TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २०

उत्तरभागः - अध्यायः २०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः २०
सूत उवाच ॥
अत रुद्रो महादेवो मंडलस्थः पितामहः ॥
पूज्यो वै ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥१॥

वैश्यानां नैव शूद्राणां शुश्रुषां पूजकस्य च ॥
स्त्रीणां नैवादिकारोऽस्ति पूजादिषु न संशयः ॥२॥

स्त्रीशूद्राणां द्वजेन्द्रैश्च पूजया तत्फलं भवेत् ॥
नृपाणामुपकारार्थं ब्राह्मणाद्यैर्विशेषतः ॥३॥

एवं संपूजयेयुर्वै ब्राह्मणाद्याः सदाशिवम् ॥
इत्युक्त्वा भगवान् रुद्रस्तत्रैवांतरधात्स्वयम् ॥४॥

ते देवा मुनयः सर्वे शिवमुद्दिश्य शंकरम् ॥
प्रणेमुश्च महात्मानो रुद्रध्यानेन विह्वलाः ॥५॥

जग्मुर्यथागतं देवा मुनयश्च तपोधनाः ॥
तस्मादब्यर्चयेन्नित्यमादित्यं शिवरूपिणम् ॥६॥

धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥
ऋषय ऊचुः ॥
रोमहर्षण सर्वज्ञ सर्वसास्त्रभृतां वर ॥७॥

व्यासशिष्य महाभाग वाह्नेयं वद सांप्रतम् ॥
शिवेन देवदेवेन भक्तानां हितकाम्यया ॥८॥

वेदात् षडंगादुद्धृत्य सांख्ययोगाच्च सर्वतः ॥
तपश्च विपुलं तप्त्वा देवदानवदुश्चरम् ॥९॥

अर्थदेशादिसंयुक्तं गूढमज्ञाननिंदितम् ॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥१०॥

शिवेन कथितं सास्त्रं धर्मकामार्थमुक्तये ॥
शतकोटिप्रमाणेन तत्र पूजा कथं विभोः ॥११॥

स्नानयोगादयो वापि श्रोतुं कौतुहलं हि नः ॥
सूत उवाच ॥
पुरा सनत्कुमारेण मेरुपृष्ठे सुशोभने ॥१२॥

पृष्टो नंदीश्वरो देवः शैलादिः शिवसंमतः ॥
पृष्टोयं प्रणिपत्यैवं मुनिमुख्यैश्च सर्वतः ॥१३॥

तस्मै सनत्कुमाराय नंदिना कुलनंदिना ॥
कथितं यच्छिवज्ञानं मुनिपुंगवाः ॥१४॥

शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥
स्तुतिनिन्दादिरहितं सद्यः प्रत्ययकारकम् ॥१५॥

गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥
सनत्कुमार उवाच ॥
भगवन्सर्व भूतेश नंदीश्वर महेश्वर ॥१६॥

कथं पूजादयः शंभोर्धर्मकामार्थमुक्तये ॥
वक्तुमर्हसि शैलादे विनयेनागताय मे ॥१७॥

सूत उवाच ॥
संप्रेक्ष्य भगवान्नंदी निशम्य वचनं पुनः ॥
कालवेलाधिकाराद्यमवदद्वदतां वरः ॥१८॥

शैलादेरुवाच ॥
गुरुतः शास्त्रतश्चैवमधिकारं व्रवीम्यहम् ॥
गौरवादेव संज्ञैषा शिवाचार्यस्य नान्यथा ॥१९॥

स्वयमाचरते यस्तु आचारे स्थापयत्यपि ॥
आचिनोति च शास्त्रार्थानाचार्यस्तेन चोच्यते ॥२०॥

तस्माद्वेदार्थतत्त्वज्ञमाचार्यं भस्मशायिनम् ॥
गुरुमन्वेषयेद्भक्तः सुभगं प्रियदर्शनम् ॥२१॥

प्रतिपन्नं जनानंदं श्रुतिस्मृतिपथानुगम् ॥
विद्ययाभयदातारं लौल्यचाप्लयवर्जितम् ॥२२॥

आचारपालकं धीरं समयेषु कृतास्पदम् ॥
तं दृष्ट्वा सर्वभावेन पूजयेच्छिववद्गुरुम् ॥२३॥

आत्मना च धनेनैव श्रद्धावित्तानुसारतः ॥
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यथा भवेत् ॥२४॥

सुप्रसन्ने महाभागे सद्यः पाशक्षयो भवेत् ॥
गुरुर्मान्यो गुरुः पूज्यो गुरुरेव सदाशिवः ॥२५॥

संवत्सरत्रयं वाथ शिष्यान्विप्रान्परीक्षयेत् ॥
प्राणद्रव्यप्रदानेन आदेशैश्च इतस्ततः ॥२६॥

उत्तमश्चाधमे योज्यो नीच उत्तमवस्तुषु ॥
आकृष्टास्ताडिता वापि ये विषादं न यांति वै ॥२७॥

