TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ६

उत्तरभागः - अध्यायः ६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ६
ऋष ऊचुः
मायावित्वं श्रुतं विष्णोर्देवदेवस्य धीमतः ॥
कथं ज्येष्ठासमुत्पत्तिर्देवदेवाज्जनार्दनात् ॥१॥

वक्तुमर्हसि चास्माकं लोमहर्षण तत्त्वतः ॥
सूत उवाच ॥
अनादिनिधनः श्रीमान्धाता नारायणः प्रभुः ॥२॥

जगद्द्वैधमिदं चक्रे मोहनाय जगत्पतिः ॥
विष्णुर्वै ब्राह्मणान्वेदान्वेदधर्मान् सनातनान् ॥३॥

श्रियं पद्मां तथा श्रेष्ठां भागमेकमकारयत् ॥
ज्येष्ठामलक्ष्मीमशुभां वेदबाह्यान्नराधमान् ॥४॥

अधर्मं च महातेजा भागमेक मकल्पयत् ॥
अलक्ष्मीमग्रतः सृष्ट्वा पश्चात्पद्मां जनार्दनः ॥५॥

ज्येष्ठा तेन समाख्याता अलक्ष्मीर्द्विजसत्तमाः ॥
अमृतोद्भववेलायां विषानंतरमुल्बणात् ॥६॥

अशुभा सा तथोत्पन्ना ज्येष्ठा इति च वै श्रुतम् ॥
ततः श्रीश्च समुत्पन्ना पद्मा विष्णुपरिग्रहः ॥७॥

दुःसहो नाम विप्रर्षिरुपयेमेऽशुभां तदा ॥
ज्येष्ठां तां परिपूर्णोऽसौ मनसा वीक्ष्य धिष्ठिताम् ॥८॥

लोकं चचारं हृष्टात्मा तया सह मुनिस्तदा ॥
यस्मिन् घोषो हरेश्चैव हरस्य च महात्मनः ॥९॥

वेदघोषस्तथा विप्रा होमधूमस्तथैव च ॥
भस्मांगिनो वा यत्रासंस्तत्र तत्र भयार्दिता ॥१०॥

पिधाय कर्णौ संयाति धावमाना इतस्ततः ॥
ज्येष्ठामेवंविधां दृष्ट्वा दुःसहो मोहमागतः ॥११॥

तया सह वनं गत्वा चचार स महामुनिः ॥
तपो महद्वने घोरे याति कन्या प्रतिग्रहम् ॥१२॥

न करिष्यामि चेत्युक्त्वा प्रतिज्ञाय च तामृषिः ॥
योगज्ञानपरः शुद्धो यत्र योगीश्वरो मुनिः ॥१३॥

तत्रायांतं महात्मानं मार्कंडेयमपश्यत ॥
प्रणिपत्य महात्मानं दुःसहो मुनिमब्रवीत् ॥१४॥

भार्येयं भगवन्मह्यं न स्थास्यति कथंचन ॥
किं करोमीति विप्रर्षे ह्यनया सह भार्यया ॥१५॥

प्रविशामि तथा कुत्र कुतो न प्रविशाम्यहम् ॥
मार्कंडेय उवाच ॥
श्रृणु दुःसह सर्वत्र अकीर्तिरशुभान्विता ॥१६॥

अलक्ष्मीरतुला चेयं ज्येष्ठा इत्यभिशब्दिता ॥
नारायणपरा यत्र वेदमार्गानुसारिणः ॥१७॥

रुद्रभक्ता महात्मानो भस्मोद्धूलितविग्रहाः ॥
स्थिता यत्र जना नित्यं मा विशेथाः कथंचन ॥१८॥

नारायण हृषीकेश पुंडरीकाक्ष माधव ॥
अच्युतानंत गोविंद वासुदेव जनार्दन ॥१९॥

रुद्र रुद्रेति रुद्रेति शिवाय च नमो नमः ॥
नमः शिवतरायेति शंकरायेति सर्वदा ॥२०॥

महादेव महादेव महादेवेति कीर्तयेत् ॥
उमायाः पतये चैव हिरण्यपतये सदा ॥२१॥

हिरण्यबाहवे तुभ्यं वृषांकाय नमो नमः ॥
नृसिंहवामनाचिंत्य माधवेति च ये जनाः ॥२२॥

वक्ष्यंति सततं हृष्टा ब्राह्मणाः क्षत्रियास्तथा ॥
वैश्याः शूद्राश्च ये नित्यं तेषां धनगृहादिषु ॥
आरामे चैव गोष्ठेषु न विशेथाः कथंचन ॥२३॥

ज्वालामालाकरालं च सहस्रादित्यसन्निभम् ॥
चक्रं विष्णोरतीवोग्रं तेषां हंति सदाशुभम् ॥२४॥

स्वाहाकारो वषट्कारो गृहे यस्मिन् हि वर्तते ॥
तद्धित्वा चान्यमागच्छ समाघोषेथ यत्र वा ॥२५॥

वेदाभ्यासरता नित्यं नित्यकर्मपरायणाः ॥
वासुदेवार्चनरता दूरतस्तान्विसर्जयेत् ॥२६॥

अग्निहोत्रं गृहे येषां लिंगार्चा वा गृहेषु च ॥
वासुदेवतनुर्वापि चंडिका यत्र तिष्ठति ॥२७॥

दूरतो व्रज तान् हित्वा सर्वपापविवर्जितान् ॥
नित्यनैमित्तिकैर्यज्ञैर्यजंति च महेश्वरम् ॥२८॥

तान् हित्वा व्रज चान्यत्र दुःसहत्वं सहानया ॥
श्रोत्रिया ब्राह्मणा गावो गुरवोऽतिथयः सदा ॥२९॥

रुद्रभक्ताश्च पूज्यंते यैर्नित्यं तान्विवर्जयेत् ॥
दुःसह उवाच ॥
यस्मिन्प्रवेशो योग्यो मे तद्ब्रूहि मुनिसत्तम ॥३०॥

त्वद्वाक्याद्भयनिर्मुक्तो विशान्मेषां गृहे सदा ॥
मार्कण्डेय उवाच ॥
न श्रोत्रिया द्विजा गावो गुरवोऽतिथयः सदा ॥
यत्र भर्ता च भार्या च परस्परविरोधिनौ ॥३१॥

सभार्यस्त्वं गृहं तस्य विशेथा भयवर्जितः ॥
देवदेवो महादेवो रुद्रस्त्रिभुवनेश्वरः ॥३२॥

विनिंद्यो यत्र भगवान् विशस्व भयवर्जितः ॥
वासुदेवरतिर्नास्ति यत्र नास्ति सदाशिवः ॥३३॥

जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ॥
पर्वण्यभ्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥३४॥

कृष्णाष्टम्यां च रुद्रस्य संध्यायां भस्मवर्जिताः ॥
चतुर्दश्यां महादेवं न यजंति च यत्र वै ॥३५॥

विष्णोर्नामविहिना ये संगताश्च दुरात्मभिः ॥
नमः कृष्णाय शर्वाय शिवाय परमेष्ठिने ॥३६॥

ब्राह्मणाश्च नरा मूढा नवदंति दुरात्मकाः ॥
तत्रैव सततं वत्स सभार्यस्त्वं समाविस ॥३७॥

वेदघोषो न यत्रास्ति गुरुपूजादयो न च ॥
पितृकर्मविहीनांस्तु सभार्यस्त्वं समाविश ॥३८॥

रात्रौ रात्रौ गृहे यस्मिन् कलहो वर्तते मिथः ॥
अनया सार्धमनिशं विश त्वं भयवर्जितः ॥३९॥

लिंगार्चनं यस्य नास्ति यस्य नास्ति जपादिकम् ॥
रुद्रभक्तिर्विनिंदा च तत्रैव विश निर्भयः ॥४०॥

अतिथिः श्रोत्रियो वापि गुरुर्वावैष्णवोपि वा ॥
न संति यद्गृहे गावः सभार्यस्त्वं समाविश ॥४१॥

बालानां प्रेक्षमाणानां यत्रादत्त्वा त्वभक्षयन् ॥
भक्ष्याणि तत्र संहृष्टः सभार्यस्त्वं समाविश ॥४२॥

अनभ्यर्च्य महादेवं वासुदेवमथापि वा ॥
अहुत्वा विधिवद्यत्र तत्र नित्यं समाविश ॥४३॥

पाप कर्मरता मूढा दयाहीनाः परस्परम् ॥
गृहे यस्मिन्समासंते देशे वा तत्र संविश ॥४४॥

प्राकारागारविध्वंसा न चैवेड्या कुटुंबिनी ॥
तद्गृहं तु समासाद्य वस नित्यं हि हृष्टधीः ॥४५॥

यत्र कंटकिनो वृक्षा यत्र निष्पाववल्लरी ॥
ब्रह्मवृक्षश्च यत्रास्ति सभार्यास्त्वं समाविश ॥४६॥

अगस्त्यार्कादयो वापि बंधुजीवो गृहेषु वै ॥
करवीरो विशेषेण नंद्यावर्तमथापि वा ॥४७॥

मल्लिका वा गृहे येषां सभार्यास्त्वं समाविश ॥
कन्या च यत्र वै वल्ली द्रोही वा च जटी गृहे ॥४८॥

बहुला कदली यत्र सभार्यस्त्वं समाविश ॥
तालं तमालं भल्लातं तित्तिडीखंडमेव च ॥४९॥

कदंबः खादिरं वापि सभार्यस्त्वं समाविश ॥
न्यग्रोधं वा गृहे येषामश्वत्थं चूतमेव वा ॥५०॥

उदुंबरं वा पनसं सभार्यास्त्वं समाविश ॥
यस्य काकगृहं निंबे आरामे वा गृहेपि वा ॥५१॥

दंडिनी मुंडिनी वापि सभार्यस्त्वं समाविश ॥
एका दासी गृहे यत्र त्रिगवं पंचमाहिषम् ॥५२॥

षडश्वं सप्तमातंगं सभार्यस्त्वं समाविश ॥
यस्य काली गृहे देवी प्रेतरूपा च डाकिनी ॥५३॥

क्षेत्रपालेथवा यत्र सभार्यस्त्वं समाविश ॥
भिक्षुबिंबं च वै यस्य गृहे क्षपणकं तथा ॥५४॥

बौद्धं वा बिंबमासाद्य तत्र पूर्णं समाविश ॥
शयनासनकालेषु भोजनाटनवृत्तिषु ॥५५॥

येषां वदति नो वाणी नामानि च हरेः सदा ॥
तद्गहं ते समाख्यातं सभार्यस्य निवेशितुम् ॥५६॥

पाषंडाचारनिरताः श्रौतस्मार्तबहिष्कृताः ॥
विष्णुभक्ति विनिर्मुक्ता महादेवविनिंदकाः ॥५७॥

नास्तिकाश्च शठा यत्र सभार्यास्त्वं समाविश ॥
सर्वस्मादधिकत्वं ये न वदंति पिनाकिनः ॥५८॥

साधारणं स्मरंत्येनं सभार्यस्त्वं समाविश ॥
ब्रह्मा च भगवान्विष्णुः शक्रः सर्वसुरेश्वरः ॥५९॥

रुद्रप्रसादजाश्चेति न वदंति दुरात्मकाः ॥
ब्रह्मा च भगवान्विष्णुः शक्रश्च सम एव च ॥६०॥

वदंति मूढाः खद्योतं भानुं वा मूढचेतसः ॥
तेषां गृहे तथा क्षेत्र आवासे वा सदाऽनया ॥६१॥

विश भुंक्ष्व गृहं तेषां अपि पूर्णमनन्यधीः ॥
येऽश्रंति केवलं मूढाः पक्वमन्नं विचेतसः ॥६२॥

स्नामंगलहीनाश्च तेषां त्वं गृहमाविश ॥
या नारी शौचविभ्रष्टा देहसंस्कारवर्जिता ॥६३॥

सर्वभक्षरता नित्यं तस्याः स्ताने समाविश ॥
मलिनास्याः स्वयं मर्त्या मलिनांबरधारिणः ॥६४॥

मलदंता गृहस्थाश्च गृहे तेषां समाविश ॥
पादशौचविनिर्मुक्ताः संध्याकाले च शायिनः ॥६५॥

संध्यायाम श्रुते ये वै गृहं तेषां समाविश ॥
अत्याशनरता मर्त्या अतिपानरता नराः ॥६६॥

द्यूतवादक्रियामूढाः गृहे तेषां समाविश ॥
ब्रह्मस्वहारिणो ये चायोग्यांश्चैव यजंति वा ॥६७॥

शूद्रान्नभोजिनो वापि गृहं तेषां समाविश ॥
मद्यपानरताः पापा मांस भक्षणतत्पराः ॥६८॥

परदाररता मर्त्या गृहं तेषां समाविश ॥
पर्वण्यनर्चाभिरता मैथुने वा दिवा रताः ॥६९॥

संध्यायां मैथुनं येषां गृहे तेषां समाविश ॥
पृष्ठतो मैथुनं येषां श्वानवन्मृगवच्च वा ॥७०॥

जले वा मैथुनं कुर्यात्सभार्यस्त्वं समाविश ॥
रजस्वलां स्त्रियं गच्छेच्चांडालीं वा नराधमः ॥७१॥

कन्यां वा गोग-हे वापि गृहं तेषां समाविश ॥
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥७२॥

रुद्रभक्तिविहीनाये गृहं तेषां समाविश ॥
श्रृंगैर्दिव्यौषधैः क्षुद्रैः शेफ आलिप्य गच्छति ॥७३॥

भगद्रावं करोत्यस्मात्सभार्यस्त्वं समाविश ॥
सूत उवाच ॥
इत्युक्त्वा स मुनिः श्रीमान्निर्मार्जय नयने तदा ॥७४॥

ब्रह्मर्षिर्ब्रह्मसंकाशस्तत्रैवांतर्द्धिमातनोत् ॥
दुःसहश्च तथोक्तानि स्तानानि च समीयिवान् ॥७५॥

विशेषाद्देवदेवस्य विष्णोर्निदारतात्मनाम् ॥
सभार्यो मुनिशार्दूलः सैषा ज्येष्ठा इति स्मृता ॥७६॥

दुःसहस्तामुवाचेदं तडागाश्रममंतरे ॥
आस्व त्वमत्र चाहं वै प्रवेक्ष्यामि रसातलम् ॥७७॥

आवयोः स्थानमालोक्य निवासार्थं ततः पुनः ॥
आगमिष्यामि ते पार्श्वमित्युक्ता तमुवाच सा ॥७८॥

किमश्रामि महाभाग को मे दास्यति वै बलिम् ॥
इत्युक्तस्तां मुनिः प्राह याः स्त्रियस्त्वां यजंति वै ॥७९॥

बलिभिः पुष्पधूपैश्च न तासां च गृहं विश ॥
इत्युक्त्वा त्वाविशत्तत्र पातालं बिलयोगतः ॥८०॥

अद्यापि च विनिर्मग्नो मुनिः स जलसंस्तरे ॥
ग्रामपर्वतबाह्येषु नित्यमास्तेऽशुभा पुनः ॥८१॥

प्रसंगाद्देवंदेवेशो विष्णुस्त्रिभुवनेश्वरः ॥
लक्ष्म्या दृष्टस्तया लक्ष्मीः सा तमाह जनार्दनम् ॥८२॥

भर्ता गतो महाबाहो बिलं त्यक्त्वा स मां प्रभो ॥
अनाथाहं जगन्नाथ वृत्तिं देहि नमोस्तु ते ॥८३॥

सूत उवाच ॥
इत्युक्तो भगवान्विष्णुः प्रहस्याह जनार्दनः ॥
ज्येष्ठामलक्ष्मीं देवेशो माधवो मधुसूदनः ॥८४॥

श्रीविष्णुरुवाच ॥
ये रुद्रमनघं शर्वं शंकरं नीललोहितम् ॥
अंबां हैमवतीं वापि जनित्रीं जगतामपि ॥८५॥

मद्भक्तान्निंदयंत्यत्र तेषां वित्तं तवैव हि ॥
येपि चैव महादेवं विनिंद्यैव यजंति माम् ॥८६॥

मूढा ह्यभाग्या मद्भक्ता अपि तेषां धनं तव ॥
यस्याज्ञया ह्यहं ब्रह्मा प्रसादाद्वर्तते सदा ॥८७॥

ये यजंति विनिंद्यैव मम विद्वेषकारकाः ॥
मद्भक्ता नैव ते भक्ता इव वर्तंति दुर्मदाः ॥८८॥

तेषां गृहं धनं क्षेत्रमिष्टापूर्तं तवैव हि ॥
सूत उवाच ॥
इत्युक्त्वा तां परित्यज्य लक्ष्म्याऽलक्ष्मीं जनार्दनः ॥८९॥

जजाप भगवन्रुद्रमलक्ष्मीक्षयसिद्धये ॥
तस्मात्प्रदेयस्तस्यै च बलिर्नित्यंमुनीश्वराः ॥९०॥

विष्णुभक्तैर्न संदेहः सर्वयत्नेन सर्वदा ॥
अंगनाभिः सदा पूज्या बलिभिर्विविधैर्द्विजाः ॥९१॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥
अलक्ष्मीवृत्तमनघो लक्ष्मीवाल्लँभते गतिम् ॥९२॥

इति श्रीलिंगमहापुराणे उत्तरभागे अलक्ष्मीवृत्तं नाम षष्ठेऽध्यायः ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:29.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

root of joint

  • सांधा मूळ 
  • = root of weld 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site