TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ४

मध्यम भागः - अध्यायः ४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

अध्यायः ४
सूत उवाच
ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥१॥

दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् ।
चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च ॥२॥

विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः ।
दाराग्निहोत्रसंबन्धं वितत्य यजतेति च ॥३॥

एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः ।
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ॥४॥

संन्यस्येह च कर्माणि वासनाः कर्मजाश्च वै ।
यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ॥५॥

क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् ।
जुगुप्संतः प्रसूतिं च निःसत्त्वा निर्ममाभवन् ॥६॥

अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः ।
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः ॥७॥

परमं ज्ञानमास्थाय तत्संक्षिप्य सुसंस्थिताः ।
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥८॥

तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ ।
प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा ॥९॥

प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा ।
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ॥१०॥

जुगुप्समानाः स्वं जन्म संततिं नाभ्यनन्दत ।
कर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया ॥११॥

तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ ।
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ॥१२॥

क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो ।
प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः ॥१३॥

लोकेऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति ।
मयागतं तु सर्वं हि कथमच्छन्दतो मम ॥१४॥

प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् ।
लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम् ॥१५॥

बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिवर्त्तयेत् ।
भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम् ॥१६॥

तथोपचरितं यच्च तत्सर्वं विदितं मम ।
मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम् ॥१७॥

आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् ।
यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा ॥१८॥

इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते ।
एवं संभाष्य तान्देवान् जयानध्यात्मचेतसः ॥१९॥

अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः ।
यस्मान्मानभिसंधाय सन्यासादिः कृतः सुराः ॥२०॥

तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः ।
भविता च सुखोदर्के दिव्यभावेन जायताम् ॥२१॥

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः ।
मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ ॥२२॥

वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु ।
एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥२३॥

त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् ।
एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसतेऽन्यत्प्रशस्तम् ॥२४॥

एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् ।
वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ ॥२५॥

ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः ।
प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ॥२६॥

ततस्तेन रुषा शप्तास्तेऽभवन्द्वादशाजिताः ।
जया इति समाख्याताः कृता एवं विसन्निभाः ॥२७॥

ततः स्वायंभुवे तस्मिन्सर्गेऽतीते तु वै सुराः ।
पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे ॥२८॥

उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा ।
ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः ॥२९॥

हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु ।
हरयोनाम ते देवा यज्ञभाजस्तदाभवन् ॥३०॥

ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?॥
विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः ॥३१॥

वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः ।
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ॥३२॥

ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेन्तरे ।
उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह ॥३३॥

अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ।
जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः ॥३४॥

यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।
शप्ताः स्वयंभुवा साध्या जज्ञिरे द्वादशामराः ॥३५॥

एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा ।
जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ॥३६॥

इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः ।
परिक्रान्ता मया वोऽद्या किं भूयः श्रोतुमिच्छथ ॥३७॥

इति ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यामभागे तृतीय उपोद्धातपादे जयाभिव्याहारो नाम चतुर्थोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:49.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

KŪṬA(कूट)

  • One of the pugilists deputed by Kaṁsa to kill Śrī Kṛṣṇa and Balarāma when they went to Mathurā to witness the dhanuryajña. Cāṇūra, Muṣṭika, Śala and Kosala were the other prominent pugilists deputed by Kaṁsa for the purpose. [Bhāgavata, 10th Skandha]. 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.