TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २३

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २३
विशिष्टा रससंस्काराः

श्रीभैरवी ।
श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् ।
शंभो तव प्रसादेन कृपांभोधे सुरेश्वर ॥१॥

विज्ञापयिष्याम्यपरं सर्वलोकहितङ्करम् ।
वृद्धस्त्रीबालषण्ढानाम् अन्येषां रोगिणामपि ॥२॥

रसायनेष्वशक्तानां कथं सौख्यं भवेत्प्रभो ।
सर्वानुग्राहक श्रीमन् तदाज्ञापय भैरव ॥३॥

श्रुत्वा देव्याः स्तुतिपरं सर्वलोकहितप्रदम् ।
श्रुत्वा मन्दस्मितं देवो जगादेत्थं परं वचः ॥४॥

श्रीभैरवः ।
साधु साधु महाभागे लोकानां जननी यतः ।
तस्माल्लोकहितं पृष्टं तद्वक्ष्याम्यहमीश्वरि ॥५॥

रसादिसंस्कारविधिं सर्वरोगनिबर्हणम् ।
यथाक्रमं प्रवक्ष्यामि श्रूयतामवधानतः ॥६॥

रसेन्द्रो रसराजश्च रसः सूतश्च पारदः ।
शिवबीजं शिवो जैत्रो रसलोहो महारसः ॥७॥

रसोत्तमो महातेजाः सूतराट् चपलोऽमृतः ।
धुत्तुरो लोकनाथश्च प्रभुरिन्द्रो भवस्तथा ॥८॥

रुद्रतेजाः खेचरश्च रसधातुरचिन्त्यजः ।
अमरो देहदः स्कन्दः स्कन्देशो मृत्युनाशनः ॥९॥

देवो रसायनः श्रेष्ठो यशोदः पावनः स्मृतः ।
प्रोक्ता दिव्यरसाश्चैव त्रयस्त्रिंशच्च नाम च ॥१०॥

दोषयुक्तः सूतराजो विषमेव वरानने ।
दोषहीनो रसः साक्षादमृतं नात्र संशयः ॥११॥

तस्मात्पारदसंस्कारं दोषघ्नं शृणु पार्वति ।
रसाचार्यो भिषक्श्रेष्ठो यतात्माघोरमन्त्रवित् ॥१२॥

रसशोधनसंस्काराः॑ प्रथमः प्रकारः

शुभर्क्षे शुभलग्नेषु सुमुहूर्ते सुवासरे ।
पूर्वोक्तवत्सूतपूजां कुर्यादादौ शुचिस्थले ॥१३॥

शतं पलानां पञ्चाशत्पञ्चविंशति वा पुनः ।
दश वा पञ्च वा देवि नैतस्मादूनमिष्यते ॥१४॥

लोहजे वा शिलोत्थे वा खल्वे सूतं विनिक्षिपेत् ।
कलांशं सूतराजस्य चूर्णेष्टकनिशारजः ॥१५॥

जम्बीराम्लेन संमर्द्य तप्तखल्वे दिनं प्रिये ।
क्षालयेद् उष्णसौवीरैर् नागदोषो विनश्यति ॥१६॥

अङ्कोलेनेन्द्रवारुण्या वङ्गदोषो विनश्यति ।
आरग्वधेन च मलं चित्रके नागदूषणम् ॥१७॥

कृष्णधूर्तेन चाञ्चल्यं त्रिफलाभिर्विषं हरेत् ।
गिरिदोषं त्रिकटुकैरसह्याग्निस्तु गोक्षुरैः ॥१८॥

वङ्गादिसप्तदोषाणां नाशार्थं सप्तवासरम् ।
तत्तच्चूर्णैः कलांशैश्च कुमार्या रससंयुतैः ॥१९॥

मर्दयित्वा रसं पश्चात्क्षालयेदुष्णकांजिकैः ।
पारदः सकलैर्दोषैर्मुच्यते सप्तकञ्चुकैः ॥२०॥

वैद्यकर्मणि योज्यश्चेद्रसः स्यात्सर्वरोगहा ।

द्वितीयः प्रकारः

देवदारुमलयजजयावायसतुण्डिका ॥२१॥

कुमारीमुसलीवन्ध्याकर्कोटीरससंयुतम् ।
सूतं दिनं मर्दयेच्च पुनः पातनयन्त्रके ॥२२॥

पातयेद्योजयेत्सूतं शुद्धं वैद्यस्य कर्मणि ।

तृतीयः प्रकारः

दग्धं पाषाणचूर्णं च निशाकन्यारसै रसम् ॥२३॥

मर्दयेद्दिनमेकं च पूर्वयन्त्रे च पातयेत् ।
एवं संस्कारसंशुद्धं योजयेद्वैद्यकर्मणि ॥२४॥

चतुर्थः प्रकारः

दरदं याममात्रं तु पारिभद्रद्रवैः प्रिये ।
अथवा जम्बीररसैर्मर्दयित्वा तु पाचयेत् ॥२५॥

यन्त्रे पातनके देवि दोषकञ्चुकवर्जितः ।

पञ्चमः प्रकारः

पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ॥२६॥

तप्तखल्वे दिनं कृत्वा वज्रमूषागतं रसम् ।
पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ॥२७॥

पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ।
कृत्वैतं दशवारं तं पात्यं पातनयन्त्रके ॥२८॥

शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ।

षष्ठः प्रकारः

दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ॥२९॥

वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ।
पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ॥३०॥

सगन्धकं मर्दनं च पातनं भवति प्रिये ।
शुद्धः स्यात्पारदो देवि योज्यः पारदकर्मणि ॥३१॥

सप्तमः प्रकारः

तिलतैलैर् माहिषिकैर् मूत्रैर् मद्याम्लकेन च ।
गोमांसैर् हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ॥३२॥

सप्ताहं लोहदण्डेन चालयेत्तद्द्रवं मुहुः ।
सार्द्रं मयूरपित्तेन भावयेदातपे दिनम् ॥३३॥

पातयेत्पातनायन्त्रे दरदं खरवह्निना ।
शुद्धो भवेच्चतुर्यामात्पारदो योगवाहकः ॥३४॥

जारणार्हो वडबानलविडः

शृणु देवि प्रवक्ष्यामि जारणार्हं बिडं प्रिये ।
चूर्णं कृत्वा दग्धशङ्खं घर्मे ऽर्कक्षीरभावितम् ॥३५॥

कुर्याद्दिनं ततो देवि धूमसारं च भावयेत् ।
दिनं जम्बीरकरसैरातपे चातितीव्रके ॥३६॥

चतुर्याममजामूत्रैः षोडशांशं सुवर्चलम् ।
यथा सान्द्रत्वमाप्नोति तावत्क्वाथ्यं वरानने ॥३७॥

नरमूत्रे षोडशांशे कण्टकारीं समूलकाम् ।
यावद् घनीभवेत् तावत् क्वाथनीया प्रयत्नतः ॥३८॥

तिन्त्रिणीक्षारकासीससर्जक्षाराः शिलाजतु ।
जम्बीरस्य रसैः सर्वं चतुर्यामं पृथक्पृथक् ॥३९॥

जेपालं तत्त्वचाहीनं मूलकक्षारसैन्धवम् ।
गुञ्जां च टङ्कणं शिग्रुद्रवैर्भाव्यं पृथक्पृथक् ॥४०॥

जम्बीराणां द्रवैर्भाव्यं शङ्खाद्यं तत्त्रयोदश ।
सर्वं समांशं च दिनमेकीकृत्य तु गालितम् ॥४१॥

रक्षयेत्सर्वदा ज्ञेयो नाम्ना च वडबानलः ।
सुवर्णादिमलोहानां रत्नानां जारणे तथा ॥४२॥

अभ्राद्युपरसानां च योजनीयं प्रयत्नतः ।

पारदभस्मविधिः॑ प्रथमः प्रकारः

शुद्धसूतं शुद्धगन्धं मर्दयेद्गोघृतैः समम् ॥४३॥

पिण्डीभूतं कुमार्याश्च दलगर्भे निवेशयेत् ।
सम्यक्सूत्रेण संवेष्ट्य तमयस्कान्तसंपुटे ॥४४॥

निरुध्य तं मृदुपुटे त्रिधा पाच्यं पुनः प्रिये ।
आदाय दृढमूषायामन्धयित्वा धमेत्सुधीः ॥४५॥

भस्मीभवेत्सूतराजो योज्यो योगे रसायने ।

द्वितीयः प्रकारः

छायाशुष्काणि कुर्वीत शाकपक्वफलानि च ॥४६॥

मर्दयेदर्कपयसा तेन मूषोदरं लिपेत् ।
अग्रप्रसूतगोजातजरायोः शिषितं रजः ॥४७॥

मूषामध्ये क्षिपेत्पश्चात्सूतं गन्धश्च तद्रजः ।
क्षिप्त्वा निरुध्य च धमेद्भस्मीभवति पारदः ॥४८॥

तृतीयः प्रकारः

वन्ध्या कार्कोटकी काकतुण्डी च कटुतुम्बिका ।
कञ्चुकी नलिका काकमाची वै कालमञ्जरी ॥४९॥

काकजङ्घास्त्विमाः सर्वाः पिष्ट्वा मूषान्तरे क्षिपेत् ।
पूर्वोक्तवन्ध्यामुख्याभिर् अष्टाभिर् मर्दयेद् रसम् ॥५०॥

तद्रसं लिप्तमूषायां क्षिप्त्वा रुद्ध्वा च भूधरे ।
पचेदेवं चाष्टवारमेवं मूषाप्रलेपनम् ॥५१॥

मर्दनं धमनं कुर्याद् भूयो भूयः सुरेश्वरि ।
मृतो भवति सूतेन्द्रो योग्यो रोगे रसायने ॥५२॥

चतुर्थः प्रकारः

नियामकौषधैर्मर्द्यं चतुर्यामं रसं दृढम् ।
द्विगुणे गन्धतैले च शनैर्मन्दाग्निना पचेत् ॥५३॥

यावत् खोटत्वमाप्नोति तावदेवं पचेद्रसम् ।
तत्खोटं संपुटे लौहे क्षिप्त्वा रुन्ध्याद्दृढं सुधीः ॥५४॥

पथ्याजलैर्लोहकिट्टं पिष्ट्वा सम्पुटमालिखेत् ।
तस्योर्ध्वं श्रावके काचं कृत्वा नागं विनिक्षिपेत् ॥५५॥

स नागो द्रवते यावत्तावदेवं धमेत्प्रिये ।
यावन्न याति काठिन्यं तावन्नैव धमेत्सुधीः ॥५६॥

पुनः कठिनतां प्राप्ते धमेत्पूर्वोक्तवन्मुहुः ।
त्रियामधमनादेवं भस्मीभवति पारदः ॥५७॥

भस्मीकृते मूलिकाभिर्जारणारहितो रसः ।
देहे लोहे न योज्यः स्याद्योज्यो भेषजकर्मणि ॥५८॥

पञ्चमः प्रकारः

द्विगुणे गन्धतैले च शुद्धं सूतं विमर्दयेत् ।
एकाहं तं पुनर्मर्द्यं सर्पाक्षीभृङ्गराडपि ॥५९॥

विष्णुक्रान्ता त्र्यहं चैषां रसैः श्लक्ष्णं विमर्दयेत् ।
पचेद्यन्त्रे त्रिसंघट्टे ह्यष्टवारमिति प्रिये ॥६०॥

