TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः १६

मध्यम भागः - अध्यायः १६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः १६
बृहस्पतिरुवाच
अतः परं प्रवक्ष्यामि दानानि च फलानि च ।
तारणं सर्वभूतानां स्वर्गमार्गसुखावहम् ॥१॥

लोके श्रेष्ठतं सर्वमात्मनश्चैव यत्प्रियम् ।
सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना ॥२॥

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् ।
दिव्याप्सरोभिः संपूर्णमन्नदो लभतेऽक्षयम् ॥३॥

सव्यञ्जनं तु यो दद्यादहतं श्राद्धकर्मणि ।
आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम् ॥४॥

यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु यज्ञवित् ।
पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम् ॥५॥

प्लुतं विप्रेषु यो दद्याच्छ्राद्धकाले कमडलुम् ।
मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते ॥६॥

चक्राविद्धं च यो दद्याच्छ्राद्धकाले कमण्डलुम् ।
धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम् ॥७॥

तूलपूर्णे च यो दद्यात्पादुके श्राद्धकर्मणि ।
शोभनं लभते यानं पादयोः सुखमेधते ॥८॥

व्यचनं तालवृन्तं च दत्त्वा विप्राय सत्कृतम् ।
प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च ॥९॥

श्राद्धे ह्युपानहौ दत्त्वा ब्राह्मणेभ्यः सदा बुधः ।
दिव्यं स लभते यानं वाजियुक्तं नवं तथा ॥१०॥

श्राद्धे छत्रं तु यो दद्यात्पुष्पमालान्वितं तथा ।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥११॥

शरणं रत्नसंपूर्णं सशय्याभोजनं बुधः ।
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे महीयते ॥१२॥

सुक्तावैदूर्यवासांसि रत्नानि विविधानि च ।
वाहनानि च दिव्यानि प्रयुतान्यर्बुदानि च ॥१३॥

सुमहद्व्योमगं पुण्यं सर्वकामसमन्वितम् ।
चन्द्रसूर्यनिभं दिव्यं विमानं लभतेऽक्षयम् ॥१४॥

अप्सरोभिः परिवृतं कामगं सुमनोजवम् ।
वसेत्स तु विमानाग्रे स्तूयमानः समन्ततः ॥१५॥

दिव्यैःपुष्पैश्चितश्चाहुर्दानानां परमं बुधाः ।
सुश्लक्ष्मानि सुवर्णानि श्राद्धे पात्राणि दापयेत् ॥१६॥

रसास्तमुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च ।
तिलानिक्षूंस्तथा श्राद्धे द्विजेभ्यः संप्रयच्छति ॥१७॥

मित्राणि लभते लोके स्त्रीषु सौभाग्यमेव च ।
यः पात्रं तैजसं दद्यान्मनोज्ञ श्राद्धभोजनैः ॥१८॥

पात्रं भवति कामाना रूपस्य च धनस्य च ।
राजतं काञ्चनं वापि यो दद्याच्छ्राद्धकर्मणि ॥१९॥

दानात्तु लभते कामान्प्राकाश्यं धनमेव च ।
धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम् ॥२०॥

गावस्तमुपतिष्ठन्ति नरं पुष्टिस्तथैव च ।
दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः ॥२१॥

कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं तभते नरः ।
इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे ॥२२॥

नित्यं जयति संग्रामे श्रिया जुष्टस्तु जायते ।
सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥२३॥

पूजयित्वा तु पात्रेभ्यः श्राद्धे सत्कृत्य दापयेत् ।
गन्धमाल्यं महात्मानं सुखानि विविधानि च ॥२४॥

दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः ।
शयनासनयानानि भूमयो वाहनानि च ॥२५॥

श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् ।
श्राद्धकाले गुणवति विप्रे वै समुपस्थिते ॥२६॥

इष्टद्रव्यं च यो दद्यात्स्मृतिं मेधां च विन्दति ।
सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥२७॥

कुम्भोपदोहगृष्टीनां बह्वीनां फलमश्नुते ।
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत् ॥२८॥

वनं पुष्पफलोपेतं दत्त्वा गोसवमश्नुते ।
कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च ॥२९॥

दत्त्वा मोदन्ति ते स्वर्गे नित्यमाचन्द्रतारकम् ।
स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम् ॥३०॥

पितरस्तस्य तुष्यन्ति स्वर्गलोकं समशनुते ।
अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः ॥३१॥

अष्टाभिः पूज्यते चात्र धनधान्यैश्च वर्द्धते ।
पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ ॥३२॥

अजिनं काञ्चनं पट्टं प्रवेणीं मृगलोमकम् ।
दद्यादेतानि विप्राणां भोजयित्वा यथाविधि ॥३३॥

प्राप्नोति श्रद्धधानस्तु वाजपेयफलं नरः ।
बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः ॥३४॥

वशे तिष्ठन्ति भूतानि लोके चास्मिन्निरामयम् ।
कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा ॥३५॥

श्राद्धे चैतानि यो दद्यात्कामानाप्नोत्यनुत्तमान् ।
अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा ॥३६॥

भ्राजते य विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ।
वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम् ॥३७॥

वस्त्राभावे क्रिया नास्ति य५ आनतपांसि च ।
तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः ॥३८॥

तानि सर्वाण्यवाप्नोति श्राद्धे दत्त्वा तु मानवः ।
नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः ॥३९॥

सर्वकामानवाप्नोति राज्यं स्वगे तथव च ।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥४०॥

भक्ष्यजातं तु सुकृतं स्वस्तिकाद्यं सशर्करम् ।
कृसर मधुसर्पिश्च पयः पायसमेव च ॥४१॥

स्निग्धप्रायाश्च यो दद्यादग्निष्टोमफलं लभेत् ।
दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा ॥४२॥

दत्त्वा न शोचते श्राद्धे वर्षासु च मघासु च ।
घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत् ॥४३॥

छायायां हस्तिनश्चैव दत्त्वा श्राद्धेन शोचते ।
ओदनं पायसं सर्पिर्मधुमूलफलानि च ॥४४॥

भक्ष्यांश्च विविधान्दत्त्वा परत्रेह च मोदते ।
शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः ॥४५॥

स्यात्तु संवत्सरं प्रीतिः शाकैर्मांसरसेन च ।
सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह ॥४६॥

सर्पिःस्निग्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् ।
श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम् ॥४७॥

नवसस्यानियो दद्याच्छ्राद्धे सत्कृत्य यत्नतः ।
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥४८॥

भक्ष्यभोज्यानि पेयानि चोष्यलेङ्यवराणि च ।
भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः ॥४९॥

सर्वयज्ञक्रतूनां हि फलं प्राप्नोत्यनुत्तमम् ।
क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते ॥५०॥

सव्यञ्जनं तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ।
तरुणादित्यसंकाशं विमानं हंसवाहनम् ॥५१॥

अन्नदो लभते नित्यं कन्याकोटीस्तथैव च ।
अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते ॥५२॥

अन्नाद्भूतानि जायन्ते जीवन्ति प्रभवन्ति च ।
जीवदानात्परं दानं नान्यत्किञ्चन विद्यते ॥५३॥

अन्नाल्लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् ।
अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम् ॥५४॥

तस्मादन्नसमं दानं न भूतं न भविष्यति ।
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥५५॥

क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु यो नरः ।
प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः ॥५६॥

देवास्तं संप्रतीच्छन्ति दिव्यातिथ्यैः सहस्रशः ।
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत् ॥५७॥

त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भदेत् ।
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः ॥५८॥

त्रैलोक्यस्या धिपत्यं हि दानेनैव ध्रुवं स्थितम् ।
अराजा लभते राज्यमधनश्चोत्तमं धनम् ।
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥५९॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे दानप्रशंसा नाम षोडशोऽध्यायः॥ १६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झुलवा

  • पु. ( मुसलमानांत ) वेश्या किंवा विधवा हीस स्वस्त्री म्हणून बाळगतांना तिच्याशीं लग्नविधीप्रमाणें करावयाचा एक विधि . ( क्रि० लावून घेणें ). [ झुलविणें ? ] 
  • पु. १ झोंका ; आंदोलन . २ चौपाळा ; झुला . 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site