TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः १०

मध्यम भागः - अध्यायः १०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः १०
बृहस्पतिरुवाच
सप्तैते जयतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मुर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः ॥१॥

तेषां लोकान्विसर्गं च कीर्त्तयिष्ये निबोधत ।
यावै दुहितरस्तेषां दौहित्राश्चेव ये स्मृताः ॥२॥

लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥३॥

विराजस्य द्विजश्रेष्ठा वैराजा इति विश्रुताः ।
एते वै पितरस्तात योगानां योगवर्धनाः ॥४॥

अप्याययन्ति ये नित्यं योगायोगबलेन तु ।
श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च ॥५॥

आप्यायितस्ततः सोमो लोकानाप्याययत्युत ।
एतेषां मानसी कन्या मेना नाम महागिरेः ॥६॥

पत्नी हिमवतः पुत्रो यस्या मैनाक उच्यते ।
पर्वतप्रवरः सोऽथ क्रैञ्चश्चास्य गिरेः सुतः ॥७॥

तिस्रः कन्यास्तु मेनायां जनयामास शैलाराट् ।
अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥८॥

न्यग्रोधमे कपर्णा तु पाठलं त्वेकपाटला ।
आशिते द्वे अपर्णा तु ह्यनिकेता तपोऽचरत् ॥९॥

शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।
आहारमेकपर्णेन ह्येकपर्णा समाचरत् ॥१०॥

पाटलेनैव चैकेन व्यदधादेकपाटला ।
पूर्णे वर्षसहस्रे द्वे चाहारं वै प्रजक्रतुः ॥११॥

एका तत्र निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती सोमेति मातृस्रेहेन दुःखिता ॥१२॥

सा तथोक्ता तदापर्णा देवी दुश्चरचारिणी ।
उमेति हि महाभागा त्रिषु लोकेषु विश्रुता ॥१३॥

तथैव नाम्ना तेनासौ निरुक्तोक्तेन कर्मणा ।
एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्ग मम् ॥१४॥

एतासां तपसा सृष्टं यावद्भूमिर्द्धरिष्यति ।
तपःशरीरास्ताः सर्वास्थिस्रो योगबलान्विताः ॥१५॥

सर्वास्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥१६॥

उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥१७॥

दत्तकश्चोशान्स्तस्याः पुत्रो वै भृगुनन्दनः ।
असितस्यैकपर्णा तु पत्नी साध्वी पतिव्रता ॥१८॥

दत्ता हिमवता तस्मै योगाचार्याय धीमते ।
देवलं सुषुवे सा तु ब्रह्मिष्ठं ज्ञानसंयुता ॥१९॥

या वै तासां कुमारीणां तृतीया चैकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ॥२०॥

तस्यापि शङ्खलिशितौ स्मृतौ पुत्रावयोनिजौ ।
इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥२१॥

रुद्राणी सा तु प्रवरा स्वैर्गुणैरतिरिच्यते ।
अन्योन्यप्रीतमनसोरुमाशङ्करयोरथ ॥२२॥

श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा ।
ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा ॥२३॥

तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।
अनायो रतिविघ्नं च त्वमाचर हुताशन ॥२४॥

सर्वत्र गत एव त्वं न दोषो विद्यते तव ।
इत्येवमुक्ते तु तदा वह्निना च तथा कृतम् ॥२५॥

उमां देवः समुत्सृज्य शुक्रं भूमौ व्यसर्जयत् ।
ततो रुषितया सद्यः शप्तोऽग्निरुमया तया ॥२६॥

इदं चोक्तवती वह्निं रोषगद्गदया गिरा ।
यस्मान्नाववितृप्ताभ्यां रतिविघ्नं हुताशन ॥२७॥

कृतवानस्य कर्त्तव्यं तस्मात्त्वमसि दुर्मतिः ।
यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभम् ॥२८॥

गर्भे त्वं धारयस्वैवमेषा ते दण्डधारणा ।
स शापदोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः ॥२९॥

बहून्वर्षगणान्गर्भं धारयामास वै द्विज ।
स गङ्गामभिगम्याह श्रूयतां सरिदुत्तमे ॥३०॥

सुमहान्परिखेदो मे जायते गर्भधारणात् ।
मद्धितार्थ मथो गर्भमिमं धारय निम्नगे ॥३१॥

मत्प्रसादाच्च तनयो वरदस्ते भविष्यति ।
तथेत्युक्त्वा तदा सा तु संप्रत्दृष्टा महानदी ॥३२॥

तं गर्भं धारयामास दह्यमानेन चेतसा ।
सापि कृच्छ्रेण महता खिद्यमाना महानदी ॥३३॥

प्रकृष्टं व्यसृजद्गर्भं दीप्यमान मिवानलम् ।
रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः ॥३४॥

आदित्यशतसंकाशो महातेजाः प्रतापवान् ।
तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते ॥३५॥

विमानयानैराकाशं पतत्र्रिभिरिवावृतम् ।
देवदुन्दुभयो नेदुराकाशे मधुरस्वनाः ॥३६॥

मुमुचुः पुष्पवर्षं च खेचराः सिद्धचारणाः ।
जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह ॥३७॥

यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ।
महानागसहस्राणि प्रवराश्च पतत्र्रिणः ॥३८॥

उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम् ।
प्रभावेण हतास्तेन दैत्यवानरराक्षसाः ॥३९॥

स हि सप्तर्षिभार्याभिरारादेवाग्निसंभवः ।
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ॥४०॥

ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः ।
स्निह्यमानाभिरत्यर्थं स्वकभिरिव मातृभिः ॥४१॥

युगपत्सर्वदेवीभिर्दिधित्सुर्जाह्नवीं सुतः ।
षण्मुखान्यसृजच्छ्रीमांस्तेनायं षण्मुखः स्मृतः ॥४२॥

तेन जातेन महाता देवानामसहिष्णवः ।
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥४३॥

कृत्तिकाभिस्तु यस्मात्स वर्द्धितो हि पुरातनः ।
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥४४॥

जृंभतस्तस्य दैत्यारेर्ज्वाला मालाकुला तदा ।
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ॥४५॥

क्रीडार्थं चैव स्कन्दस्य विष्णुना प्रभविष्णुना ।
गरुडादतिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ ॥४६॥

मयूरः कुक्कुटश्चैव पताका चैव वायुना ।
यस्य दत्ता सरस्वत्या महावीणा महास्वना ॥४७॥

अजः स्वयंभुवा दत्तो मेषो दत्तश्च शंभुना ।
मायाविहरणे विप्र गिरौ क्रैञ्चे निपातिते ॥४८॥

तारके चासुरवरे समुदीर्णे निपातिते ।
सेंद्रोपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः ॥४९॥

सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ।
देवसेनापतिस्त्वेष पठ्यते सुरनायकः ॥५०॥

देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ।
प्रमथैर्विधैर्देवस्तथा भूतगणैरपि ॥५१॥

मातृभिर्विविधाभिश्च विनायकगणैस्ततः ।
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ॥५२॥

तत्र ते दिवि वर्त्तन्ते देवास्तान्पूजयन्त्युत ।
श्रुता बर्हिषदो नाम पितरः सोमपास्तु ते ॥५३॥

एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ।
अच्छौदं नाम तद्दिव्यं सरो यस्मात्समुत्थिता ॥५४॥

तथा न दृष्टपूर्वास्तु वितरस्ते कदाचन ।
संभूता मानसी तेषां पितॄन्स्वान्नाभिजानती ॥५५॥

सा त्वन्यं पितरं वव्रे तानतिक्रम्य वै पितॄन् ।
अमावसुमिति ख्यातमैलपुत्रं नभश्चरम् ॥५६॥

अद्रिकाप्सरसा युक्तं विमानाधिष्ठितं दिवि ।
सा तेन व्यभिचारेण गगने नाप्रजारिणी ॥५७॥

पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ।
त्रीण्यवश्यद्विमानानि पतन्ती सा दिवश्च्युता ॥५८॥

त्रसरेणुप्रमाणानि तेषु चावस्थितान्पितॄन् ।
सुसूक्ष्मानपरिव्यक्तानग्नीनग्निष्विवाहितान् ॥५९॥

त्रायध्वमित्युवाचार्ता पतती चाप्यवाक्शिराः ।
तैरुका सा तु मा भैषी रित्यतोऽधिष्ठिताभवत् ॥६०॥

ततः प्रसादयत्सा वै सीदन्ती त्वनया गिरा ।
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ॥६१॥

भ्रष्टैश्वर्यां स्वदोषेण पतसि त्वं शुचिस्मिते ।
यैराचरन्ति कर्मणि शरीरैरिह देवताः ॥६२॥

तैरेव तत्कर्मभलं प्राप्नुवन्ति सदा स्म ह ।
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥६३॥

