संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३८

उत्तरभागः - अध्यायः ३८

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
गोसहस्रप्रदानं च वदामि श्रृणु सुव्रत ॥
गवां सहस्रमादाय सवत्सं सगुणं शुभम् ॥१॥

तास्त्वभ्यर्च्य यथाशास्त्रमष्टौ सम्यक्प्रत्नतः ॥
तासां श्रृंगाणि हेम्नाथ प्रतिनिष्केण बंधयेत् ॥२॥

खुरांश्च रजतेनैव बंदयेत्कंठदेसतः ॥
प्रतिनिष्केण कर्तव्यं कर्णे वज्रं च शोभनम् ॥३॥

शिवाय दद्याद्विप्रेभ्यो दक्षिणां च पृथक्पृथक् ॥
दशनिष्कं तदर्धं वा तस्यार्धार्धमथापि वा ॥४॥

यथाविभवविस्तारं निष्कमात्रमथापि वा ॥
वस्त्रयुग्मं च दातव्यं पृथग्विप्रेषु शोभनम् ॥५॥

गावश्चाराध्य यत्नेन दातव्याः सुमनोरमाः ॥
एवं दत्त्वा विधानेन शिवमभ्यर्च्य संकरम् ॥६॥

जपेदग्रे यथान्यायं गवां स्तवमनुत्तमम् ॥
गावो ममाग्रतो नित्यं गावो नः पृष्ठतस्तथा ॥७॥

हृदये मे सदा गावं मध्ये वसाम्यहम् ॥
इति कृत्वा द्विजाग्र्येभ्योदत्त्वा गत्वा प्रदक्षिणम् ॥८॥

तद्रोमवर्षसंख्यानि स्वर्गलोके महीयते ॥९॥

इति श्रीलिंगमहापुराणे उत्तरभागे गोसहस्रप्रदानं नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP