TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ११

मध्यम भागः - अध्यायः ११

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः ११
बृहस्पतिरुवाच
राजतं राजताक्तं वा पितॄणां पात्रमुच्यते ।
राजतस्य कथावापि दर्शनं दान मेव वा ॥१॥

अनन्तमक्षयं स्वर्गे राजते दानमुच्यते ।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥२॥

राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा ।
स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम् ॥३॥

कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव च ।
रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥४॥

कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः ।
वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा ॥५॥

श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः ।
आयुःकीर्तिप्रजैश्वर्यप्रज्ञासंततिवर्द्धनः ॥६॥

दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् ।
सर्वतोऽरत्निमात्रं च चतुरस्रं सुसंस्थितम् ॥७॥

वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् ।
धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा ॥८॥

तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः ।
अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः ॥९॥

ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः ।
प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा ॥१०॥

अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः ।
पयसा ह्याज गव्येन शोधनं चाद्भिरेव च ॥११॥

सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती ।
इह वामुत्र य वशी सर्वकामसमन्वितः ॥१२॥

एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥१३॥

तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् ।
त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः ॥१४॥

तस्य पुष्टिस्तथैश्वर्यमायुः संततिरेव च ।
दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात् ॥१५॥

पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् ।
अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम् ॥१६॥

मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ।
देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥१७॥

नमः स्वाहयै स्वधायै नित्यमेव भवत्युत ।
आद्धेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ॥१८॥

पिण्डनिर्वपणे वापि जपेदेतं समाहितः ।
क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च ॥१९॥

पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युत ।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥२०॥

राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः ।
वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम् ॥२१॥

प्रीयन्ते पितरो येन जपेन नियमेन च ।
सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥२२॥

अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥२३॥

इन्द्रादीनां च नेतारो दशमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥२४॥

मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि ॥२५॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ ।
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः ॥२६॥

देवर्षीणां च नेतारः सर्वलोकनमस्कृताः ।
त्रातारः सर्वभूतानां नमस्यामि पितामहान् ॥२७॥

प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥२८॥

पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥२९॥

एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् ।
पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम् ॥ ३०॥

एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः ।
अन्नमायुः सुताश्चैव ददते पितरो भुवि ॥३१॥

भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः ।
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः ॥३२॥

सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ।
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥३३॥

अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा ।
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् ॥३४॥

येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु ।
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना ॥३५॥

सर्वभूताधिपत्यं च प्लक्षे नित्यभुदात्दृतम् ।
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः ॥३६॥

रशोध्नं च यशस्यं च काश्मरीपात्रमुच्यते ।
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम् ॥३७॥

फलगुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् ।
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः ॥३८॥

बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च ।
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह ॥३९॥

वर्षत्य जस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ।
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः ॥४०॥

सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् ।
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः ॥४१॥

सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः ।
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति ॥४२॥

संयुक्तान्मधुसर्पिर्भ्यं सोऽग्निष्टोमफलं लभेत् ।
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः ॥४३॥

लभते च सुशर्माणि इह चामुत्र चोभयोः ।
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः ॥४४॥

दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम् ॥४५॥

तेजसा यशसा चैव कान्त्या चापि बलेन च ।
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे ॥४६॥

अप्सरोभिः परिवृतो विमानाग्रे च मोदते ।
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च ॥४७॥

फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः ।
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा ॥४८॥

श्राद्धकालेषु नियतं वायुभूताः पितामहाः ।
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते ॥४९॥

वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च ।
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान् ॥५०॥

भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा ॥५१॥

सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः ।
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥५२॥

दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।
गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः ॥५३॥

पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् ।
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥५४॥

अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् ।
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा ॥५५॥

खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः ।
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते ॥५६॥

एकं पवित्रं हस्तेन पितॄनसर्वान्सकृत्सकृत् ।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम् ॥५७॥

सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥५८॥

पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः ॥५९॥

पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः ॥६०॥

पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः ।
त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान् ॥६१॥

जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् ।
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् ॥६२॥

नमो वः पितरः शोषायेति सर्वमतन्द्रितः ।
दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ॥६३॥

नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः ।
सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः ॥६४॥

उलूखलस्य लेखायामुदपात्रावसेचनम् ।
क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा ॥६५॥

पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् ।
वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम् ॥६६॥

न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् ।
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ॥६७॥

कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् ।
चन्दनागुरुणी चोभे तमालोशीरपद्मकम् ॥६८॥

धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च ।
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥६९॥

गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः ।
तथा हि सुमना नाडीरूपिकास्मकुरण्डिका ॥७०॥

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।
यथा गन्धादपेतानि चोग्रगन्धानि यानि च ॥७१॥

वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा ।
द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः ॥७२॥

पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः ।
तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः ॥७३॥

अनेन विधिना साक्षादर्चिताः स्युः पितामहाः ।
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः ॥७४॥

रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः ।
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः ॥७५॥

तथा श्यामाकनीवारा दूर्वा च समुदाहृता ।
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः ॥७६॥

तस्य बाला निपतिता भूमौ काशत्वामागताः ।
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः ॥७७॥

पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ।
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः ॥७८॥

भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ।
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः ॥७९॥

प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः ॥८०॥

निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे ॥८१॥

एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः ।
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः ॥८२॥

एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे ।
यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥८३॥

अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् ।
पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते ॥८४॥

अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा ।
मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः ॥८५॥

पितरो हृष्टमनसो रक्षांसि विमनांसि च ।
भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥८६॥

शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा ।
विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः ॥८७॥

एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् ।
अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा ॥८८॥

काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् ।
काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः ॥८९॥

इत्येते पितरो देवा देवाश्च पितरः पुनः ।
पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः ॥९०॥

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये ॥९१॥

अन्तर्विधाय समिधस्ततो दीप्तो विधीयते ।
समाहितेन मनसा प्रणीयाग्निं समन्ततः ॥९२॥

अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।
सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः ॥९३॥

यमाय वैवस्वतये स्वधानम इति ध्रुवम् ।
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥९४॥

दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते ॥९५॥

उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् ।
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः ॥९६॥

बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च ।
अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा ॥९७॥

अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः ।
क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥९८॥

बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥९९॥

अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने ।
यजमानो भवे दन्धः सोऽमुत्रेति हि नः श्रुतम् ॥१००॥

अल्पेन्धनो वा रूक्षोऽग्निर्वस्फुलिङ्गश्च सर्वशः ।
ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये ॥१०१॥

दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।
भूमिं वगाहते यत्र तत्र विद्यात्पराभवत् ॥१०२॥

अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥१०३॥

नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।
अक्षयं पूजितास्तेन भवन्ति पितरोऽग्नयः ॥१०४॥

बिल्वोदुंबरपत्राणि फलानि समिधस्तथा ।
श्राद्धे महापवित्राणि मेध्यानि च विशेषतः ॥१०५॥

पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् ।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥१०६॥

तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।
कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम् ॥१०७॥

अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।
घृतमादाय पात्रे च जुहुयाद्धव्यवाहने ॥१०८॥

पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुंबरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये ॥१०९॥

सरलो देवदारुश्च शालश्च कदिरस्तथा ।
समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥११०॥

ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन ।
पूजिताः समिदर्थं ते पितॄणां वचनं यथा ॥१११॥

समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् ।
फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥११२॥

अक्षयं सर्वकामीयमश्वमेधफलं हि तत् ।
श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा ॥११३॥

नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि ॥११४॥

बल्वजः कोविदारश्च वर्जनीयाः समन्ततः ।
शकुनानां निवासांश्च वर्जयेत महीरुहान् ॥११५॥

अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् ।
स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा ।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥११६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशोऽध्यायः॥ ११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.3630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आईपोरका

  • a  Orphan on the mother's side. 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site