः सप्त ततश्चैषां भविष्यति ॥१६९॥

इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति वै महीम् ।
समाः शतानि चत्वारि पञ्चाशत्षट्तथैव च ॥१७०॥

अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये पुनः ।
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः ॥१७१॥

सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश ॥१७२॥

त्रयोदश गुरुण्डाश्च मौना ह्येकादशैव तु ।
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै ॥१७३॥

सप्तषष्टिं च वर्षाणि दशाभीरास्ततो नृपाः ।
सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम् ॥१७४॥

शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधां शकाः ।
आशीती द्वे च वर्षाणि भोक्तारो यवना महीम् ॥१७५॥

पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश ॥१७६॥

गुरुण्डा वृषलैः सार्द्धं भोक्ष्यन्ते म्लेच्छजातयः ।
शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु ॥१७७॥

तेषु च्छिन्नेषु कालेन ततः किलकिलो नृपः ।
ततः किलकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति ॥१७८॥

समाः षण्णवतिं चैव पृथिवीं तु समेष्यति ।
नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत ॥१७९॥

शेषस्य नागराजस्य पुत्रः सुर पुरञ्जयः ।
भोगी भविष्यते राजा नृपो नागकुलोद्वहः ॥१८०॥

सदाचन्द्रस्तु चन्द्राशुर्द्वितीयो नखवांस्तथा ।
धनधर्मा ततश्चापि चतुर्थो वंशजः स्मृतः ॥१८१॥

भूतिनन्दस्ततश्चापि वैदिशे तु भविष्यति ।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥१८२॥

तस्यान्वयो भविष्यन्ति राजानस्ते त्रयस्तु वै ।
दैहित्रः शिशिको नाम पूरिकायां नृपोऽभवत् ॥१८३॥

विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् ।
भोक्ष्यते च समाः षष्टिं पुरीं काञ्चनकां च वै ॥१८४॥

यक्ष्यते वाजपेयैश्च समाप्तवरदक्षिणैः ।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥१८५॥

विन्ध्यकानां कुलानां ते नृपा वैवाहिकास्त्रयः ।
सुप्रतीको गभीरश्च समा भोक्ष्यति विंशतिम् ॥१८६॥

शङ्कमानोऽभवद्राजा महिषीणां महीपतिः ।
पुष्पमित्रा भविष्यन्ति षट्स्त्रिमित्रास्त्रयोदश ॥१८७॥

मेकलायां नृपाः सप्त भविष्यन्ति च सप्ततिः ।
कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥१८८॥

मेघा इति समाख्याता बुद्धिमन्तो नवैव तु ।
नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥१८९॥

नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः ।
मगधानां महावीर्यो विश्वस्फाणिर्भविष्यति ॥१९०॥

उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति ।
कैवर्त्तान्मद्रकांश्चेव पुलिन्दान्ब्राह्मणांस्तथा ॥१९१॥

स्थापयिष्यन्ति गजानो नानादेशेषु ते जनान् ।
विश्वस्फाणिर्महासत्त्वो युद्धे विष्णुसमप्रभः ॥१९२॥

विश्वस्फाणिर्नरपतिः क्लीबाकृतिरिवोच्यते ।
उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥१९३॥

नव नागास्तु भोक्ष्यति पुरीं चंपावतीं नृपाः ।
मथुरां च पुरा रम्यां नागा भोक्ष्यन्ति सप्त वै ॥१९४॥

अनुगङ्गाप्रयागं च साकेतं मगधांस्तथा ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते सप्तवंशजाः ॥१९५॥

नैष धान्य दुकांश्चैव शैशीतान् कालतोयकान् ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते मणिधान्यजान् ॥१९६॥

कोशलांश्चान्ध्रपैण्ड्रांश्च ताम्रलिप्तान्ससागरान् ।
चंपां चैव पुरीं रम्यां भोक्ष्यन्ते देवरक्षिताः ॥१९७॥

कलिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये ।
एताञ्जनपदान्सर्वान् पालयिष्यति वै गुहः ॥१९८॥

स्त्रीराष्ट्रभोजकांश्चैव भोक्ष्यते कनकाह्वयः ।
तुल्यकालं भविष्यन्ति सर्वे ह्यते महीक्षितः ॥१९९॥

अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः ।
भविष्यन्तीह यवना धर्मतः कामतोर्ऽथतः ॥२००॥

नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः ।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥२०१॥

भविष्यन्तीह पयाये कालेन वृथिवीक्षितः ।
विहीनास्तु भविष्यन्ति धर्मतः काम तोर्ऽथतः ॥२०२॥

तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ।
विपर्ययेण वर्तन्ते नाशायिष्यन्ति वै प्रजाः ॥२०३॥

लुब्धा अनृतवाचश्च भवितारस्तदा नृपाः ।
तेषां वर्त्तति पर्याये बहुस्त्रीके युगे तदा ॥२०४॥

लवाल्लवं भ्रश्यमाना आयुरूपबलश्रुतैः ।
तथा गतासु वै काष्ठं प्रजासु जगतीश्वराः ॥२०५॥

राजानः संप्रणश्यति कालेनोपहतास्तदा ।
कल्किना व्याहताः सर्वे म्लेच्छा यास्यन्ति संक्षयम् ॥२०६॥

अधार्मिकाश्च येऽत्यर्थं पाखण्डाश्चैव सर्वशः ।
प्रनष्टे नृपशब्दे च संध्याशिष्टे कलौ युगे ॥२०७॥

किञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टे परिग्रहाः ।
असाधना हतस्वाश्च व्याधिशोकनिपीडिताः ॥२०८॥

अनावृष्टिहताश्चैव परस्परवधेन च ॥२०९॥

अनाधाराः परित्रस्ता वार्तामुत्सृज्य दुःखिताः ।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥२१०॥

एवंरूपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु ।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः ॥२११॥

वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥२१२॥

सरितः सागरानूपान्सेवन्ते पर्वतानथ ।
अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥२१३॥

ऋषिकान्तागिरिद्रोणीः संश्रयिष्यन्ति मानवाः ।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः ॥२१४॥

अरण्यमभिपत्स्यन्ते आर्या म्लेच्छजनैः सह ।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा ॥२१५॥

मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ।
चीरं पर्णं च विविधं वल्कलान्यजिनानि च ॥२१६॥

स्वयं कृत्वा पिधास्यन्ति यथा मुनिजनस्तथा ।
बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः ॥२१७॥

अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ।
नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः ॥२१८॥

पार्थिवा व्यवहारेण विबाधन्ते परस्परम् ।
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः ॥२१९॥

एवं भविष्यन्ति नरास्तदाधर्म व्यवस्थिताः ।
हीनान्दीनांस्तथाधर्मान्प्रजा समनुवर्त्स्यति ॥२२०॥

आयुस्तदा त्रयोविंशन्न कश्चिदतिवर्तते ।
दुर्बला विषयग्लाना जराया संपरिप्लुताः ॥२२१॥

पत्रमूलफलाहाराश्चीरकृष्णाजिनांबराः ।
वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुंधराम् ॥२२२॥

एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ।
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके ॥२२३॥

निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु ।
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥२२४॥

यदा यन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
एकराशौ भविष्यन्ति तदा कृतयुगं भवेत् ॥२२५॥

एष वंशक्रमः कृत्स्नः कीर्तितो वो यथाक्रमम् ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥२२६॥

महानन्दाभिषेकान्त जन्म यावत्परीक्षितः ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥२२७॥

प्रमाणं वै तथा वक्तुं महापद्मोत्तरं च यत् ।
अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥२२८॥

एतत्कालान्तर भाव्यमन्ध्रान्ताद्याः प्रकीर्त्तिताः ।
भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतार्षिभिः ॥२२९॥

सप्तर्षयस्तदा प्राप्ताः पित्र्ये पारीक्षिते शतम् ।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां तेऽन्वयाः पुनः ॥२३०॥

सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले ।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतंशतम् ॥२३१॥

सप्तर्षीणां युगं त्वेतद्दिव्यया संख्यया स्मृतम् ।
मासा दिव्याः स्मृताः षट्च दिव्याब्दाश्चैव सप्त हि ॥२३२॥

तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि ॥२३३॥

तयोर्मध्ये च नक्षत्रं दृश्यते यत्समं दिवि ।
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः ॥२३४॥

नक्षत्राणामृषीणां च भोगस्यैतन्निदर्शनम् ।
सप्तर्षयो ह्यथायुक्ताः काले परीक्षिते शतम् ॥२३५॥

अन्ध्रांशे सचतुर्विंशे भविष्यन्ति शतं समाः ।
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ते प्रजा भृशम् ॥२३६॥

अनृतोपहताः सर्वा धर्मतः कामतोर्ऽथतः ।
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा ॥२३७॥

संकरं दुर्बलात्मानः प्रतियास्यन्ति मोहिताः ।
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः ॥२३८॥

ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।
उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्त्यलिप्सवः ॥२३९॥

लवाल्लवं भ्रश्यमानाः प्रजाः सर्वाः क्रमेण तु ।
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये ॥२४०॥

यस्मिन्कृष्णो दिव्यं यातस्त स्मिन्नेव तदा दिने ।
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत ॥२४१॥

सहस्राणां शतानीह त्रीणि मानुषसंख्यया ।
षष्टिं चैव सहस्राणि वर्षाणां तूच्यते कलिः ॥२४२॥

दिव्यं वर्षसहस्रं तु तत्संध्यांशे हि कीर्तिते ।
निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥२४३॥

एलश्चेक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ ।
इक्ष्वाकोस्तु समृतं क्षत्त्रं सुमित्रान्तं विवस्वतः ॥२४४॥

ऐलं क्षत्त्रं क्षेमकान्तं सोम वंशविदो विदुः ।
एते विवस्वतः पुत्राः कीर्तिताः कीर्त्तिवर्द्धनाः ॥२४५॥

अतीता वर्तमानाश्च तथैवानागताश्च ये ।
ब्राह्मणाः क्षत्त्रिया वैश्यः शूद्राश्चैवात्र ये स्मृताः ॥२४६॥

युगेयुगे महात्मानः समतीताः सहस्रशः ।
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ॥२४७॥

पुनरुक्तिबहुत्वाच्च न मया परिकीर्त्तिता ।
वैवस्वतंऽतरे ह्यस्मिन्न निमिवंशः समाप्यते ॥२४८॥

एतस्यां तु युगाख्यायां यतः क्षत्त्रं प्रपत्स्यते ।
तथा हि कथयिष्यामि गदतो मे निबोधत ॥२४९॥

देवापिः पौरवो राजा ऐक्ष्वाकुश्चैव यो मरुः ।
माहायोगबलोपेतौ कलापग्राममास्थितौ ॥२५०॥

एतौ क्षत्त्रप्रणेतारौ चतुर्विंशे चतुर्युगे ।
सुवर्चा नाम पुत्रस्तु इक्ष्वाकोस्तु भविष्यति ॥२५१॥

नवविंशे युगे सोऽथ वंशस्यादिर्भविष्यति ।
देवापेश्च सपौलस्तु एलादिर्भविता नृपः ॥२५२॥

क्षत्रप्रवर्त्तकौ ह्येतौ भविष्येते चतुर्युगे ।
एवं सर्वत्र विज्ञेयं संतानार्थे तु लत्रणम् ॥२५३॥

क्षीणे कलियुगे तस्मिन्भविष्ये त कृते युगे ।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥२५४॥

गोत्राणां क्षत्रियाणां च भविष्येते प्रवर्त्तकौ ।
द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥२५५॥

भविष्ये तु ततः सर्गे काले कृतयुगे पुनः ।
बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥२५६॥

एवमेव तु सर्वेषु तिष्ठन्तीहासुरेषु वै ।
सप्तर्षयो नृपैः सार्द्धं संतानार्थं युगेयुगे ॥२५७॥

क्षत्रस्यैव समुच्छेदसंबन्धो वै द्विजैः स्मृतः ।
मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते ॥२५८॥

परस्पराद्युगानां च ब्रह्मक्षत्रस्य चोद्भवः ।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥२५९॥

सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाद्भवाभवौ ।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥२६०॥

उत्पद्यमानास्त्रेतायां क्षीयमाणाः कलौ पुनः ।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥२६१॥

जामदग्न्येन रामेण क्षत्रे निरवशेषिते ।
कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः ॥२६२॥

द्विपंशकारणञ्चैव कीर्तयिष्ये निबोधत ।
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते ॥२६३॥

राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ।
एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः ॥२६४॥

तेषामेकशतं पूर्णं कुलानामभिषेकितम् ।
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः ॥२६५॥

भजते त्र्यंशकं क्षत्त्रं चतुर्थात्त द्यथा दिशम् ।
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत ॥२६६॥

शतं वै प्रतिविन्ध्यानां शतं नागाः सहैहयाः ।
धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः ॥२६७॥

शतं च ब्रह्मदत्तानां शारिणां विरिणां शतम् ।
ततः शतं तु पौलानां श्वेतकाश्य कुशादयः ॥२६८॥

ततोऽपरे सहस्रं वै येऽतीताः शशविन्दवः ।
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ॥२६९॥

एवं राजर्षयोऽतीता शतशोऽथ सहस्रशः ।
मनोर्वैवस्वतस्यास्मिन्वर्त्तमानेंऽतरे तु ये ॥२७०॥

तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः॥
न शक्येविस्तरस्तासां संततीनां परस्परम् ॥२७१॥

तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेन्तरे ॥२७२॥

एतै राजर्षिभिः सार्द्धं शष्टायास्ता निबोधत ।
चत्वारिंशत्त्रयश्चैव भविष्याः सह राजभिः ॥२७३॥

युगाख्यानाव शिष्टास्तु ततो वैवस्वतक्षयः ।
एतद्वः कथितं सर्वे समासव्यासयोगतः ॥२७४॥

पुनरुक्तिबहुत्वाच्च न शक्य तु युगैः सह ।
एते ययातिपुत्राणां पञ्च वंशा विशां हिताः ॥२७५॥

कीर्त्तिताश्च व्यतीता ये ये लोकान्धारयन्त्युत ।
लभते च वरान्पञ्च दुर्लभा निह लौकिकान् ॥२७६॥

आयुः कीर्त्तिं धनं पुत्रान्स्वर्गं चानन्त्यमश्नुते ।
धारणाच्छ्रवणाच्चैव पञ्चवंशस्य धीमतः ॥२७७॥

इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ।
विस्तरेणानुपूर्व्या च किं भूयो वर्णयाम्यहम् ॥२७८॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे वंशानुवर्णनं नाम चतुःसप्ततितमोऽध्यायः॥७२॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP