TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः १३

उत्तरभागः - अध्यायः १३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः १३
सनत्कुमार उवाच ॥
भूयोऽपि वद मे नंदिन् महिमानमुमापते ॥
अष्टमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः ॥१॥

नंदिकेश्वर उवाच ॥
वक्ष्यामि ते महेशस्य महिमानमुमापतेः ॥
अष्टमूर्तेर्जगद्व्याप्य स्थितस्य परमेष्ठिनः ॥२॥

चराचराणां भूतानां धाता विश्वंभरात्मकः ॥
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ॥३॥

विश्वंभरात्मनस्तस्य सर्वस्य परमेष्ठिनः ॥
विकेशी कथ्यते पत्नी तनयोंगारकः स्मृतः ॥४॥

भव इत्युच्यते देवो भगवान्वेदवादिभिः ॥
संजीवनस्य लोकानां भवस्य परमात्मनः ॥५॥

उमा संकीर्तिता देवी सुतः शुक्रश्च सूरिभिः ॥
सप्तलोकांडकव्यापी सर्वलोकैकरक्षिता ॥६॥

वह्न्यात्मा भगवान्देवः स्मृतः पशुपतिर्बुधैः ॥
स्वाहा पत्न्यात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया ॥७॥

षणमुखो भगवान्देवो बुधैः पुत्र उदाहृतः ॥
समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम् ॥८॥

पवनात्मा बुधैर्देव ईशान इति कीर्त्यते ॥
ईशानस्य जगत्कर्तुर्देवस्य पवनात्मनः ॥९॥

शिवा देवी बुदैरुक्ता पुत्रश्चास्य मनोजवः ॥
चराचराणां भूतानां सर्वेषां सर्वकामदः ॥१०॥

व्योमात्मा भगवान्देवो भीम इत्युच्यते बुधैः ॥
महामहिम्नो देवस्य भीमस्य गगनात्मनः ॥११॥

दिशो दश स्मृता देव्यः सुतः सर्गश्च सूरिभिः ॥
सूर्यात्मा भगवान्देवः सर्वेषां च विभूतिदः ॥१२॥

रुद्र इत्युच्यते देवैर्भगवान् भुक्तिमुक्तिदः ॥
सूर्यात्म कस्य रुद्रस्य भक्तानां भक्तिदायिनः ॥१३॥

सुवर्चला स्मृता देवी सुतश्चास्य शनैश्चरः ॥
समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः ॥१४॥

सोमात्मको बुधैर्देवो महादेव इति स्मृतः ॥
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः ॥१५॥

दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरजः ॥
हव्यकव्यस्थितिं कुर्वन् हव्यकव्याशिनां तदा ॥१६॥

यजमानात्मको देवो महादेवो बुधैः प्रभुः ॥
उग्र इत्युच्यते सद्भिरीशानश्चेति चापरैः ॥१७॥

उग्राह्वयस्य देवस्य यजमानात्मनः प्रभोः ॥
दीक्षा पत्नी बुधैरुक्ता संतानाख्यः सुतस्तथा ॥१८॥

शरीरिणां शरीरेषु कठिनं कोंकणादिवत् ॥
पार्थिवं तद्वपुर्ज्ञेयं शर्वतत्त्वं बुभुत्सुभिः ॥१९॥

देहेदेहे तु देवेशो देहभाजां यदव्ययम् ॥
वस्तुद्रव्यात्मकं तस्य भवस्य परमात्मनः ॥२०॥

ज्ञेयं च तत्त्वविद्भिर्वै सर्ववेदार्थपारगैः ॥
आग्नेयः परिणामो यो विग्रहेषु शरीरिणाम् ॥२१॥

मूर्तिः पशुपतिर्ज्ञेया सा तत्त्वं वेत्तुमिच्छुभिः ॥
वायव्यः परिणामो यः शरीरेषु शरीरिणाम् ॥२२॥

बुधैरीशोति सा तस्य तनुर्ज्ञेया न संशयः ॥
सुषिरं यच्छरीरस्थमशेषाणां शरीरिणाम् ॥२३॥

भीमस्य सा तनुर्ज्ञेया तत्त्वविज्ञानकांक्षिभिः ॥
चक्षुरादिगतं तेजो यच्छरीरस्थमंगिनाम् ॥२४॥

रुद्रस्यापि तनुर्ज्ञेया परमार्थं बुभुत्सुभिः ॥
सर्वभूतशरीरेषु मनश्चंद्रात्मकं हि यत् ॥२५॥

महादेवस्य सा मूर्तिर्बोद्धव्या तत्त्वचिंतकैः ॥
आत्मा यो यजमानाख्यः सर्वभूतशरीरगः ॥२६॥

मूर्तिरुग्रस्य सा ज्ञेया परमात्मबुभुत्सुभिः ॥
जातानां सर्व भूतानां चतुर्दशसु योनिषु ॥२७॥

अष्टमूर्तेरनन्यत्वं वदंति परमर्षयः ॥
सप्तमूर्तिमयान्याहुरीशस्यांगानि देहिनाम् ॥२८॥

आत्मा तस्याष्टमी मूर्तिः सर्वभूतशरीरगा ॥
अष्टमूर्तिममुं देवं सर्वलोकात्मकं विभुम् ॥२९॥

भजस्व सर्वभावेन श्रेयः प्राप्तुं यदीच्छसि ॥
प्राणिनो यस्य कस्यापि क्रियते यद्यनुग्रहः ॥३०॥

अष्टमूर्तेर्महेशस्य कृतमाराधनं भवेत् ॥
निग्रहश्चेत् कृतो लोके देहिनो यस्य कस्यचित् ॥३१॥

अष्टमूर्तेर्महेशस्य स एव विहितो भवेत् ॥
यद्यवज्ञा कृता लोके यस्य कस्य चिदंगिनः ॥३२॥

अष्टमूर्तेर्महे शस्य विहिता सा भवेद्विभोः ॥
अभयं यत् प्रदत्तं स्यादंगिनो वस्य कस्यचित् ॥३३॥

आराधनं कृतं तस्मादष्टमूर्तेर्न संशयः ॥
सर्वोपकारकरणं प्रदानमभयस्य च ॥३४॥

आराधनं तु देवस्य अष्टमूर्तेर्न संशयः ॥
सर्वोपकारकरणं सर्वानुग्रह एव च ॥३५॥

तदर्चनं परं प्राहुरष्टमूर्तेर्मुनीश्वराः ॥
अनुग्रहणमन्येषां विधातव्यं त्वयांगिनाम् ॥३६॥

सर्वाभयप्रदानं च शिवाराधनमिच्छता ॥३७॥

इति श्रीलिंगमहापुराणे उत्तरभागे त्रयोदशोऽध्यायः ॥१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:29.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दोहेरा

  • वि. दुहेरी . [ हिं . ] 
  • ०पट पु. ( कुस्ती ) जोडीदाराच्या दोन्ही गुढघ्यांच्या लवणीत हात घालून आपले डोके पोटास टेकून जोडीदारास एकदम आपटणे . [ दुहेरी + पटकणे ] 
RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site