कुर्याद्भस्मति सूतेन्द्रो रोगसंघातनाशनः ।

षष्ठः प्रकारः

श्वेताङ्कोलस्य मूलोत्थरसैर्मर्द्यस्त्र्यहं रसः ॥६१॥

मूषायां निक्षिपेद् रुद्ध्वा पचेद्भूधरयन्त्रके ।
पारदो भस्मतां याति सर्वरोगहरः परः ॥६२॥

सप्तमः प्रकारः

विष्णुक्रान्तां वेदिकां च काञ्जिकेन विमर्दयेत् ।
तत्कल्केन रसो मर्द्यः सप्तधा मूर्छितोत्थितः ॥६३॥

तं रसं श्रावके क्षिप्त्वा सिञ्चयेत्तद्रसैर्मुहुः ।
दीपाग्निना दिनं पच्याद्भस्म स्याल्लवणाकृतिः ॥६४॥

अष्टमः प्रकारः

काकोदुंबरिकाक्षीरैर् भावयेत् सोमरामठम् ।
पुनः पुनः सप्तधैवं शोषयेन्मर्दयेत् सुधीः ॥६५॥

काकोदुम्बरपञ्चाङ्गं षोडशांशे जले क्षिपेत् ।
यथैकांशोऽवशिष्टः स्यात्तेन तद्धिङ्गु मर्दयेत् ॥६६॥

तद्गोलके रसं क्षिप्त्वा मूषायां तं च रोधयेत् ।
भूधरे च पुटेदेवमष्टवारं पुनः पुनः ॥६७॥

पुटे पुटे च तद्धिङ्गु दद्यात्सूतो मृतो भवेत् ।

नवमः प्रकारः

उरुबूकस्य बीजानि तथापामार्गजानि च ॥६८॥

पूर्णयेत् तच्च मूषायां क्षिप्त्वा सूतं ततः क्षिपेत् ।
तदूर्ध्वं पूर्वचूर्णं च सम्यङ्मूषां निरोधयेत् ॥६९॥

पचेल्लघुपुटैरेवं चतुर्भिर्भस्मतां व्रजेत् ।

दशमः प्रकारः

कुडुहुञ्च्याः कन्दमध्ये कान्तास्तन्यपरिप्लुते ॥७०॥

रसं क्षिप्त्वा मुखं रुद्ध्वा तन्मज्जकल्कतः सुधीः ।
तं गोमयैः समालिप्य स्वेदयेद्गोमयाग्निना ॥७१॥

एवं कृते सप्तवारं रसो भस्मत्वम् आप्नुयात् ।

एकादशः प्रकारः

अङ्कोलस्य शिफानीरैः सूतं गन्धं समं समम् ॥७२॥

दिनमेकं मर्दयेच्च मूषागर्भं निरोधयेत् ।
पुटेद्भूधरयन्त्रे च दिनान्ते भस्म जायते ॥७३॥

द्वादशः प्रकारः

सूतं धान्याभ्रकं तुल्यं मारकौषधिजै रसैः ।
मर्दयेद् दिनमेकं तु तत्कल्कैर्वस्त्रलेपनम् ॥७४॥

तद्वस्त्रं वर्तिकां कृत्वा धृत्वा दंशेन दीपयेत् ।
तद्द्रुतिं पतितां कांस्ये कृष्णवर्णं च तद्भवेत् ॥७५॥

तत्पुनर्मारकैर्मर्द्यं पातनायन्त्रके पचेत् ।
मृतो भवेद्दिनैकेन तद्भस्माखिलरोगहृत् ॥७६॥

त्रयोदशः प्रकारः

कालधुत्तूरतैलेन मर्दनीयश्च पारदः ।
ततो नियामकैर्मर्द्याद्दिनैकं कूर्मयन्त्रके ॥७७॥

पाचयेद्भस्मतां याति शुभ्रः स्यात्सर्वरोगहा ।

चतुर्दशः प्रकारः

शुद्धसूताद् अर्धभागं शुद्धं गन्धं विमर्दयेत् ॥७८॥

मारकौषधजैर् द्रावैर् दिनं मूषागतं पचेत् ।
यन्त्रे भूधरसंज्ञे च दिनेनैकेन भस्मति ॥७९॥

पञ्चदशः प्रकारः

सूतमभ्रं वटक्षीरैस्त्रियामं मर्दयेत्प्रिये ।
मूषागर्भे विनिक्षिप्य करीषाग्नौ दिनं पचेत् ॥८०॥

भस्मीभवति सूतेन्द्रः शुभ्रः सर्वार्तिनाशनः ।

षोडशः प्रकारः

मुखीकृते वासिते च पारदे समकाञ्चनम् ॥८१॥

जारयेत् पूर्वयोगेन ततो गन्धं समं क्षिपेत् ।
दिव्यौषधिद्रवैर्मर्द्यं दिनं मूषाधृतं रसम् ॥८२॥

दिवानक्तं करीषाग्नौ पचेद्वा तुषवह्निना ।
स्वेदयेत्तं समुद्धृत्य भूयो दिव्यौषधोद्भवैः ॥८३॥

बीजैः समांशैः संमर्द्यं चतुर्यामं सुरेश्वरि ।
वज्रमूषागतं धाम्यं भस्मीभवति पारदः ॥८४॥

तद्भस्म दिव्यं युञ्जीत सदा रोगे रसायने ।

सप्तदशः प्रकारः

स्वजीर्णे पारदे स्वर्णं सममम्लेन मर्दयेत् ॥८५॥

पिष्टीभूतं काञ्जिकेन प्रक्षाल्यादाय तां पुनः ।
पिष्ट्यर्धं शुद्धगन्धं च तदर्धं टङ्कणं क्षिपेत् ॥८६॥

सर्वतुल्यां निशां नारीपुष्परक्तद्रवैर्दिनम् ।
मर्दयेत्तां दिनान्ते च कुर्यात्तद्गोलकं ततः ॥८७॥

पचेद् गड्डुकयन्त्रे च दिनं मन्दाग्निना सुधीः ।
समादाय विचूर्ण्यैव दत्त्वा तत्समगन्धकम् ॥८८॥

गर्भयन्त्रे त्र्यहं पाच्यं लघुना तत्तुषाग्निना ।
रसो भस्म भवेद्देवि निरुत्थः स्याद्रसायनम् ॥८९॥

अष्टादशः प्रकारः

कर्षत्रयं शुद्धसूतं कर्षं ताम्ररजः प्रिये ।
अम्लैः संमर्दयेद्गाढं दिनं खल्वे ततो भवेत् ॥९०॥

पिष्टिस्तां क्षालयेत्तोयैस्तत आदाय निर्मलम् ।
माक्षीकसत्वं तत्सर्वं चक्रमर्दच्छदद्रवैः ॥९१॥

त्रिदिनं मर्दयेद्गाढं तां पिष्टिं गर्भयन्त्रके ।
तुषाग्निना पचेद्देवि त्रिदिनं वा दिवानिशम् ॥९२॥

करीषाग्नौ भवेत्सूतभस्म रोगजरापहम् ।

एकोनविंशः प्रकारः

सूतं स्वर्णं व्योमसत्वं समं स्वर्णसमं बिडम् ॥९३॥

रम्भादण्डद्रवैः सर्वं तत् खल्वे मर्दयेद्दिनम् ।
ततो दिव्यौषधोद्भूतैर्बीजैस्तुल्यं दिनद्वयम् ॥९४॥

सह संमर्दयेद् रम्भातोयैस् तद् गर्भयन्त्रके ।
पूर्वक्रमेण विपचेद्रसभस्म भवेच्छुभम् ॥९५॥

जरामरणरोगघ्नं सर्वसिद्धिप्रदायकम् ।

विंशः प्रकारः

रसेन्द्रं विमलासत्वं तुल्यं मर्द्य दिनत्रयम् ॥९६॥

सिन्दुवारछदरसैः पिष्टिः स्यात्तां विनिक्षिपेत् ।
काचकूप्यन्तरे कूपीं सप्तमृत्कर्पटैर्लिपेत् ॥९७॥

शोषयेद्वालुकायन्त्रे दिनं मन्दाग्निना पचेत् ।
रसभस्म भवेद्दिव्यं रुग्जरामरणापहम् ॥९८॥

एकविंशः प्रकारः

कर्षद्वयं रसेन्द्रं च तदर्धं शुद्धगन्धकम् ।
माक्षीकसत्वं गन्धांशं तत्सर्वं मर्दयेद्दिनम् ॥९९॥

निर्गुण्डीपत्रसारैश्च तं गोलं निक्षिपेत्प्रिये ।
मूषामध्ये ततो मूषावक्त्रं रुद्ध्वा विनिक्षिपेत् ॥१००॥

तां मूषां गड्डुकायन्त्रे पचेन्मन्दाग्निना दिनम् ।
रसभस्म भवेद्दिव्यं सिन्दूरारुणसन्निभम् ॥१०१॥

जरामरणरोगघ्नं सर्वसिद्धिप्रदं शुभम् ।

द्वाविंशः प्रकारः

पक्वमूषोदरे तुल्यगन्धकान्तरितं रसम् ॥१०२॥

तयोश्चतुर्गुणं दत्त्वा काकमाचीरसं पुनः ।
आच्छाद्य गड्डुकायन्त्रे तां निधाय पचेत्क्रमात् ॥१०३॥

मृदुमध्यमचण्डाख्यवह्नौ यामचतुष्टयम् ।
ततश्च सर्वरोगघ्नं रसभस्म भवेच्छुभम् ॥१०४॥

त्रयोविंशः प्रकारः

स्नुहीक्षीरैर्दिनं सूतं मर्दयेत् तदभावतः ।
अम्लवल्ल्या रसैर् एव तं रसं गन्धकैः समम् ॥१०५॥

गर्भयन्त्रे विनिक्षिप्य पूर्ववद् विपचेद्बुधः ।
मृतो भवेद्रसः सोऽयं सर्वरोगहरो भवेत् ॥१०६॥

चतुर्विंशः प्रकारः

गुञ्जाफलं रससमं मधुटङ्कणयावकैः ।
भृङ्गपत्ररसैर्युक्तं दिनम् एकं विमर्दयेत् ॥१०७॥

छादितं वज्रमूषायां धमयेन्मृदुवह्निना ।
अयं रसायनो वृष्यो रसः स्याच्छशिसन्निभः ॥१०८॥

पञ्चविंशः प्रकारः

समं गन्धरसं शुद्धं कीटमारिणिकाद्रवैः ।
अजमार्यहिमार्योर्वा श्वेताङ्कोलरसेन वा ॥१०९॥

मर्दयेत्त्रिदिनं क्षिप्त्वा मृण्मये संपुटे ततः ।
दिनमेकं करीषाग्नौ तुषाग्नौ वा दिनत्रयम् ॥११०॥

पचेत्ततः सूतभस्म जायते रुग्जरापहम् ।

षड्विंशः प्रकारः

ताम्राभ्रपातनायोगाच्छोधितं पारदं प्रिये ॥१११॥

वज्रभस्म समं हंसपादीद्रावैर्विमर्दयेत् ।
दिव्यौषधिभवैर् बीजैर् वज्रमूषान्तरं लिपेत् ॥११२॥

तस्मिन्पूर्वरसं क्षिप्त्वा रुद्ध्वाथ त्रिदिनं पचेत् ।
तुषाग्निना तत उद्धृत्य तत्तुल्यं द्रुतपारदम् ॥११३॥

हंसपादीरसैः सर्वं मर्दयेत्त्रिदिनं ततः ।
पूर्ववत्तं पचेत्सोऽयं रसो भस्मति निश्चयः ॥११४॥

जरामरणरोगघ्नः सर्वसिद्धिप्रदः शुभः ।

सप्तविंशः प्रकारः

वासितं पारदं कर्षमष्टगुञ्जं सुवर्णकम् ॥११५॥

मृतवज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ।
तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ॥११६॥

पचेद् भूधरयन्त्रे च पुनरादाय तं रसम् ।
हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥११७॥

पूर्ववद् भूधरे यन्त्रे पचेत्तं च पुनः पुनः ।
एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ॥११८॥

जरामरणदारिद्र्यनाशनं भवनाशनम् ।

अष्टाविंशः प्रकारः

युगांशः शुद्धसूतः स्यादेकांशं ताम्रचूर्णकम् ॥११९॥

अम्ले दिनं मर्दयेत्तं प्रक्षाल्यादाय पिष्टिकाम् ।
ताप्यसत्वं पिष्टिसमं चक्रमर्ददलद्रवैः ॥१२०॥

मर्दयेत् त्रिदिनं सर्वं गोलकं गर्भयन्त्रके ।
निक्षिप्य त्रिदिनं पाच्यं तुषाग्नौ वा सुरेश्वरि ॥१२१॥

दिवारात्रं करीषाग्नौ पचेद्भस्म भवेद्रसः ।

एकोनत्रिंशः प्रकारः

मुखीकृतरसं चाभ्रसत्वं स्वर्णं त्रयं समम् ॥१२२॥

रंभाद्रवेण संमर्द्यं दिनं सर्वसमं बिडम् ।
ततो दिव्यौषधीनां च बीजैर्मर्द्यं दिनत्रयम् ॥१२३॥

गर्भयन्त्रे पचेत्पश्चात्करीषाग्नौ मृतो भवेत् ।

त्रिंशः प्रकारः

खजीर्णसूतं विमलां समं निर्गुण्डिकारसैः ॥१२४॥

मर्दयित्वा त्र्यहं काचकूपिकायां विनिक्षिपेत् ।
सिकतायन्त्रके पच्याच्चतुर्यामेन भस्मितः ॥१२५॥

एकत्रिंशः प्रकारः

ताप्यसत्वं समं गन्धं द्वाभ्यां तुल्यं च जारितम् ।
सूतं निर्गुण्डिकां मर्द्य दिनं तद्गोलकं पुनः ॥१२६॥

वज्रमूषान्धितं कृत्वा धमेद्वा गड्डुयन्त्रके ।
पचेत्तद्रक्तवर्णं स्यात्स रसः सर्वरोगहा ॥१२७॥

रसभस्मलक्षणम्

अक्षयित्वं निरुत्थत्वं निर्लेपत्वं सुभस्मता ।
मारकत्वं च लोहानां लक्षयेद् रसभस्मतः ॥१२८॥

१. गन्धपिष्टी॑ प्रथमः प्रकारः

संचूर्ण्य शोधितं गन्धं पूर्वपत्ररसेन च ।
सप्तधा भावयेद् घर्मे स्त्रीणां च रजसा तथा ॥१२९॥

तथा मानवपित्तेन लोलयेद्गन्धकं पुनः ।
पलमेकं शुद्धरसं कर्परे चातपे न्यसेत् ॥१३०॥

तदूर्ध्वं लोलितं गन्धं विन्यस्याङ्गुष्ठमर्दितम् ।
कुर्यात्सूतो भवेत्पिष्टिः सर्वकर्मसु सिद्धिदः ॥१३१॥

द्वितीयः प्रकार, स्वर्णगन्धपिष्टी

गन्धकं शोधितं देवि तिलपर्णीरसेन च ।
सप्तधा मर्दयेच्छोष्यं छायायां भावयेत् क्रमात् ॥१३२॥

मूषायां पारदं शुद्धं पलमात्रं विनिक्षिपेत् ।
सुवर्णनिष्कगुलिकां मूषायां निक्षिपेत्ततः ॥१३३॥

तत्र नारीरजोमूत्रमलमात्रं विनिक्षिपेत् ।
वालुकायन्त्रमध्ये च तां मूषां स्थापयेच्छिवे ॥१३४॥

अल्पमल्पं पूर्वगन्धं वारं वारं विनिक्षिपेत् ।
मृद्वग्निना पचेद्यावत्कर्षगन्धं च जीर्यते ॥१३५॥

अवतार्य स्वाङ्गशीतमाहरेत्स्वर्णगोलकम् ।
स्वर्णपिष्टिर्भवेद्दिव्या सर्ववाञ्छितदायिनी ॥१३६॥

तृतीयः प्रकारः

भावयेन्मर्कटीतोयैः शतधा शुद्धगन्धकम् ।
छायायां शुद्धसूतं च घर्मे मृत्कर्परे क्षिपेत् ॥१३७॥

किंचित् किंचित् पूर्वगन्धं निक्षिपेन्मर्कटीरसम् ।
जीर्णे गन्धे द्रवं देयं मुहुर् गन्धं मुहुर्द्रवम् ॥१३८॥

यावत्पादांशकं जीर्णं गन्धं च पिष्टिका भवेत् ।
दिव्या सा सर्वकर्मार्हा देवानामपि दुर्लभा ॥१३९॥

चतुर्थः प्रकारः

शुद्धगन्धं चूर्णयित्वा त्रिवारं काञ्जिकेन च ।
जम्बीराम्लैस्त्रिवारं च हंसपादीरसेन च ॥१४०॥

सप्तधा क्षालयेदेवं कर्पूरं भावयेत्पृथक् ।
श्वेताद्रिकर्णिकातोयैर् आतपे च त्रिवारकम् ॥१४१॥

द्विगुञ्जमात्रं कर्पूरं यन्त्रान्तः परिलेपयेत् ।
तत्र गन्धं सार्धनिष्कं भावितं चूर्णितं क्षिपेत् ॥१४२॥

तदूर्ध्वं च पलं सूतं निक्षिपेत्तस्य पृष्ठतः ।
पूर्वमात्रं च कर्पूरं तदूर्ध्वं सार्धनिष्ककम् ॥१४३॥

गन्धकं च पुनः क्षिप्त्वा ततो गोमूत्रकेन च ।
श्वेताद्रिकर्णिकामूलं पिष्ट्वा तत्कल्ककेन च ॥१४४॥

आच्छाद्य तच्छरावेण रोधयेत्पाचयेत्क्रमात् ।
जालिकायन्त्रमध्ये च दिव्यं पश्चात्तमुद्धरेत् ॥१४५॥

एवं कुर्यात्त्रिवारं च गन्धपिष्टिर् भवेद् ध्रुवम् ।

पञ्चमः प्रकारः

स्नेहलिप्ते खल्वमध्ये शुद्धसूतं पलं न्यसेत् ॥१४६॥

कर्षं च शोधितं गन्धं देवदालीद्रवं क्षिपेत् ।
कराङ्गुल्या खरे घर्मे मर्दयेत् पिष्टिका भवेत् ॥१४७॥

षष्ठः प्रकारः

ताम्रखल्वे पलं सूतं कर्षार्धं गन्धकं क्षिपेत् ।
मृद्वग्निना पचेद्यामं कराङ्गुष्ठेन चालयेत् ॥१४८॥

गन्धपिष्टिर्भवेद्दिव्या सर्वकर्मकरी शुभा ।

पिष्टीस्तम्भनम् (२)

पिष्टीनां स्तम्भनं वक्ष्ये तिक्तकोशातकीभवम् ॥१४९॥

बीजं चण्डालिनीकन्दं तुल्यं कान्तास्तनोद्भवैः ।
क्षीरैः पिष्ट्वा च तां पिष्टीं लेपयेदङ्गुलं दृढम् ॥१५०॥

वन्ध्याकन्देऽथवा क्षीरकन्दे वा सूरणोद्भवे ।
कन्दे वा वज्रकन्दे वा कन्दे वा कुडुहुञ्चिजे ॥१५१॥

तां पिष्टिं निक्षिपेत्तत्तन्मज्जया रोधयेन्मुखम् ।
तत्कन्दं च मृदा लिप्त्वा पुटेद्भूधरयन्त्रके ॥१५२॥

दिवानक्तं करीषाग्नावूर्ध्वाधः परिवर्तनम् ।
यथा कन्दं तु न दहेत्तथा पाकक्रमः स्मृतः ॥१५३॥

अथ पिष्टिं समानीयाद् भवेत्सा स्तम्भिता प्रिये ।

पिष्टीजारणम् (२)

पिष्टीनां स्तम्भितानां च जारणा वक्ष्यते शिवे ॥१५४॥

स्तनयन्त्रे लोहकृते गन्धकं पिष्टितुल्यकम् ।
क्षिपेदूर्ध्वं च देवेशि स्तम्भितां गन्धपिष्टिकाम् ॥१५५॥

तदूर्ध्वं पिष्टितुल्यं च गन्धकं चूर्णितं क्षिपेत् ।
निरुध्य भूधरे यन्त्रे पाचयेज्जारयेत्क्रमात् ॥१५६॥

गन्धं पुनःपुनर्देयमेवं शतगुणं प्रिये ।
जीर्णे शतगुणे गन्धे यन्त्रात्पिष्टिं समाहरेत् ॥१५७॥

सर्वासां गन्धपिष्टीनां जारणं स्याच्च रञ्जनम् ।

पिष्टीमारणम् (२)

जारितानां च पिष्टीनां प्रवक्ष्ये मारणक्रमम् ॥१५८॥

तप्तखल्वे विनिक्षिप्य जारितां गन्धपिष्टिकाम् ।
दिव्यौषधिरसैः पिष्ट्वा दिनं कुर्याच्च गोलकम् ॥१५९॥

दिव्यौषधीनां बीजानि पिष्ट्वा दिव्यौषधोद्भवैः ।
स्वरसैर् वज्रमूषान्तर् लेपयेत्पूर्वगोलकम् ॥१६०॥

क्षिप्त्वा निरुध्य मूषास्यं पचेद्भूधरयन्त्रके ।
प्रवर्तयंश्चोर्ध्वमधो दिनमेकं पुनः प्रिये ॥१६१॥

समाहृत्य यथापूर्वं पूर्वतोयैश्च मर्दयेत् ।
पुटयेत्पूर्ववद्देवि दशवारमिति क्रमात् ॥१६२॥

असंशयं गन्धपिष्टिर्म्रियते सर्वकार्यकृत् ।
गन्धपिष्टिक्रमाज् जातरसभस्मानि भैरवि ॥१६३॥

सर्वकर्मसु मुख्यानि विशेषाद्वादकर्मणि ।

रसबन्धाः॑ प्रथमः प्रकारः > वैक्रान्तबन्धः

वक्ष्यामि रसबन्धानि शृणु भैरवि सम्प्रति ॥१६४॥

शोधितं पारदं खल्वे दशनिष्कं विनिक्षिपेत् ।
निष्कैकं शुद्धगन्धं च स्वल्पं स्वल्पं विनिक्षिपेत् ॥१६५॥

कुट्टयेन्मर्दयेद् ग्राव्णा पिष्टिः स्याद्याममात्रके ।
क्षीरकन्देऽथवा वन्ध्याकन्दे वा कुडुहुञ्चिजे ॥१६६॥

कन्दे वा निक्षिपेत्पक्वे शुभे गन्धकपिष्टिकाम् ।
निष्कार्धं भस्म वैक्रान्तमूर्ध्वाधो निक्षिपेत्सुधीः ॥१६७॥

तत्कन्दमज्जया वक्त्रं निरुध्य च मृदा बहिः ।
लिम्पेदङ्गुलिमात्रेण शोषयित्वाथ सर्वतः ॥१६८॥

अष्टवारं पचेद्यन्त्रे भूधरे कौक्कुटे पुटे ।
करीषाग्नौ पुनः कुर्यादूर्ध्वभागमधः प्रिये ॥१६९॥

अधोभागं तथोर्ध्वं च भूयो भूयः प्रवर्तनम् ।
एवमेकदिनं पश्चात्पचेद्युगकरीषकैः ॥१७०॥

पक्वदाडिमबीजाभो बद्धो भवति पारदः ।
वैक्रान्तबद्धनामा स्याच्चूर्णितो योगवाहकः ॥१७१॥

द्वितीयः प्रकारः > गन्धकबन्धः

पूर्वोक्तां गन्धपिष्टीं तां वस्त्रे बद्ध्वाथ संपुटे ।
लोहजे पोट्टलीं स्थाप्यचोर्ध्वाधः समगन्धकम् ॥१७२॥

निरुध्य संपुटं सम्यक् पचेत् भूधरयन्त्रके ।
यथा जीर्णो भवेद्गन्धो भूयो भूयस्तथापि च ॥१७३॥

एव षड्गुणगन्धस्तु जारणीयो महेश्वरि ।
एवं गन्धकबद्धोऽयं रसः सर्वामयापहः ॥१७४॥

तृतीयः प्रकारः > गन्धकबन्धः

षोडशाङ्गुलदीर्घा च जम्बीरफलविस्तृता ।
पक्वमूषा दृढतरा वालुकायन्त्रमध्यतः ॥१७५॥

त्रिभागमग्नां कुर्वीत बहिः पादांशसंस्थिताम् ।
तस्यां क्षिपेद्गन्धसूतं पलमेकं सुरेश्वरि ॥१७६॥

सूताद् अथोर्ध्वभागे तु द्विपलं शुद्धगन्धकम् ।
निक्षिपेत्तन्मुखं सम्यग्रोधयेन्मन्दवह्निना ॥१७७॥

पचेन्निर्धूमता यावत्तावद्धूमे गते पुनः ।
काकमाचीद्रवैः पूर्या तद्द्रवे जीर्णतां गते ॥१७८॥

रसेन नागवल्ल्याश्च पूरणीया पुनः प्रिये ।
उन्मत्तकरसैः पूर्या शनैर्मन्दाग्निना पचेत् ॥१७९॥

गन्धकं जीर्यते यावत्काकमाच्यादिकद्रवैः ।
धत्तूरान्तैः पचेदेवं बद्धो भवति पारदः ॥१८०॥

नाम्ना गन्धकबद्धोऽयं सर्वयोगेषु योजयेत् ।

चतुर्थः प्रकारः गन्धकस्वर्णबन्धः

पूर्ववद्गन्धपिष्टिं च विधायादौ विचक्षणः ॥१८१॥

सप्तार्धनिष्कसूतः स्यादध्यर्धं शुद्धहाटकम् ।
याममम्लेन संमर्द्यं ख्यातोऽयं हेमपिष्टिका ॥१८२॥

गन्धपिष्टिं हेमपिष्ट्या समयावेष्ट्य बाह्यतः ।
स्तनाकारे लोहमये संपुटे वस्त्रबन्धिताम् ॥१८३॥

कृत्वा तां पिष्टिकां क्षिप्त्वा पिष्ट्यूर्ध्वाधश्च गन्धकम् ।
सर्वतुल्यं क्षिपेत् सन्धिं रुद्ध्वाम्ललवणैः सुधीः ॥१८४॥

पचेद्भूधरयन्त्रे च जीर्णे जीर्णे पुनः पुनः ।
षड्गुणं गन्धकं दद्यात्ततो वस्त्रं शनैर्हरेत् ॥१८५॥

समांशं गन्धकं भूयो भूयो जार्यं शनैः शनैः ।
निःशेषं गन्धकं नैव कुर्याच्चेत्पारदच्युतिः ॥१८६॥

एवं शतगुणे जीर्णे गन्धपिष्टिं समाहरेत् ।
तत्समांशसुवर्णस्य संपुटे पिष्टिकां क्षिपेत् ॥१८७॥

काचं कन्याद्रवैः पिष्ट्वा लेपयेद्बाह्यतोऽङ्गुलम् ।
ततष्टङ्कणकैर्लिप्त्वा पश्चान्मृल्लवणैः क्रमात् ॥१८८॥

एकैकं लेपनं कार्यं वेष्ट्यमङ्गुलमानकम् ।
प्रतिलेपं शोषयेच्च कोष्ठीयन्त्रगतं धमेत् ॥१८९॥

वङ्कनालेन तीव्रेण वह्निना प्रहरं भवेत् ।
उदयादित्यसङ्काशं खोटं दिव्यरसायनम् ॥१९०॥

गन्धहाटकबन्धोऽयं जराव्याधिदरिद्रहा ।

पञ्चमः प्रकारः गन्धकबन्धः

अथवा गन्धपिष्टिं तां वस्त्रे बद्ध्वाथ गन्धकम् ॥१९१॥

तुल्यं दत्त्वा निरुध्याथ संपुटे लोहजे दृढम् ।
पुटेत्तद्भूधरे तावद्यावज्जीर्यति गन्धकम् ॥१९२॥

एवं पुनः पुनर्देयं यावद्गन्धं तु षड्गुणम् ।
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगजित् ॥१९३॥

षष्ठः प्रकारः मूलिकाबन्धः

कार्कोटीमूलजैर्द्रावैः पारदं मर्दयेद्दिनम् ।
मर्कटीमूलजे पिण्डे क्षिपेत्तं मर्दितं रसम् ॥१९४॥

तं पिण्डं वज्रमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
जायते खोटबद्धोऽयं सर्वकार्यकरः शुभः ॥१९५॥

सप्तमः प्रकारः मूलिकाबन्धः

अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां प्रलेपयेत् ।
तन्मध्ये रञ्जितं सूतं क्षिप्त्वा बद्ध्वाथ रोधयेत् ॥१९६॥

मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।
पचेद्गजपुटे पश्चात्पारदो बन्धमाप्नुयात् ॥१९७॥

अष्टमः प्रकारः मूलिकाबन्धः

जलकुम्भीरसैः सूतं मर्दयेद्दिवसत्रयम् ।
जलकुम्भीदलैर्मूषां कृत्वा तत्र क्षिपेद्रसम् ॥१९८॥

रुद्ध्वा तां वज्रमूषायां छायाशुष्कं पुटेल्लघु ।
छगणैरेकवृद्ध्या तु त्रिंशद्वारं पुटैः पचेत् ॥१९९॥

ततो गजपुटे देयं सम्यग्बद्धो भवेद्रसः ।

नवमः प्रकारः मूलिकाबन्धः

एकवीराद्रवैर्मर्द्यं दिनं शुद्धं तु सूतकम् ॥२००॥

एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।
तस्यां पूर्वरसं क्षिप्त्वा ध्माते बद्धो भवेद्रसः ॥२०१॥

दशमः प्रकारः मूलिकाबन्धः

आरक्तक्षीरकन्दोत्थद्रवैः स्त्रीस्तन्यसंयुतैः ।
त्रिदिनं पारदं मर्द्यं वज्रकन्दद्रवैस्त्र्यहम् ॥२०२॥

क्षीरकन्दस्य कल्केन वज्रमूषां प्रलेपयेत् ।
तत्र पूर्वरसं बद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०३॥

एकादशः प्रकारः मूलिकाबन्धः

अर्कमूलफलं पिष्ट्वा मूषां तेन प्रलेपयेत् ।
तन्मध्ये निक्षिपेन्मूषां पुङ्खामूलविनिर्मिताम् ॥२०४॥

तन्मध्ये सूतकं क्षिप्त्वा पुङ्खामूलसमुद्भवैः ।
पूरयित्वा रसैर्मूषां निरुन्ध्यात् तन्मुखं दृढम् ॥२०५॥

एवमन्धीकृतां मूषां क्षिपेत्सम्पुटमध्यतः ।
ततस्तं लेपयेद्यत्नाल्लवणेन मृदा तथा ॥२०६॥

ततोऽसौ पुटयोगेन सूतो बन्धमवाप्नुयात् ।
राजिकाद्वयमात्रेण चित्रकद्रवसैन्धवैः ॥२०७॥

चूर्णितो भक्षितः प्रातः सर्वरोगविनाशकः ।

द्वादशः प्रकारः मूलिकाबन्धः

कपित्थस्य शिफानीरैर्यामं सूतं विमर्दयेत् ॥२०८॥

अन्यस्याम् अन्धमूषायां सूतमूषां निरोधयेत् ।
तथा धमेत्ततो मूषां यथा सिन्दूरवद् भवेत् ॥२०९॥

एवं कृते रसेन्द्रोऽसौ बध्यते नात्र संशयः ।
मूलिकाबन्धनं ह्येतद्रसेन्द्रस्य प्रकीर्तितम् ॥२१०॥

इत्येते मारिताः सूता मूर्छिता बन्धमागताः ।
प्रत्येकं योजितास्तत्र प्रयोगैर्योगवाहिनः ॥२११॥

रसमूर्च्छनाविधिः॑ प्रथमः प्रकारः

अथ शुद्धस्य सूतस्य मूर्च्छनाविधिरुच्यते ।
मेघनादवचाहिङ्गुलशुनैर् मर्दयेद्रसम् ॥२१२॥

दिनं पिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥२१३॥

ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत् ॥२१४॥

जीर्णे गन्धं पुनर्देयं षड्भिर्वारैः समं समम् ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥२१५॥

द्वितीयः प्रकारः

गन्धकं धूमसारं च शुद्धं सूतं समं समम् ।
यामैकं चूर्णयेत्खल्वे काचकुप्यां निवेशयेत् ॥२१६॥

रुद्ध्वा द्वादशयामान्तं वालुकायन्त्रके पचेत् ।
स्फोटयेत् स्वांगशीतं तमूर्ध्वस्थं गन्धकं त्यजेत् ॥२१७॥

अधःस्थं रसम् आदाय सर्वयोगेषु योजयेत् ।

तृतीयः प्रकारः

शुद्धसूतं तथा गन्धं सूतार्धं सैन्धवे क्षिपेत् ॥२१८॥

द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।
कृत्वा गोलं तु संशोष्य मूषायां तं निरोधयेत् ॥२१९॥

शोषयित्वा धमेत् किंचित् सुतप्तेऽथ जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकन्दरसभावितम् ॥२२०॥

योजयेत् सर्वरोगेषु धमेद्वा भूधरे पचेत् ।

चतुर्थः प्रकारः

रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥२२१॥

कृत्वा तद्बन्धयेद्वस्त्रे डोलायन्त्रगतं पचेत् ।
गोमूत्रे तद्गतं यामं नरमूत्रैर्दिनत्रयम् ॥२२२॥

शोषयेत्तत्पुनर्वस्त्रैर्बद्ध्वा वेष्ट्यं मृदा दृढम् ।
शुष्कं निरुध्य मूषायां पचेदथ तुषाग्निना ॥२२३॥

ऊर्ध्वभागमधः कृत्वा त्वधोभागमथोर्ध्वगम् ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥२२४॥

पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ।
सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ॥२२५॥

चण्डालीरुधिरं सूतं सूतपादं च टङ्कणम् ।
जयन्त्या मर्दयेद् द्रावैर्दिनमेकं तु गोलकम् ॥२२६॥

पिष्टया सहदेव्याथ लेपयेत्ताम्रसम्पुटम् ।
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ॥२२७॥

वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ।
चित्रकैः सहदेव्या च गन्धकं लेपयेद्बहिः ॥२२८॥

सम्पुटं बन्धयेद्वस्त्रे मृदा लेप्यं च शोषयेत् ।
तं रुद्ध्वा चान्यमूषायां ध्माते सम्पुटमाहरेत् ॥२२९॥

सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः ।
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥२३०॥

पञ्चमः प्रकारः

धुत्तूरकद्रवैर्मर्द्यं दिनं गन्धांशसूतकम् ।
अन्धमूषागतं स्वेद्यं भूधरे मूर्छितो दिनात् ॥२३१॥

षष्ठः प्रकारः

कृत्वा षडङ्गुलां मूषां सुपक्वां मृण्मयीं दृढाम् ।
मूषागर्भे विलिप्याथ मूलैर् वर्तुलपत्त्रजैः ॥२३२॥

तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा तां वालुकायन्त्रे चुल्ल्यां दीपाग्निना पचेत् ॥२३३॥

सप्ताहान्ते समुद्धृत्य योजयेत्तं जरापहम् ।

सप्तमः प्रकारः

कुरण्डकरसैः सान्द्रमातपे मर्दयेद्रसम् ॥२३४॥

लताकरञ्जपत्रोत्थैः पादांगुष्ठेन मर्दयेत् ।
दिनैकं मूर्छितं सम्यक् सर्वयोगेषु योजयेत् ॥२३५॥

अष्टमः प्रकारः

कासीसं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ।
कासीसस्याप्यभावे तु दातव्या फुल्लतूरिका ॥२३६॥

स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मूर्छयेत् ।
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित् ॥२३७॥

स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ।
ऊर्ध्वलग्नं ततः शुभ्रं मूर्छितं चाहरेच्छुभम् ॥२३८॥

नवमः प्रकारः

अथ शुद्धस्य सूतस्य मूर्छितस्यापरो विधिः ।
सूततुल्यं मृतं स्वर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥२३९॥

रविक्षीरैर्दिनं मर्द्यमन्धयेद्भूधरे पुटे ।
दिनैकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥२४०॥

शुभ्रः शोणोऽथवा कृष्णवर्णो गुरुतरो रसः ।
पुनरुत्थानवान्यस्तु मूर्छितः स उदाहृतः ॥२४१॥

मूलिकाबन्धाः

श्रीभैरवी ।
कीदृशी ओषधी नाथ रसमूर्च्छाकरी शुभा ।
केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥२४२॥

श्रीभैरवः ।
शृणु भैरवि तत्त्वेन रहस्यं रसबन्धनम् ।
ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं सुरवन्दिते ॥२४३॥

निशाचरमूलिकाकल्पः

गङ्गायमुनयोर्मध्ये प्रयागो नाम राक्षसः ।
तस्यासने वरारोहे क्षणाद्बध्येत सूतकः ॥२४४॥

निशाचरस्य पत्राणि गृह्णीयात्साधकोत्तमः ।
ततो निपीड्यते देवि रसो भवति चोत्तमः ॥२४५॥

रसं संमर्द्य तेनैव दिनानि त्रीणि वार्तिकः ।
आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत् ॥२४६॥

तेन पत्ररसेनैव साधयेद्गन्धकं पुनः ।
सप्तधा भावितं तेन त्र्यूषणेन सहैकतः ॥२४७॥

यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ।
मासमात्रेण देवेशि जीर्यते तु समं समम् ॥२४८॥

समजीर्णे तु गगने शतवेधी भवेद्रसः ।
निशाचररसे देवि गन्धकं भावयेत्ततः ॥२४९॥

भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु ।
तारस्य पत्रलेपेन अर्धार्धे काञ्चनोत्तमम् ॥२५०॥

गन्धके समजीर्णे ऽस्मिन् शतवेधी भवेद्रसः ।
निशाचररसैर्भाव्यं सप्तवारं तु तालकम् ॥२५१॥

तेनैव घातयेद्वङ्गं नागं तारे तु निर्वहेत् ।
तत्तारं जारयेत्सूते तत्सूतं बन्धितं भवेत् ॥२५२॥

चतुः षष्टितमे भागे शुल्बवेधं तु दापयेत् ।
तदंशं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥२५३॥

निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् ।
पलानि दशचूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥२५४॥

घृतेन मधुनालोड्यं नवभाण्डे विनिक्षिपेत् ।
धान्यराशौ निधातव्यं त्रिः सप्ताहं सुरेश्वरि ॥२५५॥

तेन भक्षितमात्रेण वलीपलितवर्जितः ।
वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् ॥२५६॥

अर्धमासप्रयोगेण प्रत्ययोगं भवेत्प्रिये ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥२५७॥

मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ।

मेर्चुर्य् > पट्टबन्ध

ग्राह्यं तत्फलतैलं तु यन्त्रे पातालसंज्ञके ॥२५८॥

तेन तैलेन देवेशि रसं संकोचयेद् बुधः ।
तत्क्षणाज्जायते देवि पाटबन्धो महारसः ॥२५९॥

कटकं कङ्कणं कार्यं रसलिङ्गं वरानने ।
संकोचमरणं तेन कर्तव्यं परमाद्भुतम् ॥२६०॥

अङ्गनायिकाकल्पः

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ।
त्रैलोक्यजननी या सा ओषधी अङ्गनायिका ॥२६१॥

तया संपर्कमात्रेण बद्धस्तिष्ठति पारदः ।
सप्ताहं मर्दितस्यास्य महौषध्या रसै रसः ॥२६२॥

शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ।
त्रिः सप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि ॥२६३॥

लक्षवेधी रसः साक्षादष्टौ लोहानि विध्यति ।
त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति ॥२६४॥

चतुर्थे चैव सप्ताहे कोटिवेधी भवेद्रसः ।
स्वेदतापनिघर्षेण महौषध्या रसेन तु ॥२६५॥

ददाति खेचरीं सिद्धिमनिवारितगोचरः ।
कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे ॥२६६॥

नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेदसौ ।
महौषध्या रसेनैव मृतसंजीवनं भवेत् ॥२६७॥

अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये ।
मृतस्य दापयेन्नस्यं हस्तौ पादौ तु मर्दयेत् ॥२६८॥

तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ।

नरसारकल्पः

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२६९॥

नरसारस्पर्शनेन क्षणाद्बध्येत सूतकः ।
नरसाररसं दत्त्वा द्विपदीरजसा रसे ॥२७०॥

दिनान्ते बन्धमायाति सर्वलोहानि रञ्जति ।
नरसाररसेनैव भावयेत्तु मनःशिलाम् ॥२७१॥

निर्गन्धा जायते सा तु घातयेत्तेन पन्नगम् ।
द्विपदीरजसा सार्धं निरुद्धः पन्नगो भवेत् ॥२७२॥

नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥२७३॥

नरसाररसे स्तन्ये भावितं सप्तधा पृथक् ।
रसस्य दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥२७४॥

जीर्यते गगनं देवि निर्मुखे च वरानने ।
नरसाररसेनेशि कीटनारीरसेन च ॥२७५॥

द्रावयेद्गगनं देवि तीक्ष्णलोहं च पन्नगम् ।
नरसाररसेनेशि हनुमत्या रसेन च ॥२७६॥

जायते काञ्चनं दिव्यं निषेकाद्भास्करः प्रिये ।
नरसाररसे दत्त्वा मञ्जिष्ठां रक्तचन्दनम् ॥२७७॥

स्वरसैर्मदयन्त्याश्च पन्नगं देवि सेचयेत् ।
तत्क्षणात्काञ्चनं दिव्यं सप्तवारा निषेचितम् ॥२७८॥

अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ।
नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् ॥२७९॥

तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमाप्नुयात् ।
तद्भस्म ताम्रपिष्टे तु त्रिगुणं तेन निर्वहेत् ॥२८०॥

तच्छुल्बं हेमसङ्काशं तारे वाष्टांशयोजितम् ।
तारं हेमसमांशं तु द्विवर्णं पतितं भवेत् ॥२८१॥

नरसाररसे भाव्यं रसकं सप्तवारतः ।
नरसाररसेनैव रसेन्द्रं सप्तवारतः ॥२८२॥

तं रसं रसकं चैव तीक्ष्णलोहं च पन्नगम् ।
नरसाररसेनैव तेनैकत्र विमर्दयेत् ॥२८३॥

तत्क्षणाज्जायते बद्धो रसस्य रसकस्य च ।
तीक्ष्णनागं तथा शुल्बं रसकेन तु रञ्जयेत् ॥२८४॥

हठात्तज्जायते हेम कूष्माण्डकुसुमप्रभम् ।

कङ्कालखेचरीकल्पः

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२८५॥

कङ्कालखेचरी नाम्ना ओषधी परमेश्वरि ।
तस्य तैलं तु संग्राह्यम् आद्यखेचरिसंयुतम् ॥२८६॥

स्थापयेद्दिनमेकं तु पात्रे भास्करनिर्मिते ।
द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् ॥२८७॥

अनले धामयेत्तं तु सुतप्तं प्रज्वलत्प्रभम् ।

मन्त्रसिह्मासनीकल्पः

सबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये ॥२८८॥

मन्त्रसिंहासनी नाम तृतीया देवि खेचरी ।
पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥२८९॥

तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसम् ।
मेदिनीयन्त्रमध्ये तु स्थापयेच्च वरानने ॥२९०॥

पूर्वौषध्यां तु तद्देवि गगनं मेदिनीजले ।
रसे मासं ततो दत्त्वा मर्दनाद् गोलकं कुरु ॥२९१॥

बद्ध्वा पोट्टलिकां तेन गगनं जारयेत्प्रिये ।
समे तु गगने जीर्णे बद्धस्तिष्ठति पारदः ॥२९२॥

भस्त्राफूत्कारयुक्तेन धाम्यमानो न नश्यति ।
काकविष्ठासमं रूपं समजीर्णस्य जायते ॥२९३॥

द्विगुणे गगने जीर्णे ह्यष्टलोहानि संहरेत् ।

इरिन्दिरीकल्पः

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२९४॥

शिवदेहात्समुत्पन्ना ओषधी तु इरिन्दिरी ।
जारयेद्गन्धकं सा तु जारयेत्सापि तालकम् ॥२९५॥

काञ्चनं जारयेत्सा तु रसेन्द्रं सा च बन्धयेत् ।
प्रवालं द्रावयेत्सा तु द्रावयेद्गगनं तथा ॥२९६॥

वज्रं च घातयेत्सा तु सर्वसत्वं च घातयेत् ।
जारयेत्सर्वलोहानि सत्वान्यपि च जारयेत् ॥२९७॥

इरिन्दिरीरसे न्यस्य गोशृङ्गे तु वरानने ।
धान्यराशौ निधातव्यं द्रुतस्तिष्ठति पारदः ॥२९८॥

दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते ।
समे तु कनके जीर्णे दशकोटिं तु वेधयेत् ॥२९९॥

पञ्चमे लक्षकोटिं तु षड्गुणे स्पर्शवेधकः ।
सप्तमे धूपवेधी स्यादष्टमे त्ववलोकतः ॥३००॥

नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते ।
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥३०१॥

तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥३०२॥

दिव्यौषध्यश्चतुः षष्टिः कुलमध्ये व्यवस्थिताः ।
नैव जानाति मूढास्ताः शिवमोहेन मोहिताः ॥३०३॥

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।
तृणौषध्या रसे सूतो नैव बद्धः कदाचन ॥३०४॥

अक्षयो नैव तिष्ठेत कुलौषधिविवर्जितः ।
कुलौषध्या विहीनास्तु गगनं चारयन्ति ये ॥३०५॥

स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।
न खोटं न च वा भस्म नैव द्रव्यं करोति सः ॥३०६॥

किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।
पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥३०७॥

न वेधं च शतादूर्ध्वं करोति स रसः प्रिये ।
यावन्न चाब्दम् एकं तु विक्रान्तं त्रपु तत्तु काञ्चनम् ॥३०८॥

धर्मार्थकाममोक्षेषु नैव दद्यात्ततः प्रिये ।
श्रीभैरवी ।
निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ॥३०९॥

निर्जीवेन तु निर्जीवं कथं जीवति शंकरः ।
श्रीभैरवः ।
दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥३१०॥

कालिकारहितः सूतस्तदा भवति पार्वति ।
परस्य हरते कालं कालिकारहितो रसः ॥३११॥

अष्टानां चैव लोहानां मलं शमयति क्षणात् ।
महामूर्च्छागतं सूतं को वा विकथयेन्मृतम् ॥३१२॥

दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।
पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥३१३॥

क्ष्मापालकल्पः

पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ।
क्ष्मापालेन हरेद्वज्रम् अनेनैव तु काञ्चनम् ॥३१४॥

वज्रभस्म हेमभस्म तद्वा एकत्र बन्धयेत् ।

अन्ये कुलमूलिकाकल्पाः

निशाचररसे जार्यं नरजीवेन जारयेत् ॥३१५॥

तं सूतं मारयेद्भद्रे जागरिर् दिव्य ओषधिः ।
भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः ॥३१६॥

भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ।
प्रस्वेदात्तस्य गात्रस्य अष्टौ लोहानि काञ्चनम् ॥३१७॥

लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः ।
प्रस्वेदात्तस्य गात्रस्य रसराजश्च बध्यते ॥३१८॥

अजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ।
जागरीस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥३१९॥

तुरुवल्ल्या रसेनैव भावितं गगनं प्रिये ।
जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥३२०॥

द्रुतगोलकमाषैकं माषैकं हेमगोलकम् ।
एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् ॥३२१॥

कर्षैकं नागपत्राणि रसकल्केन लेपयेत् ।
वेष्टयेद्वृश्चिकालीं च तत्पिण्डं लेपयेत्ततः ॥३२२॥

मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् ।
कर्षैकं तारपर्णानि मृतनागेन लेपयेत् ॥३२३॥

लेपयेद् वृश्चिकालीं च तत्पत्रं लेपयेत्ततः ।
तत्तारं म्रियते देवि सिन्दूरारुणसन्निभम् ॥३२४॥

सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरभूषणम् ॥३२५॥

क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति ।
नाम्ना वर्तुलपत्त्राणि शस्यते रसबन्धने ॥३२६॥

एकवारं कन्दकल्के मूकमूषागतं रसम् ।
धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥३२७॥

रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् ।
मूषायां पूर्वयोगेन कुरुते सूतबन्धनम् ॥३२८॥

वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् ।
धमयेत् पूर्ववत्सूतं भक्षणार्थाय वार्तिकः ॥३२९॥

वज्रकन्दं समादाय रसं मध्ये विनिक्षिपेत् ।
गजेन्द्राख्यं पुटं दद्यात्सप्तधा बन्धतां नयेत् ॥३३०॥

भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् ।
लाङ्गलीकन्दमादाय कर्कोटीकन्दम् एव च ॥३३१॥

रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ।
म्रियते नात्र सन्देहो ध्मातस्तीव्रानलेन तु ॥३३२॥

शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ।
शतांशवेधकर्तायं देहसिद्धिकरो भवेत् ॥३३३॥

हंसपादीरसं सूतं शुष्ककन्दोदरे क्षिपेत् ।
गजेन्द्रपुटनं दद्यान्म्रियते नात्र संशयः ॥३३४॥

सहस्रवेधकर्ता च जायते नात्र संशयः ।
हंसाङ्घ्रिं शुकचञ्चुं च गृहीत्वा मर्दयेद्रसम् ॥३३५॥

क्रौञ्चपादोदरे क्षिप्त्वा ततो दद्यात्पुटत्रयम् ।
म्रियते नात्र सन्देहो लक्षवेधी महारसः ॥३३६॥

तृणज्योतिःकल्पः

तृणज्योतिरिति ख्यातां शृणु दिव्यौषधिं प्रिये ।
निशा तु प्रज्वलेन्नित्यं नाह्ना ज्वलति पार्वति ॥३३७॥

तस्य मूले तु संक्षिप्ते क्षीरं रक्तं भवेत्क्षणात् ।
तन्मूलरसगन्धाभ्रैर् मातुलुङ्गाम्लपेषितैः ॥३३८॥

शुल्बपत्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ।
तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि ॥३३९॥

मातुलुङ्गरसे घृष्टमभ्रकं चरति क्षणात् ।

उच्चाटाकल्पः

अथोच्चाटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ॥३४०॥

एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ।
तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ॥३४१॥

तत्पत्राणि च देवेशि शुकपिञ्छनिभानि च ।
तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ॥३४२॥

जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ।
वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ॥३४३॥

रसतालकतुत्थानि मर्दयेदुच्चटारसैः ।
आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥३४४॥

वेधयेत्सर्वलोहानि लक्षांशेन वरानने ।
आवर्तितं भवेद्यावज्जायतेऽर्कसमप्रभम् ॥३४५॥

रक्तस्नुहीकल्पः

रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् ।
दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥३४६॥

स्नुहीक्षीरं समादाय निशाचूर्णेन वेष्टयेत् ।
गुटिकीकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥३४७॥

स्थलपद्मिनीकल्पः

अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।
पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥३४८॥

भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णा सुशोभना ।
आक-रम्य वामपादेन पश्येद्गगनमण्डलम् ॥३४९॥

पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥३५०॥

तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् ।
मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥३५१॥

मर्दयेत्सप्तरात्रं तु तेन शुल्बं च वेधयेत् ।
सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥३५२॥

तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये ।
चारयेत्सूतराजं तु मूकमूषागतं धमेत् ॥३५३॥

म्रियते मूषिकामध्ये संकोचेन न संशयः ।
तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥३५४॥

चित्रककल्पः

चित्रकस्य यथा गुह्यं कथयामि समासतः ।
त्रिविधश्चित्रको ज्ञेयः कृष्णो रक्तो रसायनम् ॥३५५॥

शुक्लो व्याधिप्रशमनः श्रेष्ठमध्यकनीयसाः ।
कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद् बुधः ॥३५६॥

कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि ।
क्षीरमध्ये क्षिपेत्क्षीरं कृष्णवर्णं भवेत् क्षणात् ॥३५७॥

तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् ।
धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥३५८॥

रक्तांबरधरो भूत्वा रक्तमाल्यानुलेपनः ।
कृष्णपक्षे तु पञ्चम्यां रक्तमाल्यौदनेन तु ॥३५९॥

बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ।
रक्तचित्रकचूर्णेन वङ्गं पायैस्त्रिभिस्त्रिभिः ॥३६०॥

सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ।
तन्मूलं सूतकं ताम्रं कुङ्कुणीतैलसेचनात् ॥३६१॥

एकविंशतिवारेण शुद्धं शुल्बं भविष्यति ।
रक्तचित्रकभल्लाततैललिप्तं पुटेन तु ॥३६२॥

चन्द्रार्कपत्रं देवेशि जायते दिव्यकाञ्चनम् ।
नागिनीकन्दसूतेन्द्ररक्तचित्रसंयुतम् ॥३६३॥

पत्रलेपप्रतीवापैश्चन्द्रार्कं काञ्चनं भवेत् ।

ज्योतिष्मतीतैलकल्पः

ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥३६४॥

ज्योतिष्मती नाम लता या च काञ्चनसन्निभा ।
वल्लीवितानबहुला हेमवर्णफला शुभा ॥३६५॥

आषाढपूर्वपक्षेऽस्या गृहीत्वा बीजमुत्तमम् ।
तिलवत्क्वाथयित्वा वा हस्तपादैरथापि वा ॥३६६॥

तस्यास्तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ।
स्थापयेद्भूगतं कुम्भं क्रमादूर्ध्वतुषाग्निना ॥३६७॥

षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ।
ताम्रं हेमसमं कृत्वा तैलमाक्षीकमिश्रितम् ॥३६८॥

प्रतिवापेन सिञ्चेत् तद्धेम ताम्रसमं भवेत् ।
तथा च शतवेधी स्याद्विद्यारत्नम् अनुत्तमम् ॥३६९॥

दग्धरुहाकल्पः

दग्धरुहां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
स्पर्शौषधीति सा ज्ञेया सर्वकामार्थसाधनी ॥३७०॥

शश्वच्छिन्ना महादेवि दग्धा सा पावकेन तु ।
प्ररोहति क्षणाद्दिव्या दग्धा सा तु महौषधी ॥३७१॥

रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते ।
चणकस्येव पत्राणि सुप्रसूतानि लक्षयेत् ॥३७२॥

सा स्थिता गोमतीतीरे गङ्गायामर्बुदे गिरौ ।
उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥३७३॥

तस्याः कन्दरसं दिव्ये कृष्णराजीसमन्वितम् ।
ताम्बूलेन समं कृत्वा घुटिकां कारयेद्बुधः ॥३७४॥

सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः ।
सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥३७५॥

तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः ।

कटुतुम्बीकल्पः

कटुतुंबी तु विख्याता देवि दिव्यौषधिं शृणु ॥३७६॥

तस्या बीजानि संगृह्य सूक्ष्मचूर्णं तु कारयेत् ।
एकविंशतिवाराणि भाव्यं धात्रीरसेन च ॥३७७॥

पयसा सह तेनैव विश्वभेषजसंयुतम् ।
बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पिण्डितः ॥३७८॥

रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् ।

लोहदण्डकल्पः

गोपित्तं शिखिपित्तं च कांक्षीकासीससंयुतम् ॥३७९॥

तारतुल्यानि चैतानि सर्वेषां सूतकं समम् ।
मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् ॥३८०॥

लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ।
गन्धकं लोहदण्डेन एकविंशतिभावितम् ॥३८१॥

युक्तं लोहकुलेनैव जम्बीररससंयुतम् ।
सबीजं सूतकोपेतमन्धमूषानिवेशितम् ॥३८२॥

भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ।
दलस्य भागमेकं तु तारपञ्चांशमेव च ॥३८३॥

शुल्बं च पञ्चभागं च बीजस्यैकं च योजयेत् ।
एते द्वादशभागाः स्युः सर्वं तद्धारयेत्क्षितौ ॥३८४॥

स्थानस्यास्य निषेकं तु सुदण्डेन तु कारयेत् ।
पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥३८५॥

क्षीरकन्दकल्पः

क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं तथा ।
चतुर्वर्णं विषं तत्र रक्तकन्दं प्रशस्यते ॥३८६॥

भग्नमेतत्स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ।
मेघानां तु निनादेन संजातैर् उपशोभितम् ॥३८७॥

पत्रैः स्नुहीसमैः स्निग्धैः समभिर् हेमसत्प्रभैः ।
बन्धनं रसराजस्य सर्वसत्ववशंकरम् ॥३८८॥

तस्य क्षीरं तु संगृह्य तारं निर्वाहयेद्बुधः ।
धमेद्धठाग्निना चैव जायते हेम शोभनम् ॥३८९॥

तिन्त्रिणीपत्रनिर्यासमीषत्ताम्ररजोयुतम् ।
मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति ॥३९०॥

तोयमध्ये विनिक्षिप्य गुलिका वज्रवद्भवेत् ।

शाकवृक्षकल्पः

शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् ॥३९१॥

रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ।
मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥३९२॥

गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥३९३॥

शाकवृक्षस्य निर्यासं यत्नतः परिगालयेत् ।
शिग्रुमूलस्य चूर्णं तु तद्रसेन तु मर्दयेत् ॥३९४॥

प्रलिप्तशुल्बपत्राणि पुटेत्क्षिप्त्वा विपाचयेत् ।
तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥३९५॥

फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् ।
तद्रसेन तु सम्प्राज्ञः सप्तरात्रं तु भावयेत् ॥३९६॥

तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा ।
लेपयेत्तारपत्राणि ध्मातं भवति काञ्चनम् ॥३९७॥

देवदालीकल्पः

देवदाल्या महौषध्या विधिं वक्ष्याम्यतः परम् ।
सा श्वेता व्याधिशमने कृष्णा पीता रसायने ॥३९८॥

पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे ।
अथवा कृष्णपञ्चम्यामिमां विधिवदुद्धरेत् ॥३९९॥

देवदालीफलं देवि विष्णुक्रान्तां च सूतकम् ।
मूर्छयेद् बन्धयेत्क्षिप्रं शुल्बं हेम करोति च ॥४००॥

देवदालीफलं मूलमीश्वरीरसमेव च ।
तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥४०१॥

श्वेतगुञ्जाकल्पः

अथातः सम्प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ।
कृष्णपक्षे चतुर्दश्यामष्टम्यां च सुरार्चिते ॥४०२॥

कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु ।
बीजानि सितगुञ्जायाः पुष्ययोगे तु वापयेत् ॥४०३॥

वक्ष्यमाणेन योगेन कुर्यात् संग्रहणं तथा ।
ओं नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि ॥४०४॥

सर्वकार्याणि कुरु कुरु अप्रतिहतं नमो नमः स्वाहा ।
शुद्धशुल्बं तु संगृह्य मूषामध्ये तु संस्थितम् ॥४०५॥

त्रिपञ्चपलसंख्या तु कर्षार्धसितगुञ्जया ।
सहैकत्र भवं तारं तस्य गन्धविवर्जितम् ॥४०६॥

ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः ।
देवीनां भूषणं देवि जायते हेम शोभनम् ॥४०७॥

कर्तरीरसबन्धः

अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ।
असुराणां समायोगे क्रोधाविष्टेन चेतसा ॥४०८॥

सुदर्शनं महाचक्रं प्रेषितं मुरवैरिणा ।
भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः ॥४०९॥

ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ।
रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् ॥४१०॥

चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति ।
कुरुते गर्जनं नादं धूमज्वालां विमुञ्चति ॥४११॥

कर्तरीदृष्टिमात्रेण तथान्या शब्दकर्तरी ।
लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता ॥४१२॥

रसरूपा महाघोरा सा सिद्धानां तु वेदिनी ।
तस्य क्षेत्रं यदा गच्छेदघोरास्त्रं जपेत्तदा ॥४१३॥

पुनर्घोरं न्यसेत्तत्र अथान्यं विन्यसेद्बुधः ।
अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् ॥४१४॥

मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ।
दीप्तेन रोधयेत्तां तु स्तम्भयेद् दीपनेन तु ॥४१५॥

निष्ठया मुद्रया तां तु स्थानयोगेन योजयेत् ।

उदकबन्धाः॑ चन्द्रोदकबन्धः

अथ चन्द्रोदकेनेशि वक्ष्यामि रसबन्धनम् ॥४१६॥

दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः ।
ग्रहणं तत्र कर्तव्यं पौर्णमास्यां प्रयत्नतः ॥४१७॥

निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या तु वर्धते ।
क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शङ्करम् ॥४१८॥

चतुर्दश्यां तु तत्क्षेत्रं पूजयित्वा विचक्षणः ।
अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥४१९॥

पौर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः ।
चन्द्रोदकं तु संगृह्य मन्त्रयुक्तः सुमन्त्रितम् ॥४२०॥

आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ।
पीतमात्रेण तेनैव मूर्छितो भवति क्षणात् ॥४२१॥

चन्द्रोदये तथोत्तिष्ठेत्क्षारं तस्य तु दापयेत् ।
सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥४२२॥

एकविंशतिरात्रेण जीवेद् ब्रह्मदिनत्रयम् ।
एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥४२३॥

चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् ।
मूषामध्यगतं ध्मातं तत्क्षणाद्घुटिका भवेत् ॥४२४॥

अयं तु स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ।
तद्रसं तु रसं चान्यं वज्रेण समजारितम् ॥४२५॥

चतुःषष्ट्यंशतो विध्येद्द्विगुणेन सहस्रकम् ।
दशसङ्कलिकाबद्धं गुञ्जामात्रं रसं ततः ॥४२६॥

त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ।
ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्नं नाशय नाशय दिशो रक्ष रक्ष रुद्रो ज्ञापयति हुं फट् स्वाहा ।
इति दिग्बन्धमन्त्रः ।
ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भव रक्ष रक्ष हुं फट् स्वाहा ।
इति पानमन्त्रः ।

विषोदकबन्धः

अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥४२७॥

सितपीतादिवर्णाढ्यं तत्र देवि रसोत्तमम् ।
तत्र गत्वाचलोद्देशे स्मरेद्घोरं सहस्रकम् ॥४२८॥

केशाः क्षिप्ताः स्फुटन्त्यस्मिन्नात्मच्छायां न दृश्यते ।
तैलं च गोलकाकारं घृतं तेन विसर्पति ॥४२९॥

गन्धकस्य हरेद्गन्धं पललं लवणायते ।
ज्ञात्वा पलाशपत्रेण कटुकालाबुके क्षिपेत् ॥४३०॥

विषोदकं गन्धकं च हरबीजं च तत्समम् ।
अजाक्षीरेण पिष्ट्वा तु शुल्बपात्रे तु लेपयेत् ॥४३१॥

तत्पुटेन भवेद्देवि सिन्दूरारुणसन्निभम् ।
शतांशेनैव तद्देवि सर्वलोहानि वेधयेत् ॥४३२॥

अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् ।
सहस्रांशेन तस्यैव तारं भवति काञ्चनम् ॥४३३॥

रक्तं पीतं तथा कृष्णमुत्तरोत्तरकार्यकृत् ।
त्रिफलाकान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा ॥४३४॥

गृहीत्वा पूर्ववत्पत्रैः पालाशैर्वेष्टयेद्बहिः ।
स्थापयेद्धान्यमध्ये तु दिवसानेकविंशतिम् ॥४३५॥

महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ।
पायसं भक्षयेद्यस्तु पयोमध्वाज्यसंयुतम् ॥४३६॥

यावत्पूर्णं बलं देवि जीवेत्तद्बिन्दुसंख्यया ।
लाङ्गली गृहधूमश्च सिन्दूरं रजनीद्वयम् ॥४३७॥

मेषस्य शृङ्गं शृङ्गीं च कृष्णोन्मत्ताश्वमारकम् ।
सबीजसूतकं चैव विषतोयेन मर्दयेत् ॥४३८॥

विषतोयेन मेधावी सप्तवाराणि भावयेत् ।
अथवा भावयेत्तं तु यावच्चूर्णं तु मर्दयेत् तद्भवेत् ॥४३९॥

तेन नागं प्रतीवाप्य षोडशांशेन खं भवेत् ।
मूषास्थं वेणुयन्त्रे च त्रीणि वाराणि भावयेत् ॥४४०॥

धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ।
स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये च तत् ॥४४१॥

तच्चूर्णं तु शतांशेन तारताम्रादि वेधयेत् ।
विषपानीयमादाय वङ्गमावर्तितं शुभम् ॥४४२॥

निषिक्तं चैव तत्तोयैस्तारं भवति काञ्चनम् ।
विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे ॥४४३॥

कुनटीगन्धपाषाणविषटङ्कणलाङ्गलीः ।
नष्टपिष्टं कृतं खल्वे तारपत्राणि लेपयेत् ॥४४४॥

अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ।
ओं ह्रीं नीलकण्ठाय ठः ठः ।
अस्य अयुतं जपेत् ।
इति विषोदकग्रहणपानमन्त्रः ।

सञ्जीवनीजलकल्पः

संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥४४५॥

शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते ।
दानवानां हितार्थाय मृतानां देवसङ्गरे ॥४४६॥

मया संजीवनी विद्या दत्ता चोदकरूपिणी ।
तया संजीविता दैत्या ये मृता देवसङ्गरे ॥४४७॥

निक्षिप्ता मर्त्यलोके सा सम्यक् ते कथयाम्यहम् ।
अस्ति मर्त्या महापुण्या पवित्रा दक्षिणापथे ॥४४८॥

दक्षिणे तु तटे तस्या उत्पलीनगरं परम् ।
तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥४४९॥

नाम्ना कृष्णगिरिः चेति दृश्यते सर्वमङ्गले ।
सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति सन्निधौ ॥४५०॥

तत्राप्युदकमालोक्य परीक्षेत सुरार्चिते ।
गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः ॥४५१॥

जायते हरितं स्निग्धमहोरात्रेण निश्चितम् ।
मुञ्चत्यङ्कुरपत्रानि दृश्यतेऽतिमनोहरम् ॥४५२॥

बलिपुष्पोपहारेण ततो देवि समर्चयेत् ।
क्षेत्राधिपं गणेशं च चन्द्रं योगिगणं तथा ॥४५३॥

ओं चन्द्राय पिनाकिने शूलपाणये ओं दिशो बन्ध बन्धय दिशो बन्ध बन्धय ठः ठः ।
तिलांश्च सर्षपांश्चैव मन्त्रेणानेन सर्षपान् ।
सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥४५४॥

कटुकालाबुके तोयं कृतरक्षः समाहितः ।
गृहीत्वा तत्प्रयत्नेन निजं स्थानं समाश्रयेत् ॥४५५॥

ओं नमो ऽमृते अमृतरूपिणि अमृतं कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् ।
दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् ॥४५६॥

मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ।
एकविंशतिरात्रं तु क्षीराहारोऽथ यत्नतः ॥४५७॥

जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः ।
योजनानां शतं गत्वा पुनरेव निवर्तते ॥४५८॥

अवध्यः सर्वभूतानां स्वेच्छाहारः स खेचरः ।
कनकं पारदं व्योम समम् एकत्र योजयेत् ॥४५९॥

मर्दयेत्तेन तोयेन सप्ताहं स्वेदयेत्ततः ।
स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥४६०॥

