TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २५

उत्तरभागः - अध्यायः २५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


अध्यायः २५
शैलादिरुवाच ॥
शिवाग्निकार्यं वक्ष्यामि शिवेन परिभाषितम् ॥
जनयित्वाग्रतः प्राचीं शुभे देशे सुसंस्कृते ॥१॥

पूर्वाग्रमुत्तराग्रं च कुर्यात्सूत्रत्रयंशुभम् ॥
चतुरस्त्रीकृते क्षेत्रे कुर्यात्कुंडानि यत्नतः ॥२॥

नित्यहोमाग्निकुंडं च त्रिमेखलसमायुतम् ॥
चतुस्त्रिद्व्यंगुलायामा मेखला हस्तमात्रतः ॥३॥

हस्तमात्रं भवेत्कुंडं योनिः प्रादेशमात्रतः ॥
अश्वत्थपत्रवद्योनीं मेखलोपरि कल्पयेत् ॥४॥

कुंडमध्ये तु नाभिः स्यादष्टपत्रं सकर्णिकम् ॥
प्रादेशमात्रं विधिना कारयेद्ब्रह्मणः सुत ॥५॥

षष्ठेनोल्लेखनं प्रोक्तं प्रोक्षणं वर्मणा स्मृतम् ॥
नेत्रेणालोक्य वै कुंडं षड्रेखाः कारयेद्बुधः ॥६॥

प्रागायतेन विप्रेंद्र ब्रह्मविष्णुमहेश्वराः ॥
उत्तराग्राः शिवा रेखाः प्रोक्षयेद्वर्मणा पुनः ॥७॥

शमीपिप्पलसंभूतामरणीं षोडशांगुलाम् ॥
मथित्वा वह्निबीजेन शक्तिन्यासं हृदैव तु ॥८॥

प्रक्षिपेद्विधिना वह्निमन्वाधाय यथाविधि ॥
तूष्णीं प्रादेशमात्रैस्तु याज्ञिकैः शकलैः शुभैः ॥९॥

परिसंमोहनं कुर्याज्जलेनाष्टसु दिक्षु वै ॥
परिस्तीर्य विधानेन प्रागाद्येवमनुक्रमात् ॥१०॥

उत्तराग्रं पुरस्ताद्धि प्रागग्रं दक्षिणे पुनः ॥
पश्चिमे चोत्तराग्रं तु सौम्ये पूर्वाग्रमेव तु ॥११॥

ऐन्द्रे चैन्द्राग्रमावाह्य याम्य एवं विधीयते ॥
सौम्यस्योपरिचांद्राग्नं वारुणाग्नमधस्ततः ॥१२॥

द्वंद्वरूपेण पात्राणि बर्हःष्वासाद्य सुव्रत ॥
अधोमुखानि सर्वाणि द्रव्याणि च तथोत्तरे ॥१३॥

तस्योपरि न्यसेद्दर्भाञ्छिवं दक्षिणतोन्यसेत् ॥
पूजयेन्मूलमंत्रेण पश्चाद्धोमं समाचरेत् ॥१४॥

प्रोक्षणीपात्रमादाय पूरयेदंबुना पुनः ॥
प्रादेसमात्रौ तु कुशौ स्थापयेदुदकोपरि ॥१५॥

प्लावयेच्च कुशाग्रं तु वसोः सूर्यस्य रश्मिभिः ॥
विकीर्य सर्वपात्राणि सुसंप्रोक्ष्य विधानतः ॥१६॥

प्रणीतापात्रमादाय पूरयेदंबुना पुनः ॥
अन्योदककुशग्रैस्तु सम्यगाच्छाद्य सुव्रत ॥१७॥

हस्ताभ्यां नासिकं पात्रमैशान्यां दिशि विन्यसेत् ॥
आज्याधिश्रयणं कुर्यात्पश्चिमोत्तरतः शुभम् ॥१८॥

भस्ममिश्रांस्तथांगारान् ग्राहयेत्सकलेन वै ॥
पश्चिमोत्तरतो नीत्वा तत्र चाज्यं प्रतापयेत् ॥१९॥

