संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २१

उत्तरभागः - अध्यायः २१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सूत उवाच ॥
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥
अलंकृत्य वितानाद्यैरीश्वरावाहनक्षमाम् ॥१॥

एकहस्तप्रमाणेन मंडलं परिकल्पयेत् ॥
आलिखेत्कमलं मध्ये पंचरत्नसमन्वितम् ॥२॥

चूर्णैरष्टदलं वृत्तं सितं वा रक्तमेव च ॥
परिवारेण संयुक्तं बहुशोभासमन्वितम् ॥३॥

आवाह्य कर्णिकायां तु शिवं परमकारणम् ॥
अर्चयेत्सर्वयत्नेन यथाविभवविस्तरम् ॥४॥

दलेषु सिद्धयः प्रोक्ताः कर्णिकायां महामुने ॥
वैराग्यज्ञाननालं च धर्मकंदं मनोरमम् ॥५॥

वामा ज्येष्ठा च रौद्री च काली विकरणी तथा ॥
बलविकरणीचैव बलप्रमथिनी क्रमात् ॥६॥

सर्वभूतस्य दमनी केसरेषु च शक्तयः ॥
मनोन्मनी महामाय कर्णिकायां शिवासने ॥७॥

वामदेवादिभिः सार्धं द्वंद्वन्यायेन विन्यसेत् ॥
मनोन्मनं महादेवं मनोन्मन्याथ मध्यतः ॥८॥

सूर्यसोमाग्निसंबंधात्प्रणवाख्यं शिवात्मकम् ॥
पुरुषं विन्यसेद्वक्त्रं पूर्वे पत्रे रविप्रभम् ॥९॥

अघोरं दक्षिणे नीलांजनचयोपमम् ॥
उत्तरे वामदेवाख्यं जपाकुसुमसन्निभम् ॥१०॥

सद्यं पश्चिमपत्रे तु गोक्षीरधवलं न्यसेन् ॥
ईशानं कर्णिकायां तु शुद्धस्फटिकसन्निभम् ॥११॥

चंद्रमंडलसंकाशं हृदयायेति मंत्रतः ॥
वाह्नेये रुद्रदिग्भागे शिरसे धूम्रवर्चसे ॥१२॥

शिखायै च नमश्चोति रक्ताभे नैर्ऋते दले ॥
कवचायांजनाभाय इति वायुदलेन्यसेत् ॥१३॥

अस्त्रायाग्निसिखाभाय इति दिक्षु प्रविन्यसेत् ॥
नेत्रेभ्यश्चेति चैशान्यां पिंगलेभ्यः प्रविन्येसत् ॥१४॥

शिवं सदा शिवं देवं महेश्वरमतः परम् ॥
रुद्रं विष्णुं विरिंचिं च सृष्टिन्यायेन भावयेत् ॥१५॥

शिवाय रुद्ररूपाय शांत्यतीताय शंभवे ॥
शांताय शांतदैत्याय नमश्चंद्रमसे तथा ॥१६॥

वेद्याय विद्याधाराय वह्नये वह्निवर्चसे ॥
कालायै च प्रतिष्ठायै तारकायांतकाय च ॥१७॥

निवृत्त्यै धनदेवाय धारायै धारणाय च ॥
मंत्रैरेतैर्महाभूतविग्रहं च सदाशिवम् ॥१८॥

ईशानमुकुटं देवं पुरुषास्यं पुरातनम् ॥
अघोर हृदयं हृष्टं वामगुह्यं महेश्वरम् ॥१९॥

सद्यमूर्ति स्मरेद्देवं सदसद्व्यक्तिकारणम् ॥
पंचवक्त्रं दशभुजमष्टत्रिंशत्कलामयम् ॥२०॥

सद्यमष्टप्रकारेण प्रभिद्य च कलामयम् ॥
वामं त्रयोदशविधौर्विभिद्य विततं प्रभुम् ॥२१॥

अघोरमष्टधा कृत्वा कलारूपेण संस्थितम् ॥
पुरुषं च चतुर्धा वै विभज्य च कलामयम् ॥२२॥

ईशानं पंचधा कृत्वा पंचमूर्त्या व्यवस्थितम् ॥
हंसहंसेति मंत्रेण शिवभक्त्या समन्वितम् ॥२३॥

ओंकारमात्रमोंकारमकारं समरूपिणम् ॥
आ ई ऊ ए तथा अंबानुक्रमेणात्मरूपिणम् ॥२४॥

प्रधानसहितं देवं प्रलयोत्पत्तिवर्जितम् ॥
अणोरणीयांसमजं महतोऽपि महत्तमम् ॥२५॥

उर्ध्वरेतसमीशानं विरूपाक्षमुमापतिम् ॥
सहस्रशिरसं देवं सहस्राक्षं सनातनम् ॥२६॥

सहस्रहस्तचरणं नादांतं नादविग्रहम् ॥
खद्योतसदृशाकारं चंद्ररेखाकृति प्रभुम् ॥२७॥

द्वादशांते भ्रुवोर्मध्ये तालुमध्ये गले क्रमात् ॥
हृद्देशेऽवस्थितं देवं स्वानंदममृतं शिवम् ॥२८॥

विद्युद्वलयसंकाशं विद्युत्कोटिसमप्रभम् ॥
श्यामं रक्तं कलाकारं शक्तित्रयकृतासनम् ॥२९॥

सदाशिवं स्मरेद्देवं तत्त्वत्रयसमन्वितम् ॥
विद्यामूर्तिमयं देव पूजयेच्च यथाक्रमात् ॥३०॥

लोकपालांस्तथास्त्रेण पूर्वाद्यान्पूजयेत् पृथक् ॥
चरुं च विधिनासाद्य शिवाय विनिवेदयेत् ॥३१॥

अर्धं शिवाय दत्त्वैव शेषर्धेन तु होमयेत् ॥
अघोरेणाथ शिष्याय दापयेद्भोक्तुमुत्तमम् ॥३२॥

उपस्पृश्य शुचिर्भूत्वा पुरुषं विधिना यजेत् ॥
पंचगव्यं ततः प्राश्य ईशानेनाभिमंत्रितम् ॥३३॥

वामदेवेन भस्मांगी भस्मनोद्धूलयेत्क्रमात् ॥
कर्णयोश्च जपेद्देवीं गायत्रीं रुद्रदेवताम् ॥३४॥

ससूत्रं सपिधानं च वस्त्रयुग्मेन वेष्टितम् ॥
तत्पूर्वं हेमरत्नौघैर्वासितं वै हिरण्मयम् ॥३५॥

कलशान्विन्यसेत्पंच पंचभिर्ब्राह्मणैस्ततः ॥
होमं च चरुणा कुर्याद्यथाविभवविस्तरम् ॥३६॥

शिष्यं च वासयेद्भक्तं दक्षिणे मंडलस्य तु ॥
दर्भशय्यासमारूढं शिवध्यानपरायणम् ॥३७॥

अघोरेण यथान्यायमष्टोत्तरशतं पुनः ॥
घृतेन हुत्वा दुःस्वप्नं प्रभाते शोधयेन्मलम् ॥३८॥

एवं चोपोषितं शिष्यं स्नातं भूषितविग्रहम् ॥
नववस्त्रोत्तरीयं च सोष्णीषं कृतमंगलम् ॥३९॥

दुकूलाद्येन वस्त्रेण नेत्रं बद्ध्वा प्रवेशयेत् ॥
सुवर्णपुष्पसंमिश्रं यताविभवविस्तरम् ॥४०॥

ईशानेन च मंत्रेण कुर्यात्पुष्पांजलिं प्रभोः ॥
प्रदक्षिणात्रयं कृत्वा रुद्राध्यायेन वा पुनः ॥४१॥

केवलं प्रणवेनाथ शिवध्यानपरायणः ॥
ध्यात्वा तु देवदेवेशमीशाने संक्षिपेत्स्वयम् ॥४२॥

यस्मिन्मंत्रे पतेत्पुष्पं तन्मंत्रस्तस्य सिध्यति ॥
शिवांभसा तु संस्पृश्य अवोरेण च भस्मना ॥४३॥

शिष्यमूर्धनि विन्यस्य गंधाद्यैः शिष्यमर्चयेत् ॥
वारुणं परमं श्रेष्ठं द्वारं वै सर्ववर्णिनाम् ॥४४॥

क्षत्त्रियाणां विशेषेण द्वारं वै पश्चिमं स्मृतम् ॥
नेत्रावरणमुन्मुच्य मंडलं दर्शयेत्ततः ॥४५॥

कुशासेन तु संस्थाप्य दक्षिणामूर्तिमास्थितः ॥
तत्त्वशुद्धिं ततः कुर्यात्पंचतत्त्वप्रकारतः ॥४६॥

निवृत्त्या रुद्रपर्यंतमंडमंजोद्भवात्मज ॥
प्रतिष्ठया तदूर्ध्वं च यावदव्यक्तगोचरम् ॥४७॥

विश्वेश्वरांतं वै विद्या कलामात्रेण सुव्रत ॥
तदूर्ध्वमार्गं संशोध्य शिवभक्त्या शिवं नयेत् ॥४८॥

समर्चनाय तत्त्वस्य तस्य भोगेश्वरस्य वै ॥
तत्त्वत्रयप्रभेदेन चतुर्भिरुत वा तथा ॥४९॥

होमयेदंगमंत्रभेण शांत्यतीरतं सदाशिवम् ॥
सद्यादिभिस्तु शांत्यंतं चतुर्भिः कलया पृथक् ॥५०॥

शांत्यतीतं मुनिश्रेष्ठ ईशानेनाथवा पुनः ॥
प्रत्येकमष्टोत्तरशतं दिशाहोमं तु कारयेत् ॥५१॥

ईशान्यां पंचमोनाथ प्रधानं परिगीयते ॥
समिदाज्यचरूँल्लाजान्सर्षपांश्च यवांस्तिलान् ॥५२॥

द्रव्याणि सप्त होतव्यं स्वाहांतं प्रणवादिकम् ॥
तेषां पूर्णाहुतिर्विप्र ईशानेन विधीयते ॥५३॥

सहंसेन यथान्यायं प्रणवाद्येन सुव्रत ॥
अघोरेण च मंत्रेण प्रायश्चित्तं विधीयते ॥५४॥

जयादिस्विष्टपर्यंतमग्निकार्यं क्रमेण तु ॥
गुणसंख्याप्रकारेण प्रधानेन च योजयेत् ॥५५॥

भूतानि ब्रह्मभिर्वापि मौनी बीजादिभिस्तथा ॥
अथ प्रधानमात्रेण प्राणापानौ नियम्य च ॥५६॥

षष्ठेन भेदयेदात्मप्रणवांतं कुलाकुलम् ॥
अन्योऽन्यमुपसंहृत्य ब्रह्माणं केशवं हरम् ॥५७॥

रुद्रे रुद्रं तमीशाने शिवे देवं महेश्वरम् ॥
तस्मात्सृष्टिप्रकारेम भावयेद्भवनाशनम् ॥५८॥

स्थाप्यात्मनममुं जीवं ताडनं द्वारदर्शनम् ॥
दीपनं ग्रहणं चैव बंधनं पूजया सह ॥५९॥

अमृतीकरणं चैव कारयेद्विधिपूर्वकम् ॥
पष्ठांतं सद्यसंयुक्तं तृतीयेन समन्वितम् ॥६०॥

फडंतं संहृतिः प्रोक्ता पंचभूतप्रकारतः ॥
सद्याद्यषष्ठसहितं शिखांतं सफडंतकम् ॥६१॥

ताडनं कथितं द्वारं तत्त्वानामपि योगिनः ॥
प्रधानं संपुटीकृत्य तृतीयेन च दीपनम् ॥६२॥

आद्येन संपुटीकृत्य प्रधानं ग्रहणं स्मृतम् ॥
प्रधानं प्रधानं प्रथमेनैव संपुटीकृत्य पूर्ववत् ॥६३॥

 बंधनं परिपूर्णेन प्लावनं चामृतेन च ॥
शांत्य तीता ततः शांतिर्विद्या नाम कलामला ॥६४॥

प्रतिष्ठा च निवृत्तिश्च कलासंक्रमणं स्मृता ॥
तत्त्ववर्णकलायुक्तं भुवनेन यथाक्रमम् ॥६५॥

मंत्रैः पादैः स्तवं कुर्याद्विशोध्य च यथाविधि ॥
आद्येन योनिबीजेन कल्पयित्वा च पूर्ववत् ॥६६॥

पूजासंप्रोक्षणं विद्धि ताडनं हरणं तथा ॥
संहतस्य च संयोगं विक्षेपं च यथाक्रमम् ॥६७

अर्चना च तथा गर्भधारणं जननं पुनः ॥
अधिकारो भवेद्भानोर्लयश्चैव विशेषतः ॥६८॥

उत्तमाद्यं तथांत्येन योनिबीजेन सुव्रत ॥
उद्दारे प्रोक्षणे चैव ताडने च महामुने ॥६९॥

अघोरेण फडंतेन संसृतिश्च न संशयः ॥
प्रतितत्त्वं क्रमो ह्येष योगमार्गेण सुव्रत ॥७०॥

मुष्टिना चैव यावच्च तावत्कालं नयेत्क्रमात् ॥
विषुवेण तु योगेन निवृत्त्यादि शिवांतिकम् ॥७१॥

एकत्र समतां याति नान्यथा तु पृथक्पृथक् ॥
नासाग्रे द्वादशांतेन पृष्ठेन सह योगिनाम् ॥७२॥

क्षंतव्यमिति विप्रेंद्र देवदेवस्य शासनम् ॥
हेमराजतताम्राद्यैर्विधिना कल्पितेन च ॥७३॥

सकूर्चेन सवस्त्रेण तंतुना वेष्टितेन च ॥
तीर्थांबुपूरितेनैव रत्नगर्भेण सुव्रत ॥७४॥

संहितामांत्रितेनैव रुद्राध्यायस्तुतेन च ॥
सेचयेच्च ततः शिष्यं शिवभक्तं च धार्मिकम् ॥७५॥

सोऽपि शिष्यः शिवस्याग्रे सुरोरग्रे च सादरम् ॥
वह्नेश्च दीक्षां कुर्वीत दीक्षितश्च तथाचरेत् ॥७६॥

वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा ॥
न त्वनभ्यर्च्य भुंजीयाद्भगवंतं सदाशिवम् ॥७७॥

एवं दीक्षा प्रकर्तव्या पूजा चैव यताक्रमम् ॥
त्रिकालमेककालं वा पूजयेत्परमेश्वरम् ॥७८॥

अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ॥
शिवलिंगार्चनस्यैते कलांशेनापि नो समाः ॥७९॥

सदा यजति यज्ञेन सदा दानं प्रयच्छति ॥
सदा च वायुभक्षश्च सकृद्योऽभ्यर्चयेच्छिवम् ॥८०॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥
योऽर्चयांति महादेवं ते रुद्रा नात्र संशयः ॥८१॥

नारुद्रस्तु स्पृसेद्रुद्रं नारुद्रो रुद्रमर्चयेत् ॥
नारुद्रः कीर्तयेद्रूद्रं नारुद्रो रुद्रमाप्नुयात् ॥८२॥

एवं संक्षेपतः प्रोक्तो ह्यधिकारिविधिक्रमः ॥
शिवार्चनार्थं धर्मार्थकाममोक्षफलप्रदः ॥८३॥

इति श्रीलिंङ्गमहापुराणे उत्तरभागे दीक्षाविधिर्नामैकविंशतितमोध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP