TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २४

उत्तरभागः - अध्यायः २४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः २४
शैलादिरुवाच ॥
व्याख्यां पूजाविदानस्य प्रवदामि समासतः ॥
शिवशास्त्रोक्तमार्गेण शिवेन कथितं पुरा ॥१॥

अथोभौ चंदनचर्चितौ हस्तौ वौषडंतेनाद्यंजलिं कृत्वा मूर्तिविद्याशिवादीनि जप्त्वा अंगुष्ठादिकनिष्ठिकांत ईशानाद्यं कनिष्ठिकादिमध्यमांतं हृदयादितृतीयांतं तुरीयमंगुष्ठेनानामिकया पंचमं तलद्वयेन षष्ठं तर्जन्यंगुष्ठाभ्यां नाराचस्त्रप्रयोगेण पुनरपि मूलं जप्त्वा तुरीयेनावगुंठ्य शिवहस्तमित्युच्यते ॥२॥

शिवार्चंना तेन हस्तेन कार्या ॥३॥

तत्त्वगतमात्मानं व्यवस्थाप्य तत्त्वशुद्धिं पूर्ववत् ॥४॥

क्ष्माम्भोग्निवायुव्योमांतं पंचचतुःशुद्धकोट्यंते धारासहितेन व्यवस्थाप्य तत्त्शुद्धिं पूर्वं कुर्यात् ॥५॥

तत्त्वशुद्धिः षष्ठेन सद्येन तृतीयेन फडंताद्धराशुद्धिः ॥६॥

षष्ठसहितेन सद्येन तृतीयेन फडन्तेन वारितत्त्वशुद्धिः ॥७॥

वाह्नेयतृतीयेन फंडतेनाग्निशुद्धिः ॥८॥

वायव्यचतुर्थेन षष्ठसहितेन फडंतेन वायुशुद्धिः ॥९॥

षष्ठेन ससद्येन तृतीयेन फडंतेनाकाशशुद्धिः ॥१०॥

उपसंहृत्यैवं सद्यषष्ठेन तृतीयेन मूलेन फडंतेन ताडनं तृतीयेन संपुटीकृत्यग्रहणं मूलमेव योनिबीजेन संपुटीकृत्वा बंधनं बंधः ॥११
 ॥

एवं क्षांतातीतादिनिवृत्तिपर्यंतं पूर्ववत्कृत्वा प्रणवेन तत्त्वत्रयकमनुध्याय आत्मानं दीपशिखाकारं पुर्यष्टकसहितं त्रयातीतं
शक्तिक्षोभेणामृतधारां सुषुम्णायां ध्यात्वा ॥१२॥

शांत्यतीतादिनिवृत्तिपर्यंतानां चांतर्नादबिंद्वकारोकारमकारांतं शिवं सदाशिवं रुद्रविष्णुब्रह्मांतं सृष्टिमेणामृतीकरणं ब्रह्मन्यासं कृत्वा पंचवक्त्रेषु पंचदशनयनं विन्यस्य मूलेन पादादिकेशांतं महामुद्रामपि बद्ध्वा शिवोहमिति ध्यात्वा शक्त्यादीनि विन्यस्यहृदि शक्त्याबीजांकुरानंतरात्ससुषिरसूत्रकंटकपत्रकेसरधर्मज्ञानवैराग्यैश्वर्यसूर्यसोमाग्निवामाज्येष्ठारौद्रीकालीकलविकरणीबलविकरणीबल प्रथमनीसर्वभूतदमनीः केसरेषु कर्णिकायां मनोन्मनीमपि ध्यात्वा ॥१३॥

आसनं परिकल्प्यैवं सर्वोपचारसहितं बहिर्योगोपचारेणांतःकरणं कृत्वा नाभौ वह्निकुंडे पूर्ववदासनं परिकल्प्य सदाशिवं ध्यात्वा बिंदुतोऽमृतधारां शिवमंडले निपतितां ध्यात्वा ललाटे महेश्वरं दीपशिखाकारं ध्यात्वा आत्मशुद्धिरित्थं प्राणापानौ संयम्य सुषुम्णया वायुं व्यवस्थाप्य षष्ठेन तालुमुद्रां कृत्वा दिग्बंधं कृत्वा षष्ठेन स्थानशुद्धिर्वस्त्रादि पूतांतरर्घ्यपात्रादिषु प्रणवेन तत्त्वत्रयं विन्यस्य तदुपरि बुंदुं ध्यात्वा विपूर्य द्रव्याणि च विधाय अमृतप्लावनं कृत्वा पाद्यपात्रादिषु तेषामर्घ्यवदासनं परिकल्प्य संहितयाभिमंत्र्याद्येनाभ्यर्च्य द्वितीयेनामृतीकृत्वा तृतीयेन विशोध्यचतुर्थेनावगुंठ्य पंचमोनावलोक्यषष्ठेन रक्षांविधाय चतुर्थेन कुशपुंजेनार्घ्यांभसाभ्युक्ष्य आत्मानमपि द्रव्याणि पुनर्घ्यांभसाब्युक्ष्य सपुष्पेण सर्वद्रव्याणि पृथक्पृथक् शोधयेत् ॥१४॥

सद्येन गंधं वामेन वस्त्रम् ॥
अघोरेण आभरणं पुरुषेण नैवेद्यम् ॥
ईशानेन पुष्पाणि अथाभिमंत्रयेत् ॥१५॥

शिवगायत्र्या शेषं प्रोक्षयेत् ॥१६॥

पंचामृतपंचगव्यादीनि ब्रह्मांगमूलाद्यैराभिमंत्रयेत् ॥१७॥

पृथक्पृथङ्मूलेनार्घ्यं धूपं दत्त्वाचमनीयं च तेषामपि धेनुमुद्रा च दर्शयित्वा कवचेनावगुंठ्यास्त्रेण रक्षां च विधाय द्रव्यशुद्धिं कुर्यात् ॥१८॥

अर्घ्योदकमग्रे हृदा गंधमादायास्त्रेण विशोध्य पूजाप्रभृतिकरणं रक्षांतं कृत्वैवं द्रव्यशुद्धिं पूजासमर्पणांतं मौनमास्थाय पुष्पांजलिं दत्त्वा सर्वमंत्राणि प्रणवादिनमोंताज्जपित्वा पुष्पांजलिं त्यजेन्मंत्रशुद्धिरित्थम् ॥१९॥

अग्रे सामान्यार्घ्यपात्रं पयसापूर्य गंधपुष्पादिना संहितयाभिमंत्र्य धेनमुद्रां दत्त्वा कवचेनावगुंठ्यास्त्रेण रक्षयेत् ॥
पूजां पर्युषितां गायत्र्या समभ्यर्च्य सामान्यार्घ्यं दत्त्वा गंधपुष्पधूपाचमनीयं स्वधांतं नमोंतं वा दत्वा ब्रह्मभिः पृथक्पृथक्पुष्पांजलिं दत्त्वा फडंतास्त्रेण निर्मल्यं व्यपोह्य ईशान्यां चंडमभ्यर्च्यासनमूर्ति चंडं सामान्यास्त्रेण लिंगपीठं शिवं पाशुपतास्त्रेण विशोध्य मूर्ध्नि पुष्पं निधाय पूजयेल्लिंगशुद्धिः ॥२०॥

आसनं कूर्मशिलायां बीजांकुरं तदुपरि ब्रह्मशिलायामनंतनालसुषिरे सूत्रपत्रकंटककर्णिकाकेसरधर्मज्ञानवैराग्यैश्वर्यसूर्यसोमाग्निकेसरशक्तिं मनोन्मनीं कर्णिकायां मनोन्मनेनानंतासनायेति समासेनासनं परिकल्प्य तदुपरि निवृत्त्यादिकलामयं षङ्विधसहितं कर्मकलांगदेहं सदाशिवं भावयेत् ॥२१॥

उभाभ्यां सपुष्पाभ्यां हस्ताभ्यामंगुष्ठेन पुष्पमापीड्य आपाहनमुद्रया शनैःशनैः हृदयादिमस्तमारोप्य हृदा सह मूलं प्लुतमुच्चार्यसद्येन बिंदुस्थानादभ्यधिकं दीपशिखाकारं सर्वतोमुखहस्तं व्याप्यव्यापकमाबाह्य स्थापयेत् ॥२२॥

पूर्वहृदा शिवशक्तिसमवायेन परमीकरणममृतीकरणं हृदयादिमूलेन सद्येनावाहनं हृदा मूलोपरि अघोरेण सन्निरोदं हृदा मूलोपरि पुरुषेण सान्निध्यं हृदा मूलेन ईशानेन पूजयेदिति उपदेशः ॥२३॥

पंचमंत्रसहितेन यथापूर्वमात्मनो देहनिर्माणं तथा देवस्यापि वह्नेश्चैवमुपदेशः ॥२४॥

रूपकध्यानं कृत्वा मूलेन नमस्कारांतमापाद्य स्वधांतमाचमनीयं सर्वं नमस्कारांतं वा स्वाहाकारांतमर्घ्यं मूलेन पुष्पांजलिं वौषडंतेन सर्वं नमस्कारांतं हृदा वा ईशानेन वा रुद्रगायत्र्या ॐनमः शिवायेति मूलमंत्रेण वा पूजयेत् ॥२५॥

पुष्पांजलिं दत्त्वा पुनर्धूषाचमनीयं षष्ठेन पुष्पावसरणं विसर्जनं मंत्रोदकेन मूलेन संस्नाप्य सर्वद्रव्याभिषेकमीशानेन प्रतिद्रव्यमष्टपुष्पं
दत्त्वैवमर्घ्यं च गंधपुष्पधूपाचमनीयं फडंतास्त्रेण पूजापसरणं शुद्धोदकेन मूलेन संस्नाप्य पिष्टामलगादिभिः ॥२६॥

उष्णोदकेन हरिद्राद्येन लिंगमूर्ति पीठसहितां विशोध्य गंधोदकहिरण्योदकमंत्रोदकेन रुद्राध्यायं पठमानः नीलरुद्रत्वरितरुद्रपंचब्रह्मादिभिः नमः शिवायेति स्नापयेत् ॥२७॥

मूर्ध्नि पुष्पं निधायैवं न शून्यं लिंगमस्तकं कुर्यादत्र श्लोकः ॥२८॥

यस्य राष्ट्रे तु लिंगस्य मस्तकं शून्यलक्षणम् ॥
तस्यालक्ष्मीर्महा रोगो दुर्भिक्षं वाहनक्षयः ॥२९॥

तस्मात्परिहरेद्राजा धर्मकमार्थमुक्तये ॥
शून्ये लिंगे स्वयं राजा राष्ट्रं चैव प्रणश्यति ॥३०॥

एवं सुस्नाप्यार्घ्यंच दत्त्वा संमृज्य वस्त्रेण गंधपुष्पवस्त्रालंकारादींश्च मूलेन दद्यात् ॥३१॥

धूपाचमनीयदीपनैवेद्यादींश्च मूलेन प्रधानेनोपरि पूजनं पवित्रीकरणमित्युक्तम् ॥३२॥

आरार्तिदीपादींश्चैव धेनुमुद्रामुद्रितानि कवचेनावगुंठिनानि षष्ठेन रक्षितानि लिंगे च लिंगस्याधः साधारणं च दर्शयेत् ॥३३॥
मूलेन ननस्कारं विज्ञाप्यावाहनस्तापनसन्निरोधमान्निध्यपाद्यचमनीयार्घ्यगंधपुष्पधूपनैवेद्याचमनीयहस्तो द्वतनमुखवासाद्युपचारयुक्तं ब्रह्मांगभोगमार्गेण पूजयेत् ॥३४॥

सकलध्यानं निष्कलस्मारणं परावरध्यानं मूलमंत्रजपः ॥
दशांशं ब्रह्मांगजपसमर्पणमात्मनिवेदनस्तुतिनमस्कारादयश्च गुरुपूजा च पूर्वनो दक्षिणे विनायकस्य ॥३५॥

आदौ चांते च संपूज्यो विघ्नेशो जगदीश्वरः ॥
दैवतैश्च द्विजैश्चैव सर्वकर्मार्थसिद्धये ॥३६॥

यः शिवं पूजयेदेवं लिंगे वा स्थांडिलेपि वा ॥
स याति शिवसायुज्यं वर्षमात्रेण कर्मणा ॥३७॥

लिंगार्चकश्च षण्मासान्नात्र कार्या विचारणा ॥
सप्त प्रदक्षिणाः कृत्वा दंडवत्प्रणमेद्वुधः ॥३८॥

प्रदक्षिणक्रमपादेन अश्वमेधफलं शतम् ॥
तस्मात्संपूजयोन्नित्यं सर्वकर्मार्थसिद्धये ॥३९॥

भोगार्थी भोगमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥
पुत्रार्थी तनयं श्रेष्ठं रोगी रोगात्प्रमुच्यते ॥४०॥

यान्यांश्चिंतयते कामांस्तांन्प्राप्नोति मानवः ॥४१॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे चतुर्विशोऽध्यायः ॥२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:30.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

VAHNI II(वह्नि)

RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.