कुशानग्नौ तु प्रज्वाल्य पर्यग्निं त्रिभिराचरेत् ॥
तान्सर्वांस्तत्र निःक्षिप्य चाग्रे चाज्यं निधापयेत् ॥२०॥

अंगुष्ठमात्रौ तु कुशौ प्रक्षाल्य विधिनैव तु ॥
पर्यग्निं च ततः कुर्यात्तैरेव नवभिः पुनः ॥२१॥

पर्यग्निं च पुनः कुर्यात्तदाज्यमवरोपयेत् ॥
अथापकर्षयेत् पात्रं क्रमेणोत्तरपश्चिमे ॥२२॥

संयुज्य चाग्निं काष्ठेन प्रक्षाल्यारोप्य पश्चिमे ॥
आज्यस्योत्पवनं कुर्यात्पवित्राभ्यां सहैव तु ॥२३॥

पृथगादाय हस्ताभ्यां प्रवाहेण यथाक्रमम् ॥
अंगुष्ठानामिकाभ्यां तु उभाभ्यां मूलविद्यया ॥२४॥

अभ्युक्ष्य दापयेदग्नौ पवित्रे घृतपंकिते ॥
सौवर्णं स्रुक्स्रुवं कुर्याद्रत्निमात्रेण सुव्रत ॥२५॥

राजतं वा यथान्यायं सर्वलक्षणसंयुतम् ॥
अथवा याज्ञिकैर्वृक्षैः कर्तव्यौ स्रुक्स्रुवा वुभौ ॥२६॥

अरत्निमात्रमायामं तत्पोत्रे तु बिलं भवेत् ॥
षडंगुलपरीणाहं दंडमूलं महामुने ॥२७॥

तदर्धं कंठानालं स्यात्पुष्करं मूलवद्भवेत् ॥
गोवालसदृशं दंडं म्रुवाग्रं नासिकासमम् ॥२८॥

पुटद्वयसमायुक्तं मुक्ताद्येन प्रपूरितम् ॥
षट्त्रिंशदंगुलायाममष्टांगुलसविस्तरम् ॥२९॥

उत्सेधस्तु तदर्धं स्यात्सूत्रेण समितं ततः ॥
सप्तांगुलं भवेदास्यं विस्तरायामतः पुनः ॥३०॥

त्रिभागैकं भवेदग्रं कृत्वा शेषं परित्यजेत् ॥
कंठं च द्व्यंगुलायामं विस्तारं चतुरंगुलम् ॥३१॥

वेदिरष्टांगुलायामाविस्तारस्तत्प्रमाणतः ॥
तस्य मध्ये बिलं कुर्याच्चतुरंगुलमानतः ॥३२॥

बिलं सुवर्तितं कुर्यादष्टपत्रं सुकर्णिकम् ॥
परितो बिलबाह्ये तु पट्टिकार्धांगुलेन तु ॥३३॥

तद्ब्राह्मे च विनिदं तु पद्मपत्रविचित्रितम् ॥
यवद्वयप्रमाणेन तद्ब्राह्मे पट्टिका भवेत् ॥३४॥

वेदिकामध्यतो रंध्रं कनिष्ठांगुलमानतः ॥
खातं यावन्मुखांतः स्याद्बिलमानं तु निम्रगम् ॥३५॥

दंडं षडंगुलं नालं दंडाग्रे दंडिकात्रयम् ॥
अर्धांगुलविवृद्ध्यातु कर्तव्यं चतुरंगुलम् ॥३६॥

त्रयोदशांगुलायामं दंडमूले घटं भवेत् ॥
द्व्यंगुलस्तु भवेत्कुंभो नाभिं विद्याद्दशांगुलम् ॥३७॥

वेदिमध्ये तथा कृत्वा पादं कुर्याच्च द्व्यंगुलम् ॥
पद्मपटष्ठसमाकारं पादं वै कर्णिकाकृतिम् ॥३८॥

गजोष्ठसदृशाकारं तस्य पृष्ठाकृतिर्भवेत् ॥
अभिचारादिकार्येषु कुर्यात्कृष्णायसेन तु ॥३९॥

पंचविंशत्कुशेनैव स्रुक्स्रु मार्जयेत्पुनः ॥
अग्रमग्रेण संशोध्य मध्यं मध्येन सुव्रत ॥४०॥

मूलं मूलेन विधिना अग्नौ ताप्य हृदा पुनः ॥
आज्यस्थाली प्रणीता च प्रोक्षणी तिस्र एव च ॥४१॥

सौवर्णी राजती वापि ताम्री वा मृन्मयी तु वा ॥
अन्यथा नैव कर्तव्यं शांतिके पौष्टिके शुभे ॥४२॥

आयसी त्वभिचारे तु शांतिके मृन्मयी तु वा ॥
षडंगुलं सुविस्तीर्णं पात्राणां मुखमुच्यते ॥४३॥

प्रोक्षणी द्व्यंगुलोत्सेधा प्रणीता द्व्यंगुलाधिका ॥
आज्यस्थाली ततस्तस्या उत्सेधो द्व्यंगुलाधिकः ॥४४॥

यैः समिद्भिर्हुतं प्रोक्तं तैरेव परिधिर्भवेत् ॥
मध्यांगुलपरीणाहा अवक्रा निर्व्रणाः समाः ॥४५॥

द्वात्रिंशदंगुलायामास्तिस्रः परिधयःस्मृताः ॥
द्वात्रिंशदंगुलायामैस्त्रिंशद्दर्भैः परिस्तरेत् ॥४६॥

चतुरंगुलमध्ये तु ग्रथितं तु प्रदाक्षिणम् ॥
अभिचारादिकार्येषु शिवाग्न्याधानवर्जितम् ॥४७॥

अकोमलाः स्थिरा विप्र संग्राह्यस्त्वाभिचारिके ॥
समग्राः सुसमाः स्थूलाः कनिष्ठांगुलसंमिताः ॥४८॥

अवक्रानिर्व्रणाः स्रिग्धा द्वादशांगुलसंमिताः ॥
समिधस्थं प्रमाणं हि सर्वकार्येषु सुव्रत ॥४९॥

गव्यं घृतं ततः श्रेष्ठ कापिलं तु ततोऽधिकम् ॥
आहुतीनां ग्रमणं तु म्रुवं पूर्णं यथा भवेत् ॥५०॥

अन्नमक्षप्रमाणं स्याच्छुक्तिमात्रेण वै तिलः ॥
यवानां च तदर्धं स्यात्फलानां स्वप्रमाणतः ॥५१॥

क्षिरस्य मधुनो दध्नः प्रमाणं घृतवद्भवेत् ॥
चतुःम्रुवप्रमाणेन म्रुचा पूर्णाहुतिर्भवेत् ॥५२॥

तदर्धं स्विष्टकृत्प्रोक्तं शेषं सर्वमथापि वा ॥
शांतिकं पौष्टिकं चैव शिवाग्नौ जुहुयात्सदा ॥५३॥

लौकिकाग्नौ महाभाग मोहनोच्चाटनादयः ॥
शिवाग्निं जनयित्वा तु सर्वकर्माणे सुव्रत ॥५४॥

सप्त जिह्वाः प्रकल्प्यैव सर्वकार्याणि कारयेत् ॥
अथवा सर्वकार्याणि जिह्वामात्रेण सिध्यति ॥५५॥

शिवाग्निरिति विप्रेंद्रा जिह्वामात्रेण साधकः ॥५६॥

ॐ बहुरूपायै मध्यजिह्वायै अनेकवर्णायै दक्षिणोत्तरमध्यगायै शांतिपौष्टिकमोक्षादिफलप्रदायै स्वाहा ॥५७॥

ॐ हिरण्यायै चामीकराभायै ईशानजिह्वायै ज्ञानप्रदायै स्वाहा ॥५८॥

ॐ कनकायै कनकनिभायै रम्यायै ऐंद्रजिह्वायै स्वाहा ॥५९॥

ॐ रक्तायै रक्तवर्णायै आग्नेयजिह्वायै अनेकवर्णायै विद्वेषणमोहनायै स्वाहा ॥६०॥

ॐ कृष्णायै नैर्ऋतजिह्वायै मारणायै स्वाहा ॥६१॥

ॐ सुप्रभायैपश्चिमजिह्वायै मुक्ताफलायै शांतिकायै पौष्टिकायै स्वाहा ॥६२॥

ॐ अभिव्यक्तायै वायव्यजिह्वायै शत्रूच्चाटनायै स्वाहा ॥६३॥

ॐ वह्नये तेजस्विने स्वाहा ॥६४॥

एतावद्वह्निसंस्कारमथवा वह्निकर्मसु ॥
नैमित्तिके च विधिना शिवाग्निं कारयेत्पुनः ॥६५॥

निरीक्षणं प्रोक्षणं ताडनं च षष्ठेन फडंतेन अभ्युक्षणं चतुर्थेन खननोत्किरणं षष्ठेन पूरणं समीकरणमाद्येन सेचनं वौषडंतेन कृट्टनं षष्ठेन संमार्जनोपलेपने तुरीयेण कुंडपरिकल्पनं निवृत्त्या त्रिभिरेव कुंडपरिधानं चतुर्थेन कुंडार्चनमाद्येन रेखाचतुष्टयसपादनं षष्ठेन फडंतेन वज्रीकरणं चतुष्पदापादनमाद्येन एवं कुंडसंस्कारमष्टादशविधम् ॥६६॥

कुंडसंस्कारानंतरमक्षपाटनं षष्ठेन विष्टरन्यासमाद्येन वज्रासने वागीश्वर्यावाहनम् ॥२५.६७॥

ॐ ह्रीं वागीश्वरीं श्यामवर्णां विशालाक्षीं यौवनोन्मत्तविग्रहाम् ॥
ऋतुमतीं वागीश्वरशक्तिमावाहयामि ॥६८॥

वागीश्वरीं पूजयामि ॥६९॥

ॐ ईं वागीश्वराय नमः ॥
आवाहनस्थापनसन्निधानसन्निरोधपूजांतं वागीश्वरीं संभाव्य गर्भाधानवह्निसंस्कारम् ॥७०॥

एकवक्त्रं चतुर्भुजं शुद्धस्फटिकाभं वरदाभयहस्तं परशुमृगधरं जटामुकुटमंडितं सर्वाभरणभूषितमावाहयामि ॥७१॥

ॐ ईं वागीश्वराय नमः ॥
आवाहनस्थापनसन्निधानसन्निरोधपूजांतं वागीश्वरीं संभाव्य गर्भाधानवह्निसंस्कारम् ॥७२॥

अरणीजनितं कांतोद्भवंवा अग्निहोत्रजंवा ताम्रपात्रेशरावेवा आनीय निरीक्षणताडनाभ्युक्षणप्रक्षालनमाद्येनक्रव्यादाशिवपरित्यागोपि प्रथमेन वह्नेस्त्रैकारणं जठरभ्रूमद्यादावाह्यग्निं वैकारणमूर्तावाग्नेयेन उद्दीपनमाद्येन पुरषेण संहितया धारणा धेनुमुद्रां तुरीयेणावगुंठ्य जानुभ्यामवनिं गत्वा शरावोत्थापनं कुंडोपरि निधाय प्रदक्षिणमावर्त्य तुरीयेणात्मसम्मुखां वागीश्वरीं गर्भनाड्यां गर्भाधानांतरीयेण कमलप्रदानमाद्येन वौषडंतेन कुशार्घ्यं दत्त्वा इंधनप्रदानमाद्येन प्रज्वालनं गर्भाधानं चसद्येनाद्येन पूजनं वामेन पूजनं द्वितीयेन सीमंतोन्नयनमघोरेणतृतीयेन पूजनम् ॥७३॥

अवयवव्याप्तिक्त्रोदनं वक्त्रनिष्कृतिरिति तृतीयेन गर्भजातकर्मपुरुषेण पूजनं तुरीयेम षष्ठेन प्रोक्षणं सूतकशुद्धये चाग्निसूनुरक्षाकुसास्त्रेण वक्त्रेणाऽग्नौ मूलमीसाग्रं नैर्ऋतिमूलं वायव्याग्रं वायव्यमूलमीशाग्रमिति कुशास्तरममितिपूर्वोक्तमिध्ममग्रमूलघृताक्तं लालापनोदाय षष्ठेन जुहुयात् ॥७४॥

पंचपूर्वातिक्रमेण परिधिविष्टरन्यासोऽपि आद्येन विष्टरोपरि हिरण्यगर्भहरनारायणानपि पूजयेत् ॥७५॥
इंद्रादिलोकपालांश्च पूजयेत् ॥७६॥

वज्रावर्तपर्यंतानपि पूजयेत् ॥७७॥

वागीश्वरवागीश्वरीपूजाद्येनमुद्वास्य हुतं विसर्जयेत् ॥७८॥

स्रक्स्रुवसंस्कारमथो निरीक्षणप्रोक्षमताडनाभ्युक्षणादीनि पूर्ववत् स्रक् स्रुवं च हस्तद्वये गृहीत्वा संस्थापनमाद्येन ताडनमपि स्रुक्स्रुवोपरि दर्भानुलेखनमूलमद्यमाऽग्रेण त्रित्वेन स्रक्शाक्ति स्रुवमपि शंभुं दक्षिणपार्श्वे कुशोपरि शक्तये नमः शंभवे नमः ॥७९॥
ततो ह्यन्तिसूत्रेण स्रुक्स्रुवौ तुरीयेम वेष्टयेदर्चयेच्च ॥८०॥

धेनुमुद्रां दर्शायित्वा तुरीयेणावगुंठ्य षष्ठेन रक्षां विधाय स्रुक्स्रुवसंस्कारः पूर्वमेवोक्तः ॥८१॥

पुनराज्यसंस्कारः पूर्वेमेवोक्तः निरीक्षणप्रोक्षणताडनाभुक्षणादीनि पूर्ववत् ॥८२ ।

आज्यप्रतापनमैशान्यां वा षष्ठेन वेद्युपरि विन्यस्य घृतपात्रं वितस्तिमात्रं कुशपवित्रं वामहस्तांगुष्ठानामिकाग्रं गृहीत्वा दक्षिणांगुष्ठानामिकामूलं गृहीत्वाग्निज्वालोत्पवनं स्वाहांतेन तुरीयेण पुनः षड् दर्भान् गृहीत्वा पूर्ववत्स्वात्मसंप्लवनं स्वहांतेनाद्येन कुशद्वयपवित्रबंधनं चाद्येनघृते न्यसेदिति पवित्रीकरणम् ॥८३॥

दर्भद्वयं प्रगृह्याग्निप्रज्वालनं घृतं त्रिधा वर्तयेत् ॥
संप्रोक्ष्याग्नौ निधापयेदिति नीराजनम् ॥८४॥

पुनर्दर्भान् गृहीत्वा कीटकादि निरीक्ष्यार्घ्येण संप्रोक्ष्य दर्भानग्नौ निधाय इत्यवद्योतनम् ॥८५॥

दर्भद्वयं गृहीत्वाग्निज्वालया घृतं निरीक्षयेत् ॥८६॥

दर्भेण गृहीत्वा तेनाग्रद्वयेन शुक्लपक्षद्वयेनाद्येनेति कृष्णपक्षसंपातनं घृतं त्रिभागेन विभज्य स्रुवेणैकभागेनाज्येनाग्नयेस्वाहा द्वितीयेनाज्येन सोमाय स्वाहा आज्येन ॐ अग्नीषोमाभ्यां स्वाहा आज्येनाग्नये स्विष्टकृते स्वाहा ॥८७॥

पुनः कुशेन गृहीत्वा संहिताभिमंत्रेण नमोन्तेनाभिमंत्रयेत् ॥८८॥

अभिमंत्र्य देनुमुद्राप्रदर्शनकवचावगुंठनास्त्रेण रक्षाम् ॥
अथ संस्कृते निधापयेत् आज्यसंस्कारः ॥८९॥

आज्येन म्रुग्वदनेन चक्राभिघारणं शक्तिबीजादिशानमूर्तये स्वाहा ॥
पूर्ववत्पुरुषवत्त्राय स्वाहा अघोरहृदयायस्वाहा वामदेवाय गुह्याय स्वाहा सद्योजातमूर्तये स्वाहा ॥
इति वक्त्रोद्घाटनम् ॥९०॥

ईशानमूर्तये तत्पुरुषवक्त्राय स्वाहा तत्पुरुषवक्त्राय अघोरहृदयाय स्वाहा अघोरहृदयाय वामगुह्याय सद्योजतमूर्तये स्वाहा इति वक्त्रसंधानम् ॥९१॥

ईशानमूर्तये तत्पुरुषाय वक्त्राय अघोरहृदयाय वामदेवाय गुह्या सद्योजाताय स्वाहा इति वक्त्रसंधानम् ॥९१॥
ईशानमूर्तये तत्पुरुषाय वक्त्राय अघोरहृदयाय वामदेवाय गुह्याय सद्योजातमूर्तये स्वाहा इति वक्त्रैक्यकरणम् ॥९२॥
शिवाग्निं जनयित्वैवं सर्वकर्माणि कारयेत् ॥
केवलं जिह्वया वापि शांतिकाद्यानि सर्वदा ॥९३॥

गर्भाधानादिकार्येषु वह्नेः प्रत्येकमव्यय ॥
दश आहुतायो देया योनिबीजेन पंचधा ॥९४॥

शिवाग्नौ कल्पयेद्दिव्यं पूर्ववत्परमासनम् ॥
आवाहनं तथा न्यासं यथा देवे तथार्चनम् ॥९५॥

मूलमंत्रं सकृज्जप्त्वा देवदेवं प्रमम्य च ॥
प्राणायामत्रयं कृत्वा सगर्भं सर्वसंमतम् ॥९६॥

परिपेचनपूर्वं च तदिध्ममभिगार्य च ॥
जुहुयादग्निमध्ये तु ज्वलितेऽथ महामुने ॥९७॥

आघारावपि चाधाय चाज्येनैव तु षण्मुके ॥
आज्यभागौ तु जुहुयाद्विधिनैव घृतेन च ॥९८॥

चक्षुषी चाज्यभागौ तु चाग्नये च तथोत्तरे ॥
आत्मनो दक्षिणे चैव सोमायेति द्विजोत्तम ॥९९॥

प्रत्यङ्मुखस्य देवस्य शिवाग्नेर्ब्रह्मणः सुत ॥
अक्षि वै दक्षिणं चैव चोत्तरं चोत्तरं तथा ॥१००॥

दक्षिणं तु महाभाग भवत्येव न संशयः ॥
आज्येनाहुतयस्तत्र मूलेनैव दशैव तु ॥१०१॥

चरुणा च यथावद्धि समिद्भिश्च तथा स्मृतम् ॥
पूर्णाहुतिं ततो दद्यान्मूलमंत्रेण सुव्रत ॥१०२॥

सर्वावरणदेवानां पंचपंचैव पूर्ववत् ॥
ईशानादिक्रमेणैव शक्तिबीजक्रमेण च ॥१०३॥

प्रायाश्चित्तमगोरेण स्वेष्टांतं पूर्ववत्स्मृतम् ॥
त्रिप्रकारं मया प्रोक्तमग्निकार्यं सुशोभनम् ॥१०४॥

यतावसरमेवं हि कुर्यान्नित्यं महामुने ॥
जीवितांते लभेत्स्वर्गं लभेते अग्निहीपनम् ॥१०५॥

नरकं चैव नाप्नोति यस्य कस्यापि कर्मणः ॥
अहिंसकं चरेद्धोमं साधको मुक्तिकांक्षकः ॥१०६॥

हृदिस्थं चिंतयेदग्निं ध्यानयज्ञेन होमयेत् ॥
देहस्थं सर्वभूतानां शिवं सर्वजगत्पतिम् ॥१०७॥

तं ज्ञात्वा होमयेद्भक्त्या प्राणायामेन नित्यशः ॥
बाह्यहोमप्रदाता तु पाषाणे दर्दुरो भवेत् ॥१०८॥

इति श्रीलिंगमहापुराणे उत्तरभागे पंचविंशतितमोऽध्यायः ॥२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:30.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

proscription

  • न. आक्षेपण 
  • स्त्री. बंदी 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site