TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३

उत्तरभागः - अध्यायः ३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ३
अम्बरीष उवाच ॥
मार्कंडेय महाप्राज्ञ केन योगेन लब्धवान् ॥
गानविद्यां महाभागे उत्तरभाग नारदो भगवान्मुनिः ॥१॥

तुंबरोश्च समानत्वं कस्मिन्काल उपेयिवान् ॥
एतदाचक्ष्व मे सर्वं सर्वज्ञोसि महामते ॥२॥

मार्कंडेय उवाच ॥
श्रुतो मयायमर्थो वै नारदाद्देवदर्शनात् ॥
स्वयमहा महातेजा नारदोऽसौ महामतिः ॥३॥

संतप्यमानो भगवान् दिव्यंवर्षसहस्रकम् ॥
निरुच्छ्वासेन संयुक्तस्तुंबरोर्गौरवं स्मरन् ॥४॥

तताप च महाघोरं तपोराशिस्तपः परम् ॥
अथांतरिक्षे शुश्राव नारदोऽसौ महामुनिः ॥५॥

वाणीं दिव्यां महाघोषामद्भुतामसरीरिणीम् ॥
किमर्थं मुनिशार्दूल तपस्तपसि दुश्चरम् ॥६॥

उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः ॥
मानसोत्तरशैले तु गानबंधुरिति स्मृतः ॥७॥

गच्छ शीघ्रं च पश्यैनं गानवित्त्वं भविष्यसि ॥
इत्युक्तो विस्मया विष्टो नारदो वाग्विदां वरः ॥८॥

मानसोत्तरशैले तु गानबंधुं जगाम वै ॥
गंधर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ॥९॥

समासीनास्तु परितो गानबंधुं ततस्ततः ॥
गनविद्यां समापन्नः सिक्षितास्तेन पक्षिणा ॥१०॥

स्निग्धकंठस्वरास्त्र समासीना मुदान्विताः ॥
ततो नारदमालोक्य गानबंधुरुवाच ह ॥११ ॥

प्रणिपत्य यथान्यायं स्वागतेनाभ्यपूजयत् ॥
किमर्थं भगवानत्र चागतोऽसि महामते ॥१२॥

किं कार्यं हि मया ब्रह्मन् ब्रूहि किं करवाणि ते ॥
नारद उवाच ॥
उलूकेंद्र महाप्राज्ञ श्रृणुसर्वं यथातथम् ॥१३॥

मम वृत्तं प्रवक्ष्यामि पुरा भूतं महाद्भुतम् ॥
अतीते हि युगे विद्वन्नारायणसमीपगम् ॥१४॥

मां विनिर्धूय संहृष्टः समाहूय च तुंबरुम् ॥
लक्ष्मीसमन्वितो विष्णुरश्रृणोद्गानमुत्तमम् ॥१५॥

ब्रह्मादयः सुराः सर्वे निरस्ताः स्थानतोऽच्युताः ॥
कौशिकाद्याः समासीना गानयोगेन वै हरिम् ॥१६॥

एवमाराध्य संप्राप्ता गाणपत्यं यथासुखम् ॥
तेनाहमतिदुःखार्तस्तपस्तप्तुमिहागतः ॥१७॥

यद्दत्तं यद्धुतं चैव यथा वा श्रुतमेव च ॥
यदधीतं मया सर्वं कलां नार्हति षोडशीम् ॥१८॥

विष्णोर्माहात्म्ययुक्तस्य गान योगस्य वै ततः ॥
संचिंत्याहं तपो घोरं तदर्थं तप्तवान् द्विज ॥१९॥

दिव्यवर्षसहस्रं वै ततो ह्यश्रृणुवं पुनः ॥
वाणीमाकाशसंभूतां त्वामुद्दिश्य विहंगम ॥२०॥

उलूकं गच्छ देवषे गानबंधुं मतिर्यदि ॥
गाते चेद्वर्तते ब्रह्मन् तत्र त्वं वेत्स्यसे चिरात् ॥२१॥

इत्यहं प्रेरितस्तेन त्वत्समीपमीहागतः ॥
किं करीष्यामि शिष्योहं तव मां पालयाव्यय ॥२२॥

गानबंधुरुवाच ॥
श्रृणु नारद यद्वृत्तं पुरा मम महामते ॥
अत्याश्चर्यसमायुक्तं सर्वपापहरं शुभम् ॥२३॥

भुवनेश इति ख्यातो राजभूद्धार्मिकः पुरा ॥
अश्वमेधसहस्रैश्च वाजपेयायुतेन च ॥२४॥

गवां कोट्यर्बुदे चैव सुवर्मस्य तथैव च ॥
वाससां रथहस्तीनां कन्याश्वानां तथैव च ॥२५॥

दत्वा स राजा विप्रेभ्यो मेदिनीं प्रतिपालयन् ॥
निवारयन् स्वके राज्ये गेययोगेन केशवम् ॥२६॥

अन्यं वा गेययोगेन गायन्यदि स मे भवेत् ॥
वध्यः सर्वात्मना तस्माद्वेदै रीड्यः परः पुमान् ॥२७॥

गानयोगेन सर्वत्र स्त्रियो गायंतु नित्यशः ॥
सूतमागधसंघाश्च गीतं ते कारयंतु वै ॥२८॥

इत्यज्ञाप्यमहातेजा राज्यं वै पर्यपालयत् ॥
तस्य राज्ञः पुराभ्याशे हरिमित्र इति श्रुतः ॥२९॥

ब्राह्मणो विष्णुभक्तश्च सर्वद्वंद्वविवर्जितः ॥
नदीपुलिनमासाद्य प्रतिमां च हरेः शुभाम् ॥३०॥

अभ्यर्च्य च यथान्यायं घृतदध्युत्तरं बहु ॥
मिष्टान्नं पायसं दत्त्वा हरेरावेद्य पूपकम् ॥३१॥

प्रणिपत्य यथान्यायं तत्र विन्यस्तमानसः ॥
अगायत हरिं तत्र तालवर्णलयान्वितम् ॥३२॥

अतीव स्नेहसंयुक्तस्तद्गतेनांतरात्मना ॥
ततो राज्ञः समादेशाच्चारास्तत्र समागताः ॥३३॥

तदर्चनादि सकलं निर्दूय च समंततः ॥
ब्राह्मणं तं गृहीत्वा ते राज्ञे सम्यङ्न्यवेदयन् ॥३४॥

ततो राजा द्विजश्रेष्ठं परिभर्त्स्य सुदुर्मतिः ॥
राज्यान्नर्यातयामास हृत्वा सर्वं धनादिकम् ॥३५॥

प्रतिमां च हरेश्चैव म्लेच्छा हृत्वा ययुः पुनः ॥
ततः कालेन महता कालधर्ममुपेयिवान् ॥३६॥

स राजा सर्वलोकेषु पूज्यमानः समंततः ॥
क्षुधार्तश्च तथा खिन्नो यममाह सुदुः खितः ॥३७॥

क्षुत्तृट् च वर्तते देव स्वर्गतस्यापि मे सदा ॥
मया पापं कृतं किं वा किं करिष्यामि वै यम ॥३८॥

यम उवाच ॥
त्वया हि सुमहत्पापं कृतमज्ञानमोहतः ॥
हरिमित्रं प्रति तदा वासुदेवपरायणम् ॥३९॥

हरिमित्रे कृतं पापं वासुदेवार्चनादिषु ॥
तेन पापेन संप्राप्तः क्षुद्रोगस्त्वां सदा नृप ॥४०॥

दानयज्ञादिकं सर्वं प्रनष्टं ते नराधिप ॥
गीतवाद्यसमोपेतं गायमानं महामतिम् ॥४१॥

हरिमित्रं समाहूय हृतवानसि तद्धनम् ॥
उपहारादिकं सर्वं वासुदेवस्य सन्निधौ ॥४२॥

तव भृत्यैस्तदा लुप्तं पापं चक्रुस्त्वदाज्ञया ॥
हरेः कीर्तिं विना चान्यद्ब्रह्मणेन नृपोत्तम ॥४३॥

न गेययोगे गातव्यं तस्मात्पापं कृतं त्वया ॥
नष्टस्ते सर्वलोकोद्य गच्च पर्वतकोटरम् ॥४४॥

पूर्वोत्सृष्टं स्वदेहं तं खादन्नित्यं निकृत्य वै ॥
तस्मिन्कोणे त्विमं देहं खादन्नित्यं क्षुधन्वितः ॥४५॥

महानिरयसंस्थस्त्वं यावन्मन्वंतरं भवेत् ॥
मन्वंतरे ततोऽतीते भूम्यां त्वं च भविष्यसि ॥४६॥

ततः कालेन संप्राप्य मानुष्यमवगच्छसि ॥
गानबंधुरुवाच ॥
एवमुक्त्वा यमो विद्वांस्तत्रैवांतरधीयत ॥४७॥

हरिमित्रो विमानेन स्तूयमानो गणाधिपैः ॥
विष्णुलोकं गतः श्रीमान् संगृह्य गमबांधवान् ॥४८॥

भुवनेशो नृपो ह्यस्मिन् कोटरे पर्वतस्य वै ॥
खादमानः शवं नित्यमास्ते क्षत्तृट्रसमन्वितः ॥४९॥

अद्राक्षं तं नृपं तत्र सर्वमेतन्ममोक्तवान् ॥
समालोक्याहमाज्ञाय हरिमित्रं समेयिवान् ॥५०॥

विमानेनार्कवर्णेन गच्छंतममरैर्वृतम् ॥
इंद्रद्युम्नप्रसादेन प्राप्तं मे ह्यायुरुत्तमम् ॥५१॥

तेनाहं हरिमित्रं वै दृष्ट्वानस्मि सुव्रत ॥
तदैश्वर्यप्रभावेन मनो मे समुपागतम् ॥५२॥

गानविद्यां प्रति तदा किन्नरैः समुपाविशम् ॥
षष्टिं वर्षसहस्राणां गान्योगेन मे मुने ॥५३॥

जिह्वा प्रसादिता स्पष्टा ततो गानमशिक्षयम् ॥
ततस्तु द्विगुणेनैव कालेनाभूदियं मम ॥५४॥

गानयोगसमायुक्ता गता मन्वंतरा दश ॥
गानाचार्योऽभवं तत्र गंधर्वाद्याः समागताः ॥५५॥

एते किन्नरसंघा वै मामाचार्यमुपागताः ॥
तपसा नैव शक्या वै गानविद्या तपोधन ॥५६॥

तस्माच्छ्रुतेन संयुक्तो मत्तस्त्वं गानमाप्नुहि ॥
एवमुक्तो मुनिस्तं वै प्रणिपत्य जगौ तदा ॥५७॥

तच्छृणुष्व मुनिश्रेष्ठ वासुदेवं नमस्य तु ॥
मार्कंडेय उवाच ॥
उलूकेनैवमुक्तस्तु नारदो मुनिसत्तमः ॥५८॥

शिक्षाक्रमेण संयुक्तस्तत्र गानमाशिक्षयत् ॥
गानबंधुस्तदाहेदं त्यक्तलज्जो भवाधुना ॥५९॥

उलूक उवाच ॥
स्त्रीसंगमे तथा गीते द्यूते व्याख्यानसमगमे ॥
व्यवहारे तथाहारे त्वर्थानां च समागमे ॥६०॥

आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ॥
न कुंचितेन गूढेन नित्यं प्रावरमादिभिः ॥६१॥

हस्तविक्षेपभावेन व्यादि तास्येन चैव हि ॥
निर्यातजिह्वायोगेन न गेयं हि कथंचन ॥६२॥

न गायेदूर्ध्वबाहुश्च नोर्ध्वदृष्टिः कथंचन ॥
स्वांगं निरीक्षमाणेन परं संप्रेक्षता तथा ॥६३॥

संघट्टे च तथोत्थाने कटिस्थानं न शस्यते ॥
हासो रोषस्तथा कंपस्तथान्यत्र स्मृतिः पुनः ॥६४॥

नैतानि शस्तरूपाणि गानयोगे महामते ॥
नैकहस्तेन शक्यं स्यात्तालसंघट्टनं मुने ॥६५॥

क्षुधार्त्तेन भयार्तेन तृष्णार्तेन तथैव च ॥
गानयोगे न कर्तव्यो नांधकारे कथंचन ॥६६॥

एवमादीनि चान्यानि न कर्तव्यानि गायता ॥
मार्कंडेय उवाच ॥
एवमुक्तः स भगवांस्तेनोक्तैर्विधिलक्षणैः ॥
अशिक्षयत्तथा गीतं दिव्यं वर्षसहस्रकम् ॥६७॥

ततः समस्तसंपन्नो गीतप्रस्तारकादिषु ॥
विपंच्यादिषु संपन्नः सर्वस्वरविभावित् ॥६८॥

अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥
स्वराणां भेदयोगेन ज्ञातवान्मुनिसत्तमः ॥६९॥

ततो गंधर्वसंघाश्च किन्नराणां तथैव च ॥
मुनिना सह संयुक्ताः प्रीतियुक्ता भवंति ते ॥७०॥

गानबंधुं मुनिः प्राह प्राप्य गानमनुत्तमम् ॥
त्वां समासाद्य संपन्नस्त्वं हि गीतविशारदः ॥७१॥

ध्वांक्षशत्रो महाप्राज्ञ किमाचार्य करोमि ते ॥
गानबंधुरुवाच ॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश ॥७२॥

ततस्त्रै लोक्यसंप्लावो भविष्यति महामुने ॥
तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम् ॥७३॥

मनसाध्याहितं मे स्याद्दक्षिणा मुनिसत्तम ॥
नारद उवाच ॥
अतीतकल्पसंयोगे गरुडस्त्वं भविष्यसि ॥७४॥

स्वस्ति तेऽस्तु महाप्राज्ञ गमिष्यामि प्रसीद माम् ॥
मार्कंडेय उवाच ॥
एवमुक्त्वा जगामथ नारदोपि जनार्दनम् ॥७५॥

श्वेतद्वीपे हृषीकेशं गापयामास गीतकान् ॥
तत्र श्रुत्वा तु भगवान्नारदं प्राह माधवः ॥७६॥

तुंबरोर्न विशिष्टोसि गीतैरद्यापि नारद ॥
यदा विशिष्टो भविता तं कालं प्रवदाम्यहम् ॥७७॥

गानबंधुं समासाद्य गानार्थज्ञो भवानसि ॥
मनोर्वैवस्वतस्याहमष्टविशतिमे युगे ॥७८॥

द्वांपरां ते भवष्यामि युदवंशकुलोद्भवः ॥
देवक्यां वसुदेवस्य कृष्णो नाम्ना महामते ॥७९॥

तदानीं मां समासाद्य स्मारयेथा यथातथम् ॥
तत्र त्वां गीतसंपन्नं करिष्यामि महाव्रतम् ॥८०॥

तुंबरोश्च समंचैव तथातिशयसंयुतम् ॥
तावत्कालं यतायोगं देवगंधर्वयोनिषु ॥८१॥

शिक्षयस्व यतान्यायमित्युक्त्वांतरधीयत ॥
ततो मुनिः प्रणम्यैनं तथातिशयसंयुतम् ॥८२॥

देवर्षिर्देवसंकाशः सर्वाभरणभूषितः ॥
तपसां निधिरत्यंतं वासुदेवपरायणः ॥८३॥

स्कंधे विपंचीमासाद्य सर्वलोकांश्चचार सः ॥
वारुणं याम्यमाग्नेयमैद्रं कौबेरमेव च ॥८४॥

वायव्यं च तथेशानं संसदं प्राप्य धर्मवित् ॥
गायमानो हरिं सम्यग्वीणावादविचक्षणः ॥८५॥

गंधर्वाप्सरसां संघैः पूज्यमानस्तत स्ततः ॥
ब्रह्मलोकं समासाद्य कस्मिंश्चित्कालपर्यये ॥८६॥

हाहाहूहूश्च गंधर्वौ गीतवाद्यविशारदौ ॥
ब्रह्मणो गायकौ दिव्यौ नित्यौ गंधर्वसत्तमौ ॥८७॥

तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम् ॥
ब्रह्मणा च महातेजाः पूजितो मुनिसत्तमः ॥८८॥

तं प्रणम्य महात्मानं सर्वलोकपितामहम् ॥
चचार च यथाकामं सर्वलोकेषु नारदः ॥८९॥

ततः कालेन महता गृहं प्राप्य च तुंबरोः ॥
वीणामादाय तत्रस्थो ह्यगायत महामुनिः ॥९०॥

स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त वै मताः ॥
क्रीडतो भगवान्दृष्ट्वा निर्गतश्च सुसत्वरम् ॥९१॥

