TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २५

मध्यम भागः - अध्यायः २५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २५
वसिष्ठ उवाच
ततस्त द्रक्तियोगेन स प्रीतात्मा जगत्पतिः ।
प्रत्यक्षमगमत्तस्य सर्वैः सह मरुद्गणैः ॥१॥

तं दृष्ट्वा देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् ।
वृषेन्द्रवाहनं शंभुं भूतकोटिसमन्वितम् ॥२॥

ससंभ्रमं समुत्थाय हर्षेणाकुललोचनः ।
प्रणाममकरोद्भक्त्या शर्वाय भुवि भार्गवः ॥३॥

उत्थायोत्थाय देवेशं प्रणम्य शिरसासकृत् ।
कृताञ्जलिपुटो रामस्तुष्टाव च जगत्पतिम् ॥४॥

राम उवाच
नमस्ते देवदेवेश नमस्ते परमेश्वर ।
नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक ॥५॥

नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्ते सर्वभूतेश नमस्ते वृषभध्वज ॥६॥

नमस्ते सकलाधीश नमस्ते करुणाकर ।
नमस्ते सकलावास नमस्ते नीललोहित ॥७॥

नमः सकलदेवारिगणनाशाय शूलिने ।
कपालिने नमस्तुभ्यं सर्वलोकैकपालिने ॥८॥

श्मशानवासिने नित्यं नमः कैलासवासिने ।
नमोऽस्तु पाशिने तुभ्यं कालकूटविषाशिने ॥९॥

विभवेऽमरवन्द्याय प्रभवे ते स्वयंभुवे ।
नमोऽखिलजगत्कर्मसाक्षिभूताय शंभवे ॥१०॥

नमस्त्रिपथ गाफेनभासिगार्द्धन्दुमौलिने ।
महाभोगीन्द्रहाराय शिवाय परमात्मने ॥११॥

भस्मसंच्छन्नदेहाय नमोर्ऽकाग्नीन्दुचक्षुषे ।
कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने ॥१२॥

त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः ।
गिरिजाकुचकाश्मीरविरञ्जितमहोरसे ॥१३॥

महादेवाय मह ते नमस्ते कृत्तिवाससे ।
योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे ॥१४॥

स्वभक्तहृदयांभोजकर्णिकामध्यवर्त्तिने ।
सकलागमसिद्धान्तसाररूपाय ते नमः ॥१५॥

नमो निखिलयोगेन्द्रबोधनायामृतात्मने ।
शङ्करायाखिलव्याप्तमहिम्ने परमात्मने ॥१६॥

नमः शर्वाय शान्ताय ब्रह्मणे विश्वरुपिणे ।
आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये ॥१७॥

व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे ॥१८॥

नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये ।
श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः ॥१९॥

रजोगुणात्मने तुभ्यं विश्वसृष्टिविधायिने ।
हिरण्यगर्भरूपाय हराय जगदादये ॥२०॥

नमो विश्वात्मने लोकस्थितिव्या पारकारिणे ।
सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने ॥२१॥

तमोगुणविकाराय जगत्संहारकारिणे ।
क्ल्पान्ते रुद्ररूपाय परापर विदे नमः ॥२२॥

अविकाराय नित्याय नमः सदसदात्मने ।
बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे ॥२३॥

वस्वादित्यमरुद्भिश्च साध्यरुद्राश्विभेदतः ।
यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः ॥२४॥

अविकारमजं नित्यं सूक्ष्मरूपमनौपमम् ।
तव यत्तन्न जानन्ति योगिनोऽपि सदामलाः ॥२५॥

त्वामविज्ञाय दुर्ज्ञेयं सम्यग्ब्रह्मादयोऽपि हि ।
संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम् ॥२६॥

यावन्नोपैति चरणौ तवाज्ञानविघातिनः ।
तावद्भ्रमति संसारे पण्डितोऽचेतनोऽपि वा ॥२७॥

स एव दक्षः स कृती स मुनिः स च पण्डितः ।
भवतश्चरणांभोजे येन बुद्धिः स्थिरीकृता ॥२८॥

सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः ।
विदुषामपि मूढेन स मया ज्ञायते कथम् ॥२९॥

अशब्दगोजरत्वेन महिम्नस्तव सांप्रतम् ।
स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः ॥३०॥

तस्मादज्ञानतो वापि मया भक्त्यैव संस्तुतः ।
प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः ॥३१॥

वसिष्ठ उवाच
इति स्तुतस्तदा तेन भक्त्या रामेण शङ्करः ।
मेघगंभीरया वाचा तमुवाच हसन्निव ॥३२॥

भगवानुवाच
रामाहं सुप्रसन्नोऽस्मि शोर्ंयशालितया तव ।
तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः ॥३३॥

वरं वरय तस्मात्त्वं यद्यदिच्छसि चेतसा ।
तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः ॥३४॥

वसिष्ठ उवाच
इत्युक्तो देवदेवेन तं प्रणम्य भृगूद्वहः ।
कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह ॥३५॥

यदि देव प्रसन्नस्त्वं वारर्हेऽस्मि च यद्यहम् ।
भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः ॥३६॥

अस्त्रे शस्त्रे च शास्त्रे च न मत्तोऽभ्यधिको भवेत् ।
लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः ॥३७॥

वसिष्ठ उवाच
तथेत्युक्त्वा ततः शंभुरस्त्रशस्त्राण्यशेषतः ।
ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप ॥३८॥

सप्रयोगं ससंहारमस्त्रग्रामं चतुर्विधम् ।
प्रसादाभिमुखो रामं ग्राहयामास शङ्करः ॥३९॥

असंगवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् ।
इषुधी चाक्षयशरौ ददौ रामाय शङ्करः ॥४०॥

अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः ।
सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ॥४१॥

अजेयत्वं च युद्धेषु शौर्यं चाप्रतिमं भुवि ।
स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप ॥४२॥

ख्यातिं च बीजमेत्रेण तन्नाम्ना सर्वलौकिकीम् ।
तपः प्रभावं च महत्प्रददौ भार्गवाय सः ॥४३॥

भक्ति चात्मनि रामाय दत्त्वा राजन्यथोचिताम् ।
सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः ॥४४॥

तेनैव वपुषा शंभुः क्षिप्रमन्तरधाद्धरः ।
कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम् ॥४५॥

अदृश्यतां गते शर्वे महोदरमुवाच ह ।
महोदर मदर्थे त्वमिदं सर्वमशेषतः ॥४६॥

रथचापादिकं तावत्परिरक्षितुमर्हसि ।
यदा कृत्यं ममैतेन तदानीं त्वं मया स्मृतः ।
रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम् ॥४७॥

वसिष्ठ उवाच
तथेत्युक्त्वा गते तस्मिन्भृगुवर्यो महोदरे ।
कृतकृत्यो गुरुजनं द्रष्टुं गन्तुमियेष सः ॥४८॥

गच्छन्नथ तदासौ तु हिमाद्रिवनगह्वरे ।
विवेश कन्दरं रामो भाविकर्मप्रचोदितः ॥४९॥

स तत्र ददृशे बालं धृतप्राणमनुद्रुतम् ।
व्याघ्रेण विप्रतनयं रुदन्तं भीतभीतवत् ॥५०॥

दृष्ट्वानुकंपहृदयस्तत्परित्राणकातरः ।
तिष्ठतिष्ठेति तं व्याघ्रं वदन्नुच्चैरथान्वयात् ॥५१॥

तमनुद्रुत्य वेगेन चिरादिव भृगूद्वहः ।
आससाद वने घोरं शार्दूलमतिभीषणम् ॥५२॥

व्याघ्रेणानुद्रुतः सोऽपि पलायन्वनगह्वरे ।
निपपात द्विजसुतस्त्रस्तः प्राणभयातुरः ॥५३॥

रामोऽपि क्रोधरक्ताक्षो विप्रपुत्रपरीप्सया ।
तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयत् ॥५४॥

तावत्तरक्षुर्बलवानाद्रवत्पतितं द्विजम् ।
दृष्ट्वा ननादसुभृशं रोदसी कम्पयन्निव ॥५५॥

दग्ध्वा त्वस्त्राग्निना व्याघ्रं प्रहरन्तं नखाङ्कुरैः ।
अकृतव्रणमेवाशु मोक्षयामास तं द्विजम् ॥५६॥

सोऽपि ब्रह्माग्निनिर्दग्धदेहः पाप्मा नभस्तले ।
गान्धर्वं वपुरास्थाय राममाहेति सादरम् ॥५७॥

विप्रशापेन भोपूर्वमहं प्राप्तस्तरक्षुताम् ।
गच्छामि मोचितः शापात्त्वयाहमधुना दिवम् ॥५८॥

इत्युक्त्वा तु गते तस्मिन्रामो वेगेन विस्मितः ।
पतितं द्विजपुत्रं तं कृपया व्यवपद्यत ॥५९॥

माभैरेवं वदन्वाणीमारादेव द्विजात्मजम् ।
परमृशत्तदङ्गानि शनैरुज्जीवयन्नृप ॥६०॥

रामेणोत्थापितश्चैवं स तदोन्मील्य लोचने ।
विलोकयन्ददर्शाग्रे भृगुश्रेष्ठमवस्थितम् ॥६१॥

भस्मीकृतं च शार्दूलं दृष्टवा विस्मयमागतः ।
गतभीराह कस्त्वं भोः कथं वेह समागतः ॥६२॥

केन वायं निहन्तुं मामुद्यतो भस्मसात्कृतः ।
तरक्षुर्भीषणाकारः साक्षान्मृत्युरिवापरः ॥६३॥

भयसंमूढमनमो ममाद्यापि महामते ।
हतेऽपि तस्मिन्नखिला भान्ति वै तन्मया दिशः ॥६४॥

त्वामेव मन्ये सकलं पिता माता सुत्दृद्गुरू ।
परमापदमापन्नं त्वं मां समुपजीवयन् ॥६५॥

आसीन्मुनिवरः कश्चिच्छान्तो नाम महातपाः ।
पुत्रस्तस्यास्मि तीर्थार्थी शालग्राममयासिषम् ॥६६॥

तस्मात्संप्रस्थितश्शैलं दिदृक्षुर्गन्धमादनम् ।
नानामुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम् ॥६७॥

गन्तुकामोऽपहायाहं पन्थानं तु हिमाचले ।
प्रविशन्गहनं रम्यं प्रदेशालोकनाकुलम् ॥६८॥

दिशंप्राचीं समुद्दिश्य क्रोशमात्रमयासिषम् ।
ततो दिष्टवशेनाहं प्राद्रवं भयपीडितः ॥६९॥

पतितश्च त्वया भूयोभूमेरुत्थापितोऽधुना ।
पित्रेव नितरां पुत्रः प्रेम्णात्यर्थं दयालुना ।
इत्येष मम वृत्तान्तः साकल्येनोदितस्तव ॥७०॥

वसिष्ठ उवाच
इति पृष्टस्तदा तेन स्ववृत्तान्तमशेषतः ।
कथयामास राजेन्द्र रामस्तस्मै यथाक्रमम् ॥७१॥

ततस्तौ प्रीतिसंयुक्तौ कथयन्तौ परस्परम् ।
स्थित्वा नातिचिरं कालमथ गन्तुमियेष सः ॥७२॥

अन्वीयमानस्तेनाथ रामस्तस्माद्गुहामुखात् ।
निष्क्रम्यावसथं पित्रोः संप्रतस्थे मुदान्वितः ॥७३॥

अकृतव्रण एवासौ व्याघ्रेण भुवि पातितः ।
रामेण रक्षितश्चाभुद्यस्माद्ध्याघ्रं विनिघ्नता ॥७४॥

तस्मात्तदेव नामास्य बभूव प्रथितं भुवि ।
विप्रपुत्रस्य राजेन्द्र तदेतत्सोऽकृतव्रणः ॥७५॥

तदा प्रभृति रामस्य च्छायेवातपगा भुवि ।
बभूव मित्रमत्यर्थं सर्वावस्थासु पार्थिव ॥७६॥

स तेनानुगतो राजन्भृगोरासाद्य सन्निधिम् ।
दृष्ट्वा ख्यातिं च सोऽभ्येत्य विनयेनाभ्यवादयत् ॥७७॥

स ताभ्यां प्रियमाणाभ्यामाशीर्भिरभिनन्दितः ।
दिनानि कतिचित्तत्र न्यवसत्तत्प्रियेप्सया ॥७८॥

ततस्तयोरनुमते च्यवनस्य महामुनेः ।
आश्रमं प्रतिचक्राम शिष्यसंघैः समावृतम् ॥७९॥

नियन्त्रितान्तः करणं तं च संशान्तमानसम् ।
सुकन्याचापि तद्भार्यामवन्दत महामनाः ॥८०॥

ताभ्यां च प्रीतियुक्ताभ्यां रामः समभिनन्दितः ।
और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम् ॥८१॥

तं चाभिवाद्य मेधावी तेन च प्रतिनन्दितः ।
उवास तत्र तत्प्रीत्या दिनानि कतिचिन्नृप ॥८२॥

विसृष्टस्तेन शनकैरृचीकभवनं मुदा ।
प्रतस्थे भार्गवः श्रीमानकृतव्रणसंयुतः ॥८३॥

अवन्दत पितुः पित्रोर्नत्वा पादौ पृथक्पृथक् ।
तौ च तं नृप संहर्षाच्चाशिषा प्रत्यनन्दताम् ॥८४॥

पृष्टश्च ताभ्यामखिलं निजवृत्तमुदारधीः ।
कथयामास राजेन्द्र यथावृत्तमनुक्रमात् ॥८५॥

स्थित्वा दिनानि कतिचित्तत्रापि तदनुज्ञया ।
जगामावसथं पित्रोर्मुदा परमया युतः ॥८६॥

अभ्येत्य पितरौ राजन्नासी नावाश्रमोत्तमे ।
अवन्दत तयोः पादौ यथावद्भृगुनन्दन ॥८७॥

पादप्रणामावनतं समुत्थाप्य च सादरम् ।
आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यषिञ्चताम् ॥८८॥

आशीर्भिरभिनन्द्याङ्के समारोप्य सुहुर्मुखम् ।
विक्षन्तौ तस्य चाङ्गानि परिस्पृश्यापतुर्मुदम् ॥८९॥

अपृच्छताञ्च तौ रामं कलेनैतावता त्वया ।
किं कृतं पुत्र को वायं कुत्र वा त्वमुपस्थितः ॥९०॥

कथं सह सकाशे त्वमास्थितो वात्र वागतः ।
त्वयेतदखिलं वत्स कथ्यतां तथ्यमावयोः ॥९१॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने भार्गवचरिते पञ्चविंशतितमोऽध्यायः॥२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:51.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

earthed conductor

  • भूसंपर्कित वाही 
RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.