तस्मात्स्वतपसः पुत्रि प्रेत्य संप्राप्स्यसे फलम् ।
इत्युक्तया तु पितरः पुनस्ते तु प्रसादिताः ॥६४॥

ध्यात्वा प्रसादं ते चक्रुस्तस्यास्तदनुकंपया ।
अवश्यं भाविनं दृष्ट्वा ह्यर्थमूचुस्तदा तु ताम् ॥ ६५॥

सोमपाः पितरः कन्यां रज्ञोऽस्यैव त्वमावसोः ।
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ॥६६॥

कन्या भूत्वा त्विमांल्लोकान्पुनः प्राप्स्यसि भामिनि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥६७॥

अस्यैव राज्ञो दुहिता ह्यद्रिकायाममावसोः ।
पराशरस्य दायादमृषिं त्वं जनयिष्यसि ॥६८॥

स वेदमेकं ब्रह्मर्षि श्चतुर्द्धा विभजिष्यति ।
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ ॥६९॥

विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ।
चित्राङ्गदं च राजानं सर्वसत्त्वबलान्वितम् ॥७०॥

एतानुत्पादयित्वाथ पुनर्लोकानवा प्स्यसि ।
व्यभिचारात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम् ॥७१॥

तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ।
कन्या भूत्वा ततश्च त्वमिमांल्लोकानवाप्स्यसि ॥७२॥

एवमुकत्वा तु दाशेयी जाता सत्यवती तु सा ।
अद्रिकायाः सुता मत्स्या सुता जाता ह्यमावसोः ॥७३॥

अदिकामत्स्यसंभूता गङ्गायमुनसंगमे ।
तस्या राज्ञो हि सा कन्या राज्ञो वीर्येण चैव हि ॥७४॥

विरजानाम ते लोका दिवि रोचन्ति ते गणाः ।
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्करप्रभाः पुलहस्य प्रजापतेः ।
एतेषां मानसी कन्या पीवरी नाम विश्रुता ॥७७॥

योगिनी योगपत्नी च योगमाता तथैव च ।
भविता द्वापरं प्राप्य अष्टाविंशतिमेव तु ॥७८॥

श्रीमान्व्यासो महायोगी योगस्तस्मिन्द्विजोत्तमाः ।
व्यासादरण्यां संभूतो विधूम इव पावकः ॥७९॥

पराशरकुलोद्भूतः शुको नाम महातपाः ।
स तस्यां पितृकन्यायां पीवर्यां जनयद्विभुः ॥८०॥

पुत्रान्पञ्च योगचर्यापरिबुर्णान्परिश्रुतान् ।
कृष्णा गौरं प्रभुं शंभुं तथा भूरिश्रुतं च वै ॥८१॥

कन्यां कीर्तिमतीं चैव योगिनीं योगमातरम् ।
ब्रह्मदत्तस्य चननी महिषी त्वणुहस्य सा ॥८२॥

आदित्यकिरणोपेतमपुनर्मार्गमास्थितः ।
सर्वव्यापी विनिर्मुक्तो भविष्यति महामुनिः ॥८३॥

त्रय एते गाणाः प्रोक्ताश्चतुः शेषान्निबोधत ।
तान्वक्ष्यामि द्विजश्रेष्ठाः प्रभामूर्त्तिमतो गणान् ॥८४॥

उत्पन्नास्तु स्वधायां ते काव्या ह्यग्नेः कवेः सुताः ।
पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः ॥८५॥

सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत ।
एतेषां मानसी कन्या योगोत्पत्तिरितिश्रुता ॥८६॥

दत्ता सनत्कुमारेण शुक्रस्य महिषी तु या ।
एकशृङ्गेति विख्याता भृगूणां कीर्तिवर्द्धिनी ॥८७॥

मरीचि गर्भास्ते लोकाः समावृत्य दिवि स्थिताः ।
एते ह्यङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ॥८८॥

उपहूताः स्मृतास्ते वै पितरो भास्वरा दिवि ।
तान्क्षत्रियगणाः सप्त भावयन्ति फलार्थिनः ॥८९॥

एतेषां मानसी कन्या यशोदा नाम विश्रुता ।
मता या जननी देवी खट्वाङ्गस्य महात्मनः ॥९०॥

यज्ञे यस्य पुरा गीता गाथागीतैर्महर्षिभिः ।
अग्नेर्जन्म तदा दृष्ट्वा शाण्डिल्यस्य महात्मनः ॥९१॥

यजमानं दिलीपं ये पश्यन्त्यत्र समाहिताः ।
सत्यव्रतं महात्मानं तेऽपि स्वर्गजितो नराः ॥९२॥

आज्यपा नाम पितरः कर्दमस्य प्रजा पतेः ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य ते सुताः ॥९३॥

लकिषु तेषु वैवर्ताः कामगोषु विहङ्गमाः ।
एतान्वैश्यगणाः श्राद्धे भाव यन्ति फलार्थिनः ॥९४॥

एतेषां मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य च ॥९५॥

सुकाला नाम पितरो वसिष्ठस्य महात्मनः ।
हैरण्यगर्भस्य सुताः शूद्रास्तां भावयन्त्युत ॥९६॥

मानसा नाम ते लोका वर्तन्ते यत्र ते दिवि ।
एतेषां मानसी कन्या नर्मदा सरितां वरा ॥९७॥

सा भावयति भूतानि दक्षिणापथगामिनी ।
जननी सात्रसद्दस्योः पुरुकुत्सपरिग्रहः ॥९८॥

एतेषामभ्युपगमान्मनुर्मन्वन्तरेश्वरः ।
मन्वन्तरादौ श्राद्धानि प्रवर्तयति सर्वशः ॥९९॥

पितॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ।
तस्मादेतत्स्वधर्मेण देयं श्राद्धं च श्रद्धया ॥१००॥

सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥१०१॥

सौम्यायने वाग्रयणे ह्यश्वमेधं तदप्नुयात् ।
सोमश्चाप्यायनं कृत्वा ह्यगनेर्वेवस्वतस्य च ॥१०२॥

पितॄन्प्रीणाति यो वंश्यः पितरः प्रीणयन्ति तम् ।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥१०३॥

पुष्टिं प्रजास्तथा स्वर्गं प्रयच्छन्ति न संशयः ।
देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥१०४॥

देवताभ्यः पितॄणां हि पूर्वमाप्यायनं स्मृतम् ।
न हि योग गतिः सूक्ष्मा पितॄणां न पितृक्षयः ॥१०५॥

तपसा विप्रसिद्धेन दृश्यते मासचक्षुषा ।
इत्येते पितरश्चैव लोका दुहितरश्च वै ॥१०६॥

दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति यान् ।
चत्वारो मूर्तिमन्तस्तु त्रयस्तेषाममूर्तयः ॥१०७॥

तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ।
भक्त्या प्राञ्जलयः सर्वेसेंद्रास्तद्गतमानसाः ॥१०८॥

विश्वे च सिकताश्चैव पृश्निजाः शृङ्गिणस्तथा ।
कृष्णाः श्वेतांबुजाश्चैव विधिव त्पूजयन्त्युत ॥१०९॥

प्रशस्ता वातरसना दिवाकृत्यास्तथैव च ।
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ॥११०॥

अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव ते ।
यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह ॥१११॥

पितॄंस्तेऽपूजयन्सर्वे नित्यमेव फलार्थिनः ।
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ॥११२॥

सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।
हित्वा त्रैलोक्यसंसारं जरामृत्युमयं तथा ॥११३॥

मोक्षं योगमथैश्वर्यं सूक्ष्मदेहमदेहिनाम् ।
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥११४॥

एश्वर्यं विहितं योगमेश्वर्यं योग उच्यते ।
योगैश्वर्यमृते मोक्षः कथञ्चिन्नोपपद्यते ॥११५॥

अपक्षस्येव गमनं गगने पक्षिणो यथा ।
वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ॥११६॥

पितॄणां हि प्रसादेन प्राप्यते स महात्मनाम् ।
मुक्तावैडूर्यवासांसि वाजिनागायुतानि च ॥११७॥

कोटिशश्चापि रत्नानिप्रयच्छन्ति पितामहाः ।
हंसबर्हिणयुक्तनि मुक्तावैढूर्यवन्ति च ॥१११८॥

किङ्किणीजालनद्धानि सदा पुष्पफलानि च ।
विमानानां सहस्राणि युक्तान्यप्सरसां गणैः ॥११९॥

सर्वकामसमृद्धानि प्रयच्छन्ति पितामहाः ।
प्रजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ।
प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥१२०॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमोऽध्यायः॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Verifying Punch Operator

  • पडताळणी छिद्रांक टंकक 
RANDOM WORD

Did you know?

मृत माणसाचा पिंड भाताचा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.