संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ५५

मध्यम भागः - अध्यायः ५५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अभिनन्द्याशिषात्यर्थं लालयन्प्रशशंस ह ॥१॥

अथ ऋत्विक्सदस्यैश्च सहितो राजसत्तमः ।
उपाक्रमत तं यज्ञे विधिवद्वेदपारगैः ॥२॥

ततः प्रववृते यज्ञः सर्वसंपद्गुणान्वितः ।
सम्यगौर्ववसिष्ठाद्यैर्मुनिभिः संप्रवर्त्तितः ॥३॥

हिरण्मयमयी वेदिः पात्राण्युच्चावचानि च ।
सुसमृद्धं यथाशास्त्रं यज्ञे सर्वं बभूव ह ॥४॥

एवं प्रवर्त्तितं यज्ञमृत्विजः सर्व एव ते ।
क्रमात्समापयामासुर्यजमानपुरस्सराः ॥५॥

समापयित्वा तं यज्ञं राजा विधिविदां वरः ।
यथावद्दक्षिणां चैव ऋत्विजां प्रददौ तदा ॥६॥

अथ ऋत्विक्सदस्यानां ब्राह्मणानां तथार्थिनाम् ।
तत्काङ्क्षितादभ्यधिकं प्रददौ वसु सर्वशः ॥७॥

एवं संतर्प्य विप्रादीन्दक्षिणाभिर्यथाक्रमम् ।
क्षमापयामास गुरून्सदस्यान्प्रणिपत्य च ॥८॥

ब्राह्मणाद्यैस्ततो वर्णैरृत्विग्भिश्च समन्वितः ।
वारकीयाकदंबैश्च सूतमागधवन्दिभिः ॥९॥

अन्वीयमानः सस्त्रीकः श्वेतच्छत्रविराजितः ।
दोधूयमानचमरो वालव्यजनराजितः ॥१०॥

नानावादित्रनिर्घोषैर्बधिरीकृतदिङ्मुखः ।
स गत्वा सरयूतीरं यथाशाश्त्रं यथाविधि ॥११॥

चकारावभृथस्नानं मुदितः सहबन्धुभिः ।
एवं स्नात्वा सपत्नीकः सुहृद्भिर्ब्राह्मणैः सह ॥१२॥

वीणावेणुमृदङ्गादिनानावादित्रनिःस्वनैः ।
मङ्गल्यैर्वेदघोषैश्च सह विप्रजनेरितैः ॥१३॥

संस्तूयमानः परितः सूतमागधबन्दिभिः ।
प्रविवेश पुरीं रम्यां हृष्टपुष्टजनायुतम् ॥१४॥

श्वेतव्यजन सच्छत्रपताकाध्वजमालिनीम् ।
सिक्तसंमृष्टभूभागापणशोभासमन्विताम् ॥१५॥

कैलासाद्रिप्रकाशाभिरुज्ज्वलां सौधपङ्क्तिभिः ।
स तत्रागरुधूपोत्थगन्धामोदितदिङ्मुखम् ॥१६॥

विकीर्यमाणः परितः पौरनारीजनैर्मुहुः ।
लाजवर्षेण सानन्दं वीक्षमाणश्च नागरैः ॥१७॥

उपदाभिरनेकाभिस्तत्रतत्र वणिग्जनैः ।
संभाव्यमानः शनकैर्जगम स्वपुरं प्रति ॥१८॥

स प्रविश्य गृहं रम्यं सर्वमण्डलमण्डितम् ।
सम्यक्संभावयामास सुहृदो ब्राह्मणानपि ॥१९॥

संसेव्यमानश्च तदा नानादेशेश्वरैर्नृपैः ।
सभायां राजशार्दूलो रेमे शक्र इवापरः ॥२०॥

एवं सुहृद्भिः सहितः पूरयित्वा मनोरथम् ।
सगरः सह भार्याभ्यां रेमे नृपवरोत्तमः ॥२१॥

अंशुमन्तं ततः पौत्रं मुदा विनयशालिनम् ।
वसिष्ठानुमते राजा यौवराज्येऽभ्यषेचयत् ॥२२॥

पौरजानपदानां तु बन्धूनां सुहृदामपि ।
स प्रियोऽभवदत्यर्थमुदारैश्च गुणैर्नृपः ॥२३॥

प्रजास्तमन्वरज्यन्त बालमप्यमितौजसम् ।
नवं च शुक्लपक्षादौशीतांशुमचिरोदितम् ॥२४॥

स तेन सहितः श्रीमान्सुत्दृद्भिश्च नृपोत्तमः ।
भार्याभ्यामनुरूपाभ्यां रममाणोऽवसच्चिरम् ॥२५॥

युवैव राजशार्दूलः साक्षाद्धर्म इवापरः ।
पालयामास वसुधां सशैलवनकाननाम् ॥२६॥

एवं महानहिमदीधितिवंशमौलिरत्नाय यमानवपुरुत्तरकोसलेशः ।
पूर्णेन्दुवत्सकललोकमनोऽभिरामः सार्द्ध प्रजाभिरखिलाभिरलं जहर्ष ॥२७॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सागरोपाख्यानेशुमतो राज्यप्राप्तिर्नाम पञ्चपञ्चशत्तमोऽध्यायः॥५५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP