TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २६

मध्यम भागः - अध्यायः २६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अध्यायः २६
वशिष्ठ उवाच
इति पृष्टस्तदा ताभ्यां रामो राजन्कृताञ्जलिः ।
तयोरकथयत्सर्वमात्मना यदनुष्ठितम् ॥१॥

निदेशाद्वै कुलगुरोस्तपश्चरणमात्मनः ।
शंभोर्निदेशात्तीर्थानामटनं च यथाक्रमम् ॥२॥

तदाज्ञयैव दैत्यनां वधं चामरकारणात् ।
हरप्रसादादत्रापि ह्यकृतव्रणदर्शनम् ॥३॥

एतत्सर्वमशेषेण यदन्यच्चात्मना कृतम् ।
कथयामास तद्रामः पित्रोः संप्रीयमाणयोः ॥४॥

तौ च तेनोदितं सर्वं श्रुत्वा तत्कर्म विस्तरम् ।
हृष्टौ हर्षान्तरं भूयो राजन्नाप्नुवतावुभौ ॥५॥

एवं पित्रोर्महाराज शुश्रूषां भृगुपुङ्गवः ।
प्रकुर्वंस्तद्विधेयात्मा भ्रातॄणां चाविशेषतः ॥६॥

एतस्मिन्नेव काले तु कदाचिद्धैहयेश्वरः ।
इत्येष मृगयां गान्तुं चतुरङ्गबलान्वितः ॥७॥

संरज्यमाने गगने बन्धूककुसुमारुणैः ।
ताराजालद्युतिहरैः समन्तादरुणांशुभिः ॥८॥

मन्दं वीजति प्रोद्धूतकेतकीवनराजिभिः ।
प्राभातिके गन्धवहे कुमुदाकरसंस्पृशि ॥९॥

वयांसि नर्मदातीरतरुनीडाश्रयेषु च ।
व्याहरन्स्वाकुला वाचो मनःश्रोत्रसुखावहाः ॥१०॥

नर्मदातीरतीर्थं तदवतीर्याघहारिणि ।
तत्तोये मुनिवृन्देषु गृणात्सुब्रह्म शाश्वतम् ॥११॥

विधिवत्कृतमैत्रेषु सन्निवृत्य सरित्तटात् ।
आशमं प्रति गच्छत्सु मुनिमुख्येषु कर्मिषु ॥१२॥

प्रत्येकं वीरपत्नीषु व्यग्रासु गृहकर्मसु ।
होमार्थं मुनिकल्पाभिर्दुह्यमानासु धेनुषु ॥१३॥

स्थाने मुनिकुमारेषु तं दोहं हि नयत्सु च ।
अग्निहोत्राकुले जाते सर्वभूतसुखावहे ॥१४॥

विकसत्सु सरोजेषु गायत्सु भ्रमरेषु च ।
वाशत्सु नीडान्निष्पत्य पतत्रिषु समन्ततः ॥१५॥

अनति व्यग्रमत्तेभतुरङ्गरथगामिनाम् ।
गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना ॥१६॥

गच्छत्सु चाश्रमोपान्तं प्रसूनजलहारिषु ।
स्वाध्या यदक्षैर्बहुभिरजिनांबरधारिभिः ॥१७॥

सम्यक्प्रयोज्यमानेषु मन्त्रेषूच्चावचेषु च ।
प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु ॥१८॥

यथा वन्मन्त्रतन्त्रोक्तक्रियासु विततासु च ।
ज्वलदग्निशिखाकारे तमस्तपनतेजसि ॥१९॥

प्रतिहत्य दिशः सर्वा विवृण्वाने च मेदिनीम् ।
सवितर्युदयं याति नैशे तमसि नश्यति ॥२०॥

तारकासु विलीनासु काष्ठासु विमलासु च ।
कृतमैत्रादिको राजा मृगयां हैहयेश्वरः ॥२१॥

निर्ययौ नगरात्तस्मात्पुरोहितसमन्वितः ।
बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः ॥२२॥

सचिवः सहितः श्रीमान् सवयोभिश्च राजभिः ।
महता बलभारेण नमयन्वसुधातलम् ॥२३॥

नादयन्रथघोषेण ककुभः सर्वतो नृपः ।
स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः ॥२४॥

ययौ संच्छादयन्व्योम विमानशतसंकुलम् ।
संप्रवश्य वनं घोरं विन्ध्योद्रेर्बलसंचयैः ॥२५॥

भृशं विलोलया मास समन्ताद्राजसत्तमः ।
परिवार्य वनं तत्तु स राजा निजसैनिकैः ॥२६॥

मृगान्नानाविधान्हिंस्रान्निजघान शितैः शरैः ।
आकर्णकृष्टकोदण्डयोधमुक्तैः शितेषुभिः ॥२७॥

निकृत्तगात्राः शार्दूला न्यपतन्भुवि केचन ।
उदग्रवेगपादातखड्गखण्डितविग्रहाः ॥२८॥

वराहयूथपाः केचिद्रुधिरार्द्रा धरामगुः ।
प्रचण्डशाक्तिकोन्मुक्तशक्तिनिर्भिन्नमस्तकाः ॥२९॥

मृगौघाः प्रत्यपद्यन्त पर्वता इव मेदिनीम् ।
नाराचा विद्धसर्वाङ्गाः सिंहर्क्षशरभादयः ॥३०॥

वसुधामन्वकीर्यन्त शोणितार्द्राः समन्ततः ।
एवं सवागुरैः कैश्चित्पतद्भिः पतितैरपि ॥३१॥

श्वभिश्चानुद्रुतैः कैश्चिद्धावमानैस्तथा मृगैः ।
आत्तैर्विक्रोशमानैश्च भीतैः प्राणभयातुरैः ॥३२॥

युगापाये यथात्यर्थं वनमाकुलमाबभौ ।
वराहसिंहशार्दूलश्वाविच्छशकुलानि च ॥३३॥

चमरीरुरुगोमायुगवयर्क्षवृकान्बहून् ।
कृष्णसारान्द्वीपिमृगान्रक्तखड्गमृगानवि ॥३४॥

विचित्राङ्गान्मृगानन्यान्न्यङ्कूनपि च सर्वशः ।
बालान्स्तनन्धयान्यूनः स्थविरान्मिथुनान्गणान् ॥३५॥

निजघ्नुर्निशितैः शस्त्रैः शस्त्रवध्यान्हि सैनिकाः ।
एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः ॥३६॥

श्रमेण महता युक्ता बभूवुर्नृपसैनिकाः ।
मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः ॥३७॥

नर्मदां धर्मसंतप्तः पिपासुरगमच्छनैः ।
अवतीय ततस्तस्यास्तोये सबलवाहनः ॥३८॥

विजागाह शुभे राजा क्षुत्तृष्णापरिपीडितः ।
स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम् ॥३९॥

बिसांकुराणि शुभ्राणि स्वादूनि प्रजघास च ।
विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः ॥४०॥

विशश्राम च तत्तीरे तरुखण्डोपमण्डिते ।
आलंबपाने तिग्मांशौ ससैन्यः सानुगो नृपः ॥४१॥

निश्चक्राम पुरं गन्तुं विन्ध्याद्रिवनगह्वरात् ।
स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम् ॥४२॥

आश्रमं पुण्यशीलस्य जमदग्नेर्महात्मनः ।
ततो निवृत्य सैन्यानि दूरेऽवस्थाप्य पार्थिवः ॥४३॥

परिचारैः कतिपथैः सहितोऽयात्तदाशमम् ।
गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः ॥४४॥

उपेत्य मुनिशार्दूलं ननाम शिरसा नृपः ।
अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम् ॥४५॥

पूजयामास विधिवदर्घपाद्यासनादिभिः ।
संभावयित्वा तां पूजां विहितां मुनिना तदा ॥४६॥

निषसादासने शुभ्र पुरस्तस्य महामुनेः ।
तमासीनं नृपवरं कुशासनगतो मुनिः ॥४७॥

पप्रच्छ कुशलप्रश्नं पुत्रमित्रादिबन्धुषु ।
सह संकथयंस्तेन राज्ञा मुनिवरोत्तमः ॥४८॥

स्थित्वा नातिचिरं कालमातिथ्यार्थं न्यमन्त्रयत् ।
ततः स राजा सुप्रीतो जमदग्नि मभाषत ॥४९॥

महर्षे देहि मेऽनुज्ञां गमिष्यामि स्वकं पुरम् ।
समग्रवाहनबलो ह्यहं तस्मान्महामुने ॥५०॥

कर्तु न शक्यमा तिथ्यं त्वया वन्याशिना वने ।
अथवा त्वं तपःशक्त्या कर्तुमातिथ्यमद्य मे ॥५१॥

शक्नोष्यपि पुरीं गन्तुं मामनुज्ञातुर्हसि ।
अन्यथा चेत्खलैः सैन्यैरत्यर्थं मुनिसत्तम ॥५२॥

तपस्विनां भवेत्पीडा नियमक्षयकारिका ।
वसिष्ठ उवाच
इत्येवमुक्तः स मुनिस्तं प्राहस्थीयतां क्षणम् ॥५३॥

सर्वं संपादयिथ्येऽहमातिथ्यं सानुगस्य ते ।
इत्युक्त्वाहूय तां दोग्ध्रीमुवाचायं ममातिथिः ॥५४॥

उपाग तस्त्वया तस्मात्क्रियतामद्य सत्कृतिः ।
इत्युक्ता मुनिना दोग्ध्री सातिथेयमशेषतः ।
दुदोह नृपतेराशु यद्योग्यं मुनिगौरवात् ॥५५॥

अथाश्रमं तत्सुरराजसद्मनिकाशमासीद्भृगुपुङ्गवस्य ।
विभूतिभेदैरविचिन्त्यरुपमनन्यसाध्यं सुरभिप्रभावात् ॥५६॥

अनेकरत्नोज्ज्वलचित्रहेमप्रकाशमालापरिवीतमुच्चैः ।
पूर्णेन्दुशुभ्राभ्रविषक्तशृङ्गैः प्रासादसंघैः परिवीतमन्तः ॥५७॥

कांस्यारकूटारसताम्रहेमदुर्वर्णसौधो पलदारुमृद्भिः ।
पृथग्विमिश्रैर्भवनैरनेकैः सद्भासितं नेत्रमनोभिरामैः ॥५८॥

महार्हरत्नोज्ज्वलहेमवेदिकानिष्कूटसोपानकुटीविटङ्ककैः ।
तुलाकपाटर्गलकुड्यदेहलीनिशान्तशालाजिरशोभितैर्भृशम् ॥५९॥

वलभ्यलिन्दाङ्गपाचारुतोरणैरदभ्रपर्यन्तचतुष्किकादिभिः ।
स्तंभेषु कुड्येषु च दिव्यरत्नविचित्रचित्रैः परिशोभमानैः ॥६०॥

उच्चावचै रत्नवरैर्विचित्रसुवर्णसिंहासनपीठिकाद्यैः ।
स भक्ष्यभोज्यादिभि रन्नपानैरुपेतभाण्डोपगतैकदेशैः ॥६१॥

गृहैरमर्त्योचितसर्वसंपत्समन्वितैर्नेत्रमनोऽभिरामैः ।
तस्याश्रमं सन्नगरोपमानं बभौ वधूभिश्चमनोहराभिः ॥६२॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने षड्विंशतितमोऽध्यायः॥२६॥

Translation - भाषांतर

Last Updated : 2016-11-11T11:52:51.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

carunculae hymenales

  • योनिच्छद शेष 
  • = carunculae myrtiformes 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.