अथवा तं रसं दिव्यं मधुना सह भक्षयेत् ।
मासमात्रप्रयोगेन जीवेद् ब्रह्मदिनायुतम् ॥४६१॥

तस्य मूत्रमलस्वेदैः शुल्बं भवति काञ्चनम् ।
निर्वाते तोयमादाय पारदं च मनःशिलाम् ॥४६२॥

मर्दयेत् खल्वपाषाणे नष्टपिष्टं भवेत्ततः ।
स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥४६३॥

अन्तर्धानं क्षणाद्गच्छेद्विद्याधरपतिर् भवेत् ।
सिद्धकन्याशतवृतो यावत्कल्पांश्चतुर्दश ॥४६४॥

दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् ।
पयसा च समायुक्तं नित्यमेवं च कारयेत् ॥४६५॥

उष्णोदककल्पः

उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।
पश्यत्युष्णोदकं यत्र वासं तत्रैव कारयेत् ॥४६६॥

शर्वरीमुषितां तत्र चणकास्तु दिने दिने ।
भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकम् ॥४६७॥

तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ।
उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् ॥४६८॥

चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ।
शुल्बं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु ॥४६९॥

तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ।
निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः ॥४७०॥

शुल्बं च जायते हेम तरुणादित्यवर्चसम् ।
तारं च तेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥४७१॥

उष्णोदकेन भल्लातं तिलमुष्टिं च भक्षयेत् ।
मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥४७२॥

रसगन्धाश्मरसकतुत्थं दरदमाक्षिकम् ।
याममुष्णाम्बुना घृष्ट्वा तारपत्राणि लेपयेत् ॥४७३॥

विभ्राम्य तु धमेद्देवि स्याच्चतुर्दशवर्णकम् ।
क्रमेणानेन देवेशि शुल्बं षोडशवर्णकम् ॥४७४॥

एकैकं हेमतारांशं द्वयं कांताभ्रयोः पृथक् ।
उष्णोदकेन संमर्द्य धमनात्खोटतां नयेत् ॥४७५॥

तं मुखे धारयेन्मासं वज्रकायो भवेत्ततः ।
तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा ॥४७६॥

यावत्पलं तस्य मलैः शुल्बं भवति काञ्चनम् ।
उष्णोदपाचितान् खादेत् कुलुत्थान्क्षीरपो भवेत् ॥४७७॥

स्नानम् उष्णांभसा कुर्याद् वर्षाद्वर्षाच्छतायुषः ।
क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् ॥४७८॥

पाचयेत्पायसं कान्तपात्रे भुक्त्वा महायुषः ।

शैलोदककल्पः

अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये ॥४७९॥

कर्दमापो महीशैलशिला चेति चतुर्विधम् ।
कानिचित् क्षणवेधीनि दिनवेधीनि कानि च ॥४८०॥

पक्षमासादिषण्मासवेधनानि महीतले ।
क्षिप्तं जले यदा काष्ठं शैलीभूतं च दृश्यते ॥४८१॥

बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितम् ।
हिङ्गुलं हरितालं च गन्धकं च मनःशिलाम् ॥४८२॥

एषां गन्धापहारं तु कुरुते तच्च वेधकम् ।
अन्यथा चेष्टकं देवि तदग्राह्यं निरर्थकम् ॥४८३॥

श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले ।
तत्रस्थं क्षणवेधि स्यान्नद्यां भगवतीतटे ॥४८४॥

एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ।
भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवत्सरम् ॥४८५॥

धारेश्वरे पाक्षिकं स्यात् कर्षापुर्यां दिनैकतः ।
ब्रह्मेश्वरे मासिकं स्याद्व्याघ्रपुर्यां तु वासरम् ॥४८६॥

अघोरेशे मासिकं स्यात्सिंहद्वीपे तथा पुनः ।
दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥४८७॥

वासरं माल्यवन्ते तु क्षणवेधी तु तत्र च ।
किष्किन्धे पर्वते रम्ये पम्पातीरे क्षणोदकम् ॥४८८॥

तस्य पश्चिमतो देवि योजनद्वितये पुनः ।
भूशैलमस्ति तत्रैव त्रिदिनं वेदपर्वते ॥४८९॥

अन्यत्र यत्र यत्रापि ब्रह्मविष्णुशिवोद्भवम् ।
अमृतं तत्र तत्रापि वज्रीकरणम् उत्तमम् ॥४९०॥

तस्योत्पत्तिं प्रवक्ष्यामि यथा जानाति साधकः ।
महीं समुद्धृतवतो वराहस्य कलेवरात् ॥४९१॥

यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परम् ।
तं मुखे क्षणिकं जातं कर्णदेशे तु वासरम् ॥४९२॥

बाहुभ्यां त्र्यहवेधी स्यान्मासवेधी तु पार्श्वयोः ।
षण्मासमपराङ्गे च सर्वं समफलं च तत् ॥४९३॥

अघोरास्त्रेण तत्क्षेत्रे रक्षां कृत्वा दिशां बलिम् ।
दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥४९४॥

शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते ।
आयसे ताम्रपात्रे वा कान्तलोहमयेऽथवा ॥४९५॥

शिलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ।
क्षीरावशेषं संक्वाथ्यं त्रिसप्ताहं पिबेन्नरः ॥४९६॥

जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः ।
अथवाष्टपलं क्षीरं पलैकेनाम्बुमिश्रितम् ॥४९७॥

क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ।
कुलुत्थाष्टगुणं वारि पचेदष्टावशेषितम् ॥४९८॥

चतुर्गुणेन तेनाज्यं पाचयेद् घृतशेषितम् ।
लिह्यान्मधुसितोपेतं त्रिसप्ताहाद्बृहस्पतिः ॥४९९॥

द्विरष्टवार्षिकाकारः सहस्रायुर् न संशयः ।
अवशिष्टकुलुत्थं तु पादांशमधुसर्पिषा ॥५००॥

भक्षयेत्कर्षमेकं तु मासेनायुतजीवितः ।
तत्सिद्धतैलेनाभ्यङ्गं म्रक्षणं चैव कारयेत् ॥५०१॥

पामाविचर्चिकादद्रुकुष्ठानि सहसा जयेत् ।
वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥५०२॥

यः पिबेत्प्रातरुत्थाय शैलाम्बु चुलुकं पयः ।
षण्मासात् स्यात् सहस्रायुर् निर्वलीपलितश्च सः ॥५०३॥

अथवा सूतकं देवि वारिणा सह मर्दयेत् ।
मासेनैकेन देवेशि नष्टपिष्टिर्भविष्यति ॥५०४॥

मासमात्रं समश्नीयात्स भवेदजरामरः ।
अथवा तं रसं हेम्ना धामयेत्खदिराग्निना ॥५०५॥

गुलिका सुन्दरी नाम सर्वायुधनिवारिणी ।
कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥५०६॥

अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् ।
मासमात्रप्रयोगेण वलीपलितवर्जितः ॥५०७॥

पक्त्वा तेनाम्भसा पथ्याः षष्टिस्त्रीणि शतानि च ।
मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥५०८॥

दिने दिने तदेकैकं भक्षयेत्प्रातर् उत्थितः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥५०९॥

शैलीभूतं कुलुत्थं वा भक्षयेन्मधुसर्पिषा ।
षण्मासात्तु प्रयोगेण जीवेद्वर्षसहस्रकम् ॥५१०॥

कूष्माण्डमादितः कृत्वा यानि कानि फलानि च ।
जले क्षिप्तानि लोहानि शैलभूतानि भक्षयेत् ॥५११॥

क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ।
तेनोदकेन संमर्द्यम् अभ्रकं क्वाथयेत्प्रिये ॥५१२॥

कटुत्रययुतं खादेज्जीवेद्वर्षसहस्रकम् ।
अथवा रसकर्षैकं तज्जलेन तु मर्दितम् ॥५१३॥

इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगः ।
कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥५१४॥

षण्मासं तन्मुखे धार्यं वज्रकायं करोति तत् ।
दशनागसमप्राणो देवैः सह स मोदते ॥५१५॥

गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् ।
यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः ॥५१६॥

कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् ।
भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥५१७॥

उदयादित्यसङ्काशो मेधावी प्रियदर्शनः ।
नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥५१८॥

पारदं हरितालं च शिलां माक्षिकमेव च ।
दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥५१९॥

मर्दयेत् खल्वपाषाणे मातुलुङ्गरसेन तु ।
गोलकं कारयित्वा तु वारिमध्ये विनिक्षिपेत् ॥५२०॥

तेन तारं च शुल्बं च कांचनं भवति ध्रुवम् ।
उपयुञ्जीत मासैकं वलीपलितवर्जितः ॥५२१॥

सहस्रं जीवितं तस्य महाबलपराक्रमः ।
शैलीभूतहरिद्रां तु तच्चूर्णावापमात्रतः ॥५२२॥

हेमत्वं लभते नागो बालार्कसदृशप्रभः ।
शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा ॥५२३॥

ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः ।
रक्तक्षारयुतं ध्मातं सुवर्णसमसारितम् ॥५२४॥

शतांशेन तु लोहानां सर्वेषां हेमकारकम् ।
द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति ॥५२५॥

तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ।

केचन घुटिकायोगाः

निचुले ककुभे चैव किंशुके मधुकेऽपि वा ॥५२६॥

इङ्गुदीफलमध्ये वा रजनीद्वयमार्द्रके ।
अमृते कन्दके वाथ उक्तकन्दौषधीषु च ॥५२७॥

विधाय कोटरं तत्र क्षिप्त्वा तेनैव डोलयेत् ।
त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः ॥५२८॥

पादेन कनकं दत्त्वा पारदं तत्र योजयेत् ।
शैलोदके क्षिपेत्तत्र गुलिका वज्रवद्भवेत् ॥५२९॥

पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् ।
धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥५३०॥

द्वितीयसारणायोगादयुतं वेधयेत्तु सा ।
धार्यमाणा मुखे सैवमयुतायुष्यदा भवेत् ॥५३१॥

तृतीयसारणायोगाज्जायते लक्षवेधिनी ।
तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥५३२॥

चतुर्थी सारणा देवि कोटिवेधी न संशयः ।
कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥५३३॥

पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् ।
यावच्चन्द्रार्कजीवित्वम् अनन्तबलवीर्यवान् ॥५३४॥

ददाति सप्तमी चापि सारणा गुलिका परा ।
खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥५३५॥

यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् ।
वज्रदेहः स सिद्धः स्याद् दिव्यस्त्रीजनवल्लभः ॥५३६॥

क्रीडते खेचरैर् भोगैः स्वेच्छया शिवतां व्रजेत् ।
नानाविधफलाश्चास्या घुटिकां शृणु सुन्दरि ॥५३७॥

शुद्धबद्धं रसेन्द्रं तु गन्धकं तत्र जारयेत् ।
त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥५३८॥

कारयेद्भस्म सूतं तु काञ्चनं तेन सूतकम् ।
तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥५३९॥

तेन सूतकजीर्णेन वज्ररत्नं तु घातयेत् ।
तद्वज्रं जायते भस्म सिन्दूरारुणसन्निभम् ॥५४०॥

तद्भस्म जारयेत्सूते त्रिगुणे तु सुरार्चिते ।
हाटकं सारयेत्तं तु घुटिकां तेन कारयेत् ॥५४१॥

त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः ।
नष्टच्छायो भवेत्सोऽयमदृश्यो देवदानवