TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः १

उत्तरभागः - अध्यायः १

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १
अथ श्रीसटीकलिंगमहापुराणोत्तरभागप्रारंभः ॥

श्रीगणेशाय नमः ॥

ऋषय ऊचुः ॥
कृष्मस्तुष्यति केनेह सर्वदेवश्वरेश्वरः ॥
वक्तुमर्हासि चास्माकं सूत सर्वाथविद्भवान् ॥१॥

सूत उवाच ॥
पुरा पुष्टो महातेजा मार्कंडेयो महामुनिः ॥
अंबरीषेण विप्रेंद्रास्तद्वदामि यथातथम् ॥२॥

अंबरीष उवाच ॥
मुने समस्तधर्माणां पारगस्त्वं महामते ॥
मार्कंडेय पुराणोऽसि पुराणार्थविशारदः ॥३॥

नारायणानां दिव्यानां धर्माणां श्रेष्ठमुत्तमम् ॥
तत्किं ब्रूहि महाप्राज्ञभक्तानामिह सुव्रत ॥४॥

सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा समुत्थाय कृतांजलिः ॥
स्मरन्नारायणं देवं कृष्णमच्युतमव्ययम् ॥५॥

मार्कंडेय उवाच ॥
श्रृणु भूप यथान्यायं पुण्यं नारायणात्मकम् ॥
स्मरणं पूजनं चैव प्रणामो भक्तिपूर्वकम् ॥६॥

प्रत्येकमश्वमेधस्य यज्ञस्य सममुच्यते ॥
य एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ॥७॥

यस्माद्ब्रह्मा ततः सर्वं समाश्रित्यैव मुच्यते ॥
धर्ममेकं प्रवक्ष्यामि यद्दृष्टं विदितं मया ॥८॥

पुरा त्रेतायुगे कश्चित् कौशिको नाम वै द्विजः ॥
वासुदेवपरो नित्यं सामगानरतः सदा ॥९॥

भोजनासन शय्यासु सदा तद्गतमानसः ॥
उदाचरितं विष्णोर्गायमानः पुनः पुनः ॥१०॥

विष्णोः स्थलं समासाद्य हरेः क्षेत्रमनुत्तमम् ॥
अगायत हरिं तत्र तालवर्णलयान्वितम् ॥११॥

मूर्च्छनास्वरयोगेन श्रुतिभेदेन भेदितम् ॥
भक्तियोगं समापन्नो भिक्षामात्रं हि तत्र वै ॥१२॥

तत्रैवं गायमानं च दृष्ट्वा कश्चिद्द्विजस्तदा ॥
पद्माख्य इति विख्यातस्तस्मै चान्नं ददौ तदा ॥१३॥

सकुटुंबो महातेजा ह्युष्णमन्नं हि तत्र वै ॥
कौशिको हि ताद हृष्टो गायन्नास्ते हरिं प्रभुम् ॥१४॥

श्रृण्वन्नास्ते स पद्माख्यः काले विनिर्गतः ॥
कालयोगेन संप्राप्ताः शिष्या वै कौशिकस्य च ॥१५॥

सप्त राजन्यवैश्यानां विप्राणां कुलसंभवाः ॥
ज्ञानविद्याधिकाः शुद्धा वासुदेवपरायणाः ॥१६॥

तेषामवितथान्नाद्यं पद्माक्षः स्वयम् ॥
शिष्यैश्च सहितो नित्यं कौशिको हृष्टमानसः ॥१७॥

विष्णुस्थले हरिं तत्र आस्ते गायन्यथाविधि ॥
तत्रैव मालवो नाम वैश्यो विष्णुपरायणः ॥१८॥

दीपमालां हरेर्नित्यं करोति प्रीतिमानसः ॥
मालवी नाम भार्या च तस्य नित्यं पतिव्रता ॥१९॥

गोमयेन समालिप्य हरेः क्षेत्रं समंततः ॥
भर्त्रा सहास्ते सुप्रीता श्रृण्वती गानमुत्तमम् ॥२०॥

कुशस्थलात्समापन्ना ब्राह्मणाः शंसितव्रताः ॥
पंचाशद्वै समापन्ना हरेर्गानार्थमुत्तमाः ॥२१॥

साधयंतो हि कार्याणि कौशिकस्य महात्मनः ॥
ज्ञानविद्यार्थतत्त्वज्ञाः श्रृण्वंतो ह्यवसंस्तु ते ॥२२॥

ख्यातमासीत्तदा तस्य गानं वै कौशिकस्य तत् ॥
श्रुत्वा राजा समभ्येत्य कलिंगो वाक्यमब्रवीत् ॥२३॥

कौशिकाद्य गणैः सार्धं गायस्वेह च मां पुनः ॥
श्रृणुध्वं च तथा यूयं कुशस्थलजना अपि ॥२४॥

तच्छ्रुत्वा कौशिकः प्राह राजानं सांत्वया गिरा ॥
न जिह्वा मे महाराजन् वाणी च मम सर्वदा ॥२५॥

हरेरन्यमपिंद्रं वा स्तौति नैव च वक्ष्यति ॥
एवमुक्ते तु तच्छिष्यो वासिष्ठो गौतमो हरिः ॥२६॥

सारस्वतस्तथा चित्रश्चित्रमाल्यस्तथा शिशुः ॥
ऊचुस्ते पार्थिवं तद्वद्यथा प्राह च कौशिकः ॥२७॥

श्रवकास्ते तथा प्रोचुः पार्थिवं विष्णुतत्पराः ॥
श्रोत्राणीमानि शृण्वंति हरेरन्यं न पार्थिव ॥२८॥

गानकीर्तिं वयं तस्य शृणुमोन्यां न च स्तुतिम् ॥
तच्छ्रुत्वा पार्थिवो रुष्टो गायतामिति चाब्रवीत् ॥२९॥

स्वभृत्यान्ब्राह्मणा ह्येते कीर्तिं श्रृण्वंति मे यथा ॥
न श्रृण्वंति कथं तस्मात् गायमाने समंततः ॥३०॥

एव मुक्तास्तदा भृत्या जगुः पार्थिवमुत्तमम् ॥
निरुद्धमार्गा विप्रास्ते गाने वृत्ते तु दुःखिताः ॥३१॥

काष्ठसंकुभिरन्योन्यं श्रोत्राणि विदधुर्द्विजाः ॥
कौसिकाद्याश्च तां ज्ञात्मवा मनोवृत्तिं नृपस्य वै ॥३२॥

प्रसह्यास्मांस्तु गायेत स्वगानेसौ नृपः स्थितः ॥
इति विप्राः सुनियता जिह्वाग्रं चिच्छिदुः करैः ॥३३॥

ततो राजा सुसंक्रुद्धः स्वदेशात्तान्न्यवासयत् ॥
आदाय सर्वं वित्तं च ततस्ते जग्मुरुत्तराम् ॥३४॥

दिशमासाद्य कालेन कालधर्मेणयोजिताः ॥
तानागतान्यमो दृष्ट्वा किं कर्तव्यमिति स्म ह ॥३५ ॥

चोष्टितं तत्क्षणे राजन् ब्रह्मा प्राह सुराधिपान् ॥
कौशिकादीन् द्विजानद्य वासयध्वं यथासुखम् ॥३६ ॥

गानयोगेन ये नित्यं पूजयंति जनार्दनम् ॥
तानानयत भद्रं वो यदि देवत्वमिच्छथ ॥३७॥

इत्युक्ता लोकपालस्ते कौशिकेति पुनः पुनः ॥
मालवेति तथा केचित् पद्माक्षेति तथा परे ॥३८॥

क्रोशमानाः समभ्येत्य तानादाय विहायसा ॥
ब्रह्मलोकं गताः शीघ्रं मुहूर्तेनैव ते सुराः ॥३९॥

कौशिकादींस्ततो दृष्ट्वा ब्रह्मा लोकपितामहः ॥
प्रत्युद्गम्य यथान्यायं स्वागतेनाभ्यपूजयत् ॥४०॥

ततः कोलाहलमभूदतिगौरवमुल्बणम् ॥
ब्रह्मणा चरितं दृष्ट्वा देवानां नृपसत्तम ॥४१॥

हिरण्यगर्भो भगवांस्तान्निवार्य सुरोत्तमान् ॥
कौशिकादीन्समादाय मुनीन् देवैः समावृतः ॥४२॥

विष्णुलोकं ययौ शीघ्रं वासुदेवपरायणः ॥
तत्र नारायणोदेवः श्वेतद्वीपनिवासिभिः ॥४३॥

ज्ञानयोगेश्वरैः सिद्धैर्विष्णुभक्तैः समाहितैः ॥
नारायणसमैर्दिव्यैश्चतुर्बाहुधरैः शुभैः ॥४४॥

विष्णुचिह्नसमापन्नैर्दीप्यमानैरकल्मषैः ॥
अष्टाशीतिसहस्रैश्च सेव्यमानो महाजनैः ॥४५॥

अस्माभिर्नारदाद्यैश्च सनकाद्यैरकल्मषैः ॥
भूतैर्नानाविधैश्चैव दिव्यस्त्रीभिः समंततः ॥४६॥

सेव्यमानोथ मध्ये वै सहस्रद्वारसंवृते ॥
सहस्रयोजनायामे दिव्ये मणिमये शुभे ॥४७॥

विमाने विमले चित्रे भद्रपीठासने हरिः ॥
लोककार्ये प्रसक्तानां दत्तदृष्टिश्च माधवः ॥४८॥

तस्मिन्कालेऽथ भगवान् कौशिकाद्यैश्च संवृतः ॥
आगम्य प्रणिपत्याग्रे तुष्टाव गरुडध्वजम् ॥४९॥

ततो किलोक्य भगवान् हरिर्नारायणः प्रभुः ॥
कौशिकेत्याह संप्रीत्या तान्सर्वांश्च यथाक्रमम् ॥५०॥

जयघोषो महानसीन्महाश्चर्ये समागते ॥
ब्रह्माणमाह विश्वात्मा श्रृणु ब्रह्मन् मयोदितम् ॥५१॥

कौशिकस्य इमे विप्राः साध्याधनतत्पराः ॥
हिताय संप्रवृत्ता वै कुशस्थलनिवासिनः ॥५२॥

मत्कीर्तिश्रवणे युक्ता ज्ञानतत्त्वार्थकोविदाः ॥
अनन्यदेवताभक्ताः साध्या देवा भवंत्विमे ॥५३॥

दिव्यरूपधरः श्रीमान् श्रृण्वन्गानमिहाधिपः ॥
आस्व नित्यं यथाकामं यावल्लोका भवंति वै ॥५४॥

पद्माक्षमाह भगवान् धनदो भवमाधवः ॥
धनानामीश्वरो भूत्वा यथाकालं हि मां पुनः ॥५५॥

मालबं मालवीं चैवं प्राह दामोदरो हरिः ॥
मम लोके यथाकालं भार्यया सह मालव ॥५६॥

दिव्यरूपधरः श्रीमान् श्रृण्वन्गानमिहाधिपः ॥
आस्व नित्यं यथाकामं यावल्लोका भवंति वै ॥५७॥

पद्माक्षमाह भगवान् धनदो भवमाधवः ॥
धनानामीश्वरो भूत्वा यथाकालं हि मां पुनः ॥५८॥

आगम्य दृष्ट्वा मां नित्यं कुरु राज्यं यथासुखम् ॥
एवमुक्त्वा हरिर्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥५९॥

कौशिकस्यास्य गानेन योगनिद्रा च मे गता ॥
विष्णुस्थले च मां स्तौति शिष्यैरेष समन्ततः ॥६०॥

राज्ञा निरस्तः क्रूरेण कलिंगेन महीयसा ॥
स जिह्वाच्छेदनं कृत्वा हरेरन्यं कथंचन ॥६१॥

न स्तोष्यामीति नियतः प्राप्तोसौ मम लोकताम् ॥
एते च विप्रा नियता मम भक्ता यशस्विनः ॥६२॥

श्रोत्रच्छिद्रमथाहत्य शंकुभिर्वै परस्परम् ॥
श्रोष्यामो नैव चान्यद्वै हरेः कीर्तिमितिस्म ह ॥६३॥

एते विप्रास्च देवत्वं मम सान्निध्यमेव च ॥
मालवो भार्यया सार्धं मत्क्षेत्रं परिमृज्य वै ॥६४॥

दीपमालादिभिर्नित्यमभ्यर्च्य सततं हि माम् ॥
गानं शृणोति नियतो मत्कीर्तिचरितान्वितम् ॥६५॥

तेनासौ प्राप्तवाँल्लोकं मम ब्रह्मा सनातनम् ॥
पद्माक्षोसौ ददौ भोज्यं कौशिकस्य महात्मनः ॥६६॥

धनेशत्वमवाप्तोसौ मम सान्निध्यमेव च ॥
एवमुक्त्वा हरिस्तत्र समाजे लोकपूजितः ॥६७॥

तस्मिन् क्षणे समापन्ना मधुराक्षरपेशलैः ॥
विपंचीगुणतत्त्वज्ञैर्वाद्यविद्याविशारदैः ॥६८॥

मंदं मंदस्मिता देवी विचित्राभरणान्विता ॥
गायमाना समायाता लक्ष्मीर्विष्णुपरिग्रहा ॥६९॥

वृता सहस्रकोटीभिरंगनाभिः समंततः ॥
ततो गणाधिपा दृष्ट्वा भुशुंडीपरिघायुधाः ॥७०॥

ब्रह्मादींस्तर्जयंतस्ते मुनीन्देवान्समंततः ॥
उत्सारयंतः संहृष्टा धिष्ठिताः पर्वतोपमाः ॥७१॥

सर्वे वयं हि निर्याताः सार्धं वै ब्रह्मणा सुरैः ॥
तस्मिन् क्षणे समाहूतस्तुंबरुर्मुनिसत्तमः ॥७२॥

प्रविवेश समीपं वै देव्या देवस्य चैव हि ॥
तत्रासीनो यथायोगं नानामूर्च्छासमन्वितम् ॥७३॥

जगौ कलपदं हृष्टो विपंचीं चाभ्यवादयत् ॥
नानारत्नसमायुक्तैर्दिव्यैराभरणोत्तमैः ॥७४॥

दिव्यमाल्यैस्तथा शुभ्रैः पूजितो मुनिसत्तमः ॥
निर्गतस्तुंबरुर्हृष्टो अन्ये च ऋषयः सुराः ॥७५॥

दृष्ट्वा संपूजितं यांतं यथायोगमरिंदम ॥
नारदोथ मुनिर्दृष्ट्वा तुंबरोः सत्क्रियां हरेः ॥७६॥

शोकाविष्टेन मनसा संतप्तहृदयेक्षणः ॥
चिंतामापेदिवांस्तत्र शोकमूर्च्छाकुलात्मकः ॥७७॥

केनाहं हि हरेत्यास्ये योगं देवीसमीपतः ॥
अहो तुंबरुणा प्राप्तं धिङ्मां मूढं विचेतसम् ॥७८॥

योहं हरेः सन्निकाशं भूतैर्निर्यातितः कथम् ॥
जीवन्यास्यामि कुत्राहमहो तुंबरुणा कृतम् ॥७९॥

इति संचिंतयन् विप्रस्तप आस्थितवान्मुनिः ॥
दिव्यं वर्षसहस्रं तु निरुचच्छ्वाससमन्वितः ॥८०॥

ध्यायन्विष्णुमथाध्यास्ते तुंबरोः सत्क्रियां स्मरन् ॥
रोदमानो मुहुर्विद्वान् धिङ्मामिति च चिंतयन् ॥८१॥

तत्र यत्कृतवान्विष्णुस्तच्छृणुष्व नराधिप ॥८२॥

इति श्रीलिंगमहापुराणे उत्तरभागे कौशिकवृत्तकथनं नाम प्रथमोध्यायः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:29.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आचकण

  • स्त्री. अचकन पहा . अंगरखा . ' राजेसाहेबांनीं एक ढिली विजार व आचकण असा अगदी साधा पोषाक केला होता .' - किर्लो दिवाळी २४७ . 
RANDOM WORD

Did you know?

relatives kiva veh itar lokanchya divsache bhojan ghyave ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site