संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४३

उत्तरभागः - अध्यायः ४३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
लोकपालाष्टकं दिव्यं साक्षात्परमदुर्लभम् ॥
सर्वसंपत्करं गुह्यं परक्रविनाशनम् ॥१॥

स्वदेशरक्षणं दिव्यं गजवाजिविवर्धनम् ॥
पुत्र वृद्धिकरं पुण्यं गोब्राह्मणहितावहम् ॥२॥

पूर्वोक्तदेशकाले तु वेदिकोपरिमंडले ॥
मध्ये शिवं समभ्यर्च्य यथानायायं यथाक्रमम् ॥३॥

दिग्विदिक्षु प्रकर्तव्यं स्थंडिलं वालुकामयम् ॥
अष्टौ विप्रान्समभ्यर्च्य वेदवेदांगपारगान् ॥४॥

जितेंद्रियान्कुलोद्भूतान्सर्वलक्षणसंयुतान् ॥
शिवाभिमुखमासीनाऽनाहतेष्वंबरेषु च ॥५॥

वस्त्रैराभरणैर्दिव्यैर्लोकपालकमंत्रकैः ॥
गंधपुष्पैः सुधूपैश्च ब्राह्मणानर्चयेत्क्रमात् ॥६॥

पूर्वतो होमयेदग्नौ लोकपालकमंत्रकैः ॥
समिद्धृताभ्यां होतव्यमग्निकार्यं क्रमेण वा ॥७॥

एवं हुत्वा विधानेन आचार्यः शिववत्सलः ॥
यजमानं समाहूय सर्वाभरमभूषितान् ॥८॥

तेन तान्पूजयित्वाथ द्विजोभ्यो दापयेद्धनम् ॥
पृथक्पृथक्तन्मंत्रैश्च दशनिष्कं च भूषणम् ॥९॥

दशनीष्केण कर्तव्यमासनं केवलं पृथक् ॥
स्नपनं तत्र कर्तव्यं शिवस्य विधिपूर्वकम् ॥१०॥

दक्षिणा च प्रदातव्या यथाविभविस्तरम् ॥
एवं यः कुरुते दानं लोकेशानां तु भक्तितः ॥
लोकेशानां चिरं स्थित्वा सार्वभौमौ भवेद्बुधः ॥११॥

इति श्रीलिंगमहापुराणे उत्तरभागे त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP