TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २२

मध्यम भागः - अध्यायः २२

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः २२
वसिष्ठ उवाच
इत्येवमुक्तो भृगुणा तथेत्युक्त्वा प्रणम्य च ।
रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः ॥१॥

भृगुं ख्यातिं च विधिवत्परिक्रम्य प्रणम्यच ।
परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः ॥२॥

मुनींश्च तान्नमस्कृत्य तैः सर्वैरनुमोदितः ।
निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः ॥३॥

ततो गुरुनियोगेन तदुक्तेनैव वर्त्मना ।
हिमवन्तं गिरिवरं ययौ रामो महामनाः ॥४॥

सोऽतीत्य विविधान्देशान्पर्वतान्सरितस्तथा ।
वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः ॥५॥

तत्रतत्र निवासेषु मुनीनां निवसन्पथि ।
तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः ॥६॥

अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् ।
आससादच लश्रेष्ठं हिमवन्तमनुत्तमम् ॥७॥

स गत्वा पर्वतवरं नानाद्रुमलतास्थितम् ।
ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवांबरम् ॥८॥

नानाधातुविचित्रैश्च प्रदेशैरुपशोभितम् ।
रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम् ॥९॥

मरुत्संघट्टनाघृष्टनीरसांघ्रिपजन्मना ।
सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित् ॥१०॥

क्वचिद्रविकरामर्शज्वलदर्केपलाग्निभिः ।
द्रवद्धिमाशिलाजातुजलशान्तदवानलम् ॥११॥

स्फटिकाञ्जनदुर्वर्णस्वर्णराशिप्रभाकरैः ।
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित् ॥१२॥

उपत्यकशिलापृष्ठवालातपनिषेविभिः ।
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित् ॥१३॥

क्वचिदर्काशुसंभिन्नश्चामीकरशिलाश्रितैः ।
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम् ॥१४॥

दरीमुखविनिष्क्रान्ततरक्षूत्पतनाकुलैः ।
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित् ॥१५॥

युद्ध्यद्वराहशार्दूलयूथपैरित स्तेरम् ।
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित् ॥१६॥

कलभोन्मेषणाकृष्टकरिणीभिरनुद्रुतैः ।
गवयैः खुरसंक्षुण्णशिलाप्रस्थतटङ्क्वचित् ॥१७॥

वासितर्थेऽभिसंवृद्धमदोन्मत्तमतङ्गजैः ।
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित् ॥१८॥

बृंहितश्रवणामर्षान्मातं गानभिधावताम् ।
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित् ॥१९॥

सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः ।
गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित् ॥२०॥

अष्टपादबलाकृष्टकेसरा दारुणाखैः ।
भेद्यमानाखिलशिलागंभीरकुहरं क्वचित् ॥२१॥

संरब्धा नेकशबरप्रसक्तैरृयूथपैः ।
इतरेतरसंमर्दं विप्रभग्नदृषत्क्वचित् ॥२२॥

गिरिकुञ्जेषु संक्रीडत्करिणीमद्विपं क्वचित् ।
करेणुमाद्रवन्मत्तगजाकलितकाननम् ॥२३॥

स्वपत्सिंहमुखश्वासमरुत्पुर्मदरीशतम् ।
गहनेषु गुरुत्राससाशङ्कविहरन्मृगम् ॥२४॥

कण्टाकश्लिष्टलाङ्गूललोमत्रुटनकातरैः ।
क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः ॥२५॥

गिरिकन्दरसंसक्तकिन्नरीसमुदीरितैः ।
सतालनादैरुदिनैर्भृताशेषदिशामुखम् ॥२६॥

अरण्यदेवतानां च चरेतीनामितस्ततः ।
अलक्तकरसक्लिन्नचरणाङ्कितभूतलम् ॥२७॥

मयूरकेकिरीवृन्दैः संगीत मधुरस्वरैः ।
प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः ॥२८॥

जलस्थलरुहानेककुसुमोत्करवर्षिभिः ।
गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः ॥२९॥

भूतार्त्तवरसास्वादमाद्यत्पुंस्कोकिलारवैः ।
आकुलीकृतपर्यन्तसहकारवनान्तरम् ॥३०॥

नानापुष्पासवोन्माद्यद्भृङ्गसंगीतनादितम् ।
अनेकविहगारावबधिरीकृतकाननम् ॥३१॥

मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः ।
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम् ॥३२॥

उपरिष्टान्निपततां विषमोपलसंकटे ।
निर्झराणां महारावैः समन्ताद्बधिरीकृतम् ॥३३॥

विततानेकसंसक्तशाखाग्राविरलच्छदैः ।
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः ॥३४॥

कदंबनिंबहिन्तालसर्जबेधूकतिन्दुकैः ।
कपित्थपनसाशोकसहकारेगुदाशनैः ॥३५॥

नागचंपकपुन्नागकोविदारप्रियङ्गुभिः ।
प्रियालनीपबकुलबन्धूकाक्षतमालकैः ॥३६॥

द्राक्षामधूकामलकजंबूकङ्कोलजातिभिः ।
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि ॥३७॥

पिचुलांबष्ठकनकवैकङ्कतशमीधवैः ।
पुत्रजीवाभयारिष्टलोहोदुंबरपिप्पलैः ॥३८॥

अन्यैश्च विविधैर्वृक्षैः समन्तादुपशोभितम् ।
निरन्तरतरुच्छायासुदूरविनिवारितैः ॥३९॥

समन्तादर्ककिरणैरनासादितभूतलम् ।
नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः ॥४०॥

आक्रान्तचकितानेकवनपङ्क्तिशताकुलम् ।
तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः ॥४१॥

प्रतापविषमैराजन्ह्रास्यमानं सरिच्छतैः ।
सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः ॥४२॥

नानाविहगसंघुष्टैः समन्तादुपशोभितम् ।
समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम् ॥४३॥

आरुरोह भगुश्रेष्ठस्तरसा तं मुदान्वितः ।
तस्य प्रविश्य गहनं वनं रामो महामनाः ॥४४॥

विचचार शनै राजन्नुपशल्यमहीरुहम् ।
स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः ॥४५॥

विक्ष्यमाणो मुदं लेभे साशङ्कं मुग्धदृष्टिभिः ।
स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः ॥४६॥

वीज्यमानो जहर्षे स वीक्ष्योदारां वनश्रियम् ।
विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः ॥४७॥

द्वन्द्वांश्च धातून्विविधान्पश्यन्नेवमतर्कयत् ।
अहोऽयं सर्वशैलानामाधिपत्येऽभिषेचितः ॥४८॥

ब्रह्मणा यज्ञभाक्चैव स्थाने संप्रतिपादितः ।
अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते ॥४९॥

रवैः कीचकवेणुनां मधुरीकृतकाननः ।
नितंबस्थलसंसक्ततुषारनिचयैग्यम् ॥५०॥

विभातीवाहितस्वच्छपरीतधवलांशुकः ।
निबिडश्रितनीहारनिकरेण तथोपरि ॥५१॥

नानावर्णोत्तरासंगावृत्ताङ्ग इवल्क्ष्यते ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥५२॥

अलङ्कृतागः सुव्यक्तं दृश्यतेऽही विलासिवत् ।
मृगेन्द्राहतदन्तीन्द्रकुंभस्थलपरिच्युतैः ॥५३॥

स्थूलमुक्तोत्करैरेष विभाति परितो गिरिः ।
नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः ॥५४॥

नीरन्ध्राञ्चितमे घौघवितानसमलङ्कृतः ।
नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः ॥५५॥

कैलासव्याजविलसत्सितच्छत्रविराजितः ।
गजाश्वमुखयूथैश्च समन्तात्परिवारितः ॥५६॥

रत्नद्वीपमहाद्वारशिलाकन्दरमन्दिरः ।
विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः ॥५७॥

समन्तात्प्रतिसंसक्ततरुवेत्रवतां शनैः ।
दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत् ॥५८॥

दोधूयमानो विचरच्चमरीचा रुचामरैः ।
मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः ॥५९॥

सत्त्वजातैरनेकैश्च सेव्यमानो विराजते ।
व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः ॥६०॥

भुनक्त्याक्रम्य वसुधां समग्रां श्रियमोजसा ।
एवं संचिन्तयानः स हिमाद्रिवनगह्वरे ॥६१॥

विचचार चिरं रामो मुदा परमया युतः ।
आससाद वने तस्मिन्विपुले भृगुपुङ्गवः ॥६२॥

सरोवरं महाराज विपुलं विमलोदकम् ।
कुमुदोत्पलकह्लारनिकरैरुपसोभितम् ॥६३॥

पङ्कजैरुत्पलैश्चैव रक्तपीतैः सितासितैः ।
अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम् ॥६४॥

हंससारसदात्यूहकारण्डवशतैरपि ।
जीवजीवकचक्राह्वकुररभ्रमरोत्करैः ॥६५॥

संघुष्यमाणं परितः सेवितं मन्दवायुना ।
शफरीमत्स्यसंघैश्च विचरद्भिरितस्ततः ॥६६॥

अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः ।
आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम् ॥६७॥

नानापतत्र्रिविरुतैर्मधुरीकृतदिक्तटम् ।
स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम् ॥६८॥

रामो मतिमतां श्रेष्ठस्तपसे च मनो दधे ।
शाकमूलफलाहारो नियतं नियतेन्द्रियः ॥६९॥

तपश्चचार देवेशं विनिवेश्यात्ममानसे ।
भृगूपदिष्टमार्गेण भक्त्या परमया युतः ॥७०॥

पूजयामास देवेशमेकाग्रमनसा नृप ।
अनिकेतः स वर्षासु शिशिरे जलसंश्रयः ॥७१॥

ग्रीष्मे पञ्जाग्निमध्यस्थश्चचारैवं तपश्चिरम् ।
रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च ॥७२॥

द्वन्द्वैरनुद्वेजितधीस्तापदोषैरनाकुलः ।
यमैः सनियमैश्चैव शुद्धदेहः समाहितः ॥७३॥

वशी चकार पवनं प्राणायामेन देहगम् ।
जितपद्मासनो मौनी स्थिरचित्तो महामुनिः ॥७४॥

वशी चकार चाक्षाणि प्रत्याहारपरायणः ।
धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान् ॥७५॥

ध्यानेन देवदेवेशं ददर्श परमेश्वरम् ।
स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः ॥७६॥

चिन्तयामास देवेशं ध्याने दृष्ट्वा जगद्गुरुम् ।
ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान् ॥७७॥

आकालावधि सोऽतिष्ठन्निवातस्थप्रदीपवत् ।
जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया ॥७८॥

आराधयदमेयात्मा सर्वभावस्थमीश्वरम् ।
ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम् ॥७९॥

परं ज्योतिरचिन्त्यं यद्योगिध्येयमनुत्त मम् ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ।
आनन्दमात्रमचलं व्याप्ताशेषचराचरम् ॥८०॥

चिन्तयामास तद्रूपं देवदेवस्य भार्गवः ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ॥८१॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे वसिष्ठसगरसंवादे अर्चुनोपाख्याने जामदग्न्यतपश्चरणं नाम द्वाविंशतितमोऽध्यायः॥२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:50.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

deserving

  • योग्य 
  • पात्र 
  • लायक 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site