TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ५५

उत्तरभागः - अध्यायः ५५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः ५५
ऋषय ऊचुः ॥
कथं त्रियंबको देवो देवदेवो वृषध्वजः ॥
ध्येयः सर्वार्थासिद्ध्यर्थं योगमार्गेण सुव्रत ॥१॥

पूर्वमेवापि निखिलं श्रुतं श्रुतिसमं पुनः ॥
विस्तरेण च तत्सर्वं संक्षेपाद्वक्तुमर्हसि ॥२॥

सूत उवाच ॥
एवं पैतामहेनैव नंदी दिनकरप्रभः ॥
मेरुपृष्ठे पुरा पृष्टो मुनिसंघैः समावृतः ॥३॥

सोऽपि तस्मै कुमाराय ब्रह्मपुत्राय सुव्रताः ॥
मिथः प्रोवाच भगवान्प्रणताय समाहितः ॥४॥

नंदिकेश्वर उवाच ॥
एवं पुरा महादेवो भगवान्नीललोहितः ॥
गिरिपुत्र्यांबया देव्या भगवत्यैकशय्या ॥५॥

पृष्टः कैलासशिखरे हृष्टपुष्टतनूरुहः ॥
श्रीदेव्युवाच ॥
योगः कतिविधः प्रोक्तस्तत्कथं चैव कीदृशम् ॥६॥

ज्ञानं च मोक्षदं दिव्यं मुच्यंते येन जंतवः ॥
श्रीभगवानुवाच ॥
प्रथमो मंत्रयोगश्च स्पर्शयोगो द्वितीयकः ॥७॥

भावयोगस्तृतीयः स्याभावश्च चतुर्थकः ॥
सर्वोत्तमो महायोगः पंचमः परिकीर्तितः ॥८॥

ध्यानयुक्तो जपाभ्यासो मंत्रयोगः प्रकीर्तितः ॥
नाडीशुद्ध्यधिको यस्तु रेचकादिक्रमान्वितः ॥९॥

समस्तव्यस्तयोगेन जयो वायोः प्रकीर्तितः ॥
बलस्थिरक्रियायुक्तो धारणाद्यैश्च शोभनैः ॥१०॥

धारणात्रयसंदीप्तो भेदत्रयविशोधकः ॥
कुंभकावस्थितोऽभ्यासः स्पर्शयोगः प्रकीर्तितः ॥११॥

मंत्रस्पर्शविनिर्मुक्तो महादेवं समाश्रितः ॥
बहिरंतर्विभागस्थस्फुरत्संहरणात्मकः ॥१२॥

भावयोगः समाख्याताश्चित्तशुद्धिप्रदायकः ॥
विलिनावयवं सर्वं जगत्स्थावरजंगमम् ॥१३॥

शून्यं सर्वं निराभासं स्वरूपं यत्र चिंत्यते ॥
अभावयोगः संप्रोक्तश्चित्तनिर्वाणकारकः ॥१४॥

नीरूपः केवलः शुद्धः स्वच्छंदं च सुशोभनः ॥
अनिर्देश्यः सदालोकः स्वयंवेद्यः समं ततः ॥१५॥

स्वभावो भासते यत्र महायोगः प्रकीर्तितः ॥
नित्योदितः स्वयंज्योतिः सर्वचित्तसमुत्थितः ॥१६॥

निर्मलः केवलो ह्यात्मा महायोग इति स्मृतः ॥
अणिमादिप्रदाः सर्वे सर्वे ज्ञानस्य दायकाः ॥१७॥

उत्तरोत्तरवैशिष्ट्यमेषु योगेष्वनुक्रमात् ॥
अहं संगविनिर्मुक्तो महाकाशोपमः परः ॥१८॥

सर्वावरणनिर्मुक्तो ह्यचिंत्यः स्वरसेन तु ॥
ज्ञेयमेतत्समाख्यातमग्राह्यमपि दैवतैः ॥१९॥

प्रविलीनो महान्सम्यक् स्वयंवेद्यः स्वसाक्षिकः ॥
चकारस्त्यानंदवपुषा तेन ज्ञेयमिदं मतम् ॥२०॥

परीक्षिताय शिष्याय ब्राह्मणायाहिताग्नये ॥
धार्मिकायाकृतघ्नाय दातव्यं क्रमपूर्वकम् ॥२१॥

गुरुदैवतभक्ताय अन्यथा नैव दापयेत् ॥
निंदितो व्याधितोल्पायुस्तथा चैव प्रजायते ॥२२॥

दातुरप्येवमनघे तस्माज्ञात्वैव दापयेत् ॥
सर्वसंगविनिर्मुक्तो मद्भक्तो मत्परायणः ॥२३॥

साधको ज्ञानसंयुक्तः श्रौतस्मार्तविशारदः ॥
गुरुभक्तश्च पुण्यात्मा योग्यो योगरतः सदा ॥२४॥

एव देवि समाख्यातो योगमार्गः सनातनः ॥
सर्ववेदागमांभोजमकरंदः सुमध्यमे ॥२५॥

पीत्वा योगामृतं योगी मुच्यते ब्रह्मवित्तमः ॥
एवं पाशुपतं योगं योगैश्वर्यमनुत्तमम् ॥२६॥

अत्याश्रममिदं ज्ञेयं मुक्तये केन लभ्यते ॥
तस्मादिष्टैः समाचारैः शिवार्चनरतैः प्रिये ॥२७॥

इत्युक्त्वा भगवान्देवीमनुज्ञाप्य वृषध्वजः ॥
शंकुकर्णं समासाद्य युयोजात्मानमात्मनि ॥२८॥

शैलादिरुवाच ॥
तस्मात्त्वमपि योगींद्र योगाभ्यासरतो भव ॥
स्वंयभुव परा मूर्तिर्नूनं ब्रह्ममयी वरा ॥२९॥

तस्मात्सर्वप्रयत्नेन मोक्षार्थो पुरुषोत्तमः ॥
भस्मस्नायी भवेन्नित्यं योगे पाशुपते रतः ॥३०॥

ध्येया यथाक्रमेणैव वैष्णवी च ततः परा ॥
माहेश्वरी परा पश्चात्सैव ध्येया यथाक्रमम् ॥३१॥

योगेश्वरस्य या निष्ठा सैषा संहृत्य वर्णिता ॥३२॥
सूत उवाच ॥
एवं शिलादपुत्रेण नंदिना कुलनन्दिना ॥
योगः पाशुपतः प्रोक्तो भस्मनिष्ठेन धीमता ॥३३॥

सनत्कुमारो भगवान्व्यासायामिततेजसे ॥
तस्मादहमपि श्रुत्वा नियोगात्सत्रिणामपि ॥३४॥

कृतकृत्योऽस्मि विप्रेभ्यो नमो यज्ञेभ्य एव च ॥
नमः शिवाय शांताय व्यासाय मुनये नमः ॥३५॥

ग्रंथैकादशसाहस्रं पुराणं लैंगमुत्तमम् ॥
अष्टोत्तरसताध्याय मादिमांशमतः परम् ॥३६॥

षट्चत्वारींशदध्यायं धर्मकामार्थमोक्षदम् ॥
अथ ते मुनयः सर्वे नैमिषेयाः समाहिताः ॥३७॥

प्रणेमुर्देवमीशानं प्रीतिकंटकितत्वचः ॥
शाखां पौराणिकीमेवं कृत्वैकादशिकां प्रभुः ॥३८॥

ब्रह्मा स्वयंभूर्भगवानिदं वचनमब्रवीत् ॥
लैंगमाद्यंतमखिलं यः पठेच्छृणुयादपि ॥३९॥

द्विजेभ्यः श्रावयेद्वापि स याति परमां गतिम् ॥
तपसा चैव यज्ञेन दानेनाध्ययनेन च ॥४०॥

या गतिस्तस्य विपुला शास्त्रविद्या च वैदिकी ॥
कर्मणा चापि मिश्रेण केवलं विद्ययापि वा ॥४१॥

निवृत्तिश्चास्य विप्रस्य भवेद्भक्तिश्च शाश्वती ॥
मयि नारायणे देवे श्रद्धा चास्तु महात्मनः ॥४२॥

वंशस्य चाक्षया विद्या चाप्रमादश्च सर्वतः ॥
इत्याज्ञा ब्रह्मणस्तस्मात्तस्य सर्वं महात्मनः ॥४३॥

ऋषयः प्रोचुः ॥
ऋषेः सूतस्य चास्माकमेतेषाभपि चास्य च ॥
नारदस्य च या सिद्धिस्तीर्थयात्रारतस्य च ॥४४॥

प्रीतिश्च विपुला यस्मा दस्माकं रोमहर्षण ॥४५॥

सा सदास्तु विरूपाक्षप्रसादात्तु समंततः ॥
एवमुक्तेषु विप्रेषु नारदो भगवानपि ॥४६॥

कराभ्यां सुशुभाग्राभ्यां सूतं पस्पर्शिवांस्त्वचि ॥
स्वस्त्यस्तु सूत भद्रं ते महादेवे वृषध्वजे ॥४७॥

श्रद्धा तवास्तु चास्माकं नमस्तस्मै शिवाय च ॥४८॥

इति श्रीलिंगमहापुराणे उत्तरभागे पञ्चपञ्चाशत्तमोध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:32.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दैत्य-दैत्यांची वेळ

  • तिन्हीसांज 
  • राक्षसवेलाश्यामची आई. 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site