शिक्षया मास बहुशस्तत्र तत्र महामतिः ॥
श्रमयोगेन संयुक्तो नारदोपि महामुनिः ॥९२॥

सप्तस्वरांगनाः पश्यन् गानविद्याविशारदः ॥
आसीद्वीणा समायोगे न तास्तंत्र्यः प्रपेदिरे ॥९३॥

ततो रवैतके कृष्णं प्रणिपत्य महामुनिः ॥
विज्ञापयदशेषं तु श्वेतद्वीपे तु यत् पुरा ॥९४॥

नारायणेन कथितं गानयोगमनुत्तमम् ॥
तच्छ्रुत्वा प्राहसन्कृष्णः प्राह जांबवतीं मुदा ॥९५॥

एतं मुनिवरं भद्रे शिक्षयस्व यथाविधि ॥
वीणागान समायोगे तथेत्युक्त्वा च सा हरिम् ॥९६॥

प्रहसंती यथायोगं शिक्षयामास तं मुनिम् ॥
ततः संवत्सरे पूर्णे पुनरागम्य माधवम् ॥९७॥

प्रणिपत्याग्रतस्तस्थौ पुनराह स केशवः ॥
सत्यां समीपमागच्छ शिक्षयस्व यथाविधि ॥९८॥

तथेत्युक्त्वा सत्यभामां प्रणिपत्यजगौ मुनिः ॥
तया स सिक्षितो विद्वान् पूर्णे संवत्सरे पुनः ॥९९॥

वासुदेवमियुक्तोऽसौ रुक्मिणीसदनं गतः ॥
अंगनाभिस्ततस्ताभिर्दासीभिर्मुनिसत्तमः ॥१००॥

उक्तोऽसौ गायमानोपि न स्वरं वेत्सि वै मुने ॥
ततः श्रमेण महता वत्सरत्रयसंयुतम् ॥१०१॥

शिक्षितोसौ तदा देव्या रुक्मिण्यापि जगौ मुनिः ॥
ततः स्वरांगनाः प्राप्यः तंत्रीयोगं महामुनेः ॥१०२॥

आहूय कृष्णो भगवान् स्वयमेव महामुनिम् ॥
अशिक्षयदमेयात्मा गानयोगमनुत्तमम् ॥१०३॥

ततोऽतिशयमापन्नस्तुंबरोर्मुनिसत्तमः ॥
ततो ननर्त देवर्षिः प्रणिपत्य जनार्दनम् ॥१०४॥

उवाच च हृषीकेशः सर्वज्ञस्त्वं महामुने ॥
प्रहस्य गानयोगेन गायस्व मम सन्निधौ ॥१०५॥

एतत्ते प्रार्थितं प्राप्तं मम लोके तथैव च ॥
नित्यं तुंबरुणा सार्धं गायस्व च यथातथम् ॥१०६॥

एवमुक्तो मुनिस्तत्र यथायोगं चचार सः ॥
यदा संपूजयन् कृष्णो रुद्रं भुवननायकम् ॥१०७॥

तदा जगै हरेस्तस्य नियोगाच्छंकराय वै ॥
रुक्मिण्या सह सत्या च जांबवत्या महामुनिः ॥१०८॥

कृष्णेन च नृपश्रेष्ठ श्रुतिजातिविशारदः ॥
एष वो मुनिशार्दूलाः प्रोक्तो गीतक्रमो मुनेः ॥१०९॥

ब्राह्मणो वासुदेवाख्यां गायमानो भृशं नृप ॥
हरेः सालोक्यमाप्नोति रुद्रगानोऽधिको भवेत् ॥११०॥

अन्यथा नरकं गच्छेद्गायमानोन्यदेव हि ॥
कर्मणा मनसा वाचा वासुदेवपरायणः ॥१११॥

गायन् श्रृण्वंस्तमाप्नोति तस्माद्गेयं परं विदुः ॥११२॥

इति श्रीलिंगमहापुराणे उत्तरभागे वैष्णवगीतकथनं नाम तृतीयोऽध्यायः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:29.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cytologic differentiation

  • Cyt. पेशिकीय विभेदन 
  • पेशीशास्त्रीय विभेदन 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.