ते योग्याः शिवधर्मिष्ठाः शिवधर्मपरायणाः ॥
संयता धर्मसंपन्नाः श्रुतिस्मृतिपथानुगाः ॥२८॥

सर्वद्वंद्वसहाधीरा नित्यमुद्युक्तचेतसः ॥
परोपकारनिरता गुरुशुश्रूषणे रताः ॥२९॥

आर्जवा स्वस्था अनुकूलाः प्रियंवदाः ॥
अमानिनो बुद्धिमंतस्त्यक्तस्पर्धा गतस्पृहाः ॥३०॥

शौचाचारगुणोपेता दम्भमात्सर्यवर्जिताः ॥
योग्या एवं द्विजाः सर्वे शिवभक्तिपरायणाः ॥३१॥

एवंवृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥
शोध्या एवंविधाश्चैव तत्त्वानां च विशुद्धये ॥३२॥

शुद्धो विनयसंपन्नो मिथ्याकटुकवर्जितः ॥
गुर्वाज्ञापालकश्चैव शिष्योऽनुग्रहमर्हति ॥३३॥

गुरुश्च शास्त्वित्प्राज्ञस्तपस्वी नजवत्सलः ॥
लोकाचाररतो ह्येवं तत्त्वविन्मोक्षदः स्मृतः ॥३४॥

सर्वलक्षणसंपन्नः सर्वशास्त्रविशारदः ॥
सर्वोपायविधानज्ञस्तत्त्वहीनस्य निष्फलम् ॥३५॥

स्वसंवेद्य परे तत्त्वे निश्चयो यस्य नात्मनि ॥
आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम् ॥३६॥

प्रबुद्धस्तु द्विजो यस्तु स शुद्धः साधयत्यपि ॥
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥३७॥

परिग्रहविनिर्मुक्तास्ते सर्वे पशवोदिताः ॥
पशुभिः प्रेरिता ये तु सर्वे ते पशवः स्मृताः ॥३८॥

तस्मात्तत्त्वविदो ये तु मुक्ता मोचयंत्यपि ॥
संवित्तिजननं तत्त्वं परानंदसमुद्भवम् ॥३९॥

तत्त्वं तु विदितं येन स एवानंददर्शकः ॥
न पुनर्नाममात्रेण संवित्तिरहितस्तु यः ॥४०॥

अन्योऽन्यं तारयेन्नैवन किं शिला तारयेच्छिलाम् ॥
येषां तन्नाममात्रेण मुक्तिर्वै नाममात्रिका ॥४१॥

योगिनां दर्शनाद्वापि स्पर्शनाद्भाषणादपि ॥
सद्यः संजायते चाज्ञा पाशोपक्षयकारिणी ॥४२॥

अथवा योगममार्गेण शिष्यदेहं प्रविश्य च ॥
बोदयेदेव योगेन सर्वतत्त्वानि शोध्य च ॥४३॥

ष़डर्धशुद्धिर्विहिता ज्ञानयोगेन योगिनाम् ॥
शिष्यं परीक्ष्य धर्मज्ञं वेदपारगम् ॥४४॥

ब्राह्मणं क्षत्रियं वैश्यं बहुदोषविवर्जितम् ॥
ज्ञानेन ज्ञेयमालोक्य कर्णात् कर्णागतेन तु ॥४५॥

दीपाद्दीपो यता चान्यः संचरेद्विधिपद्गुरुः ॥
भौवनं च पदं चैव वर्णाख्यं मात्रमुत्तमम् ॥४६ ॥

कालाध्वरं महा भाग तत्त्वाख्यं सर्वसंमतम् ॥
भिद्यते यस्य सामार्थ्यादाज्ञामात्रेण सर्वतः ॥४७॥

तस्य सिद्धिश्च मुक्तिश्च गुरुकारुण्यसंभवा ॥
पृथिव्यादीनि भूतानि आविशंति च भौवने ॥४८॥

शब्दः स्पर्शस्तथा रूपं रसो गंधश्च भावतः ॥
पदं वर्णाख्यकं विप्र बुद्धींद्रियविकल्पनम् ॥४९॥

कर्मेन्द्रियाणि मात्रं हि मनो बुद्धिरतः परम् ॥
अहंकारमथाव्यक्तं कालाध्वरमिति स्मृतम् ॥५०॥

पुरुषादिविरिंच्यंतमुन्मनत्वं परात्परम् ॥
तथेशत्वमिति प्रोक्तं सर्वतत्त्वार्थ बोधकम् ॥५१॥

अयोगी नैव जानाति तत्त्वशुद्धिं शिवात्मिकाम् ॥५२॥

इति श्रीलिंगमहापुराणे उत्तरभागे विंशोध्यायः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:30.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बागई

  • वि. लहान - मोठें . तर्फ नांदगांव मरुड येथील बागई घरटिपेची पाहाणी . - वाडबाबा १ . २०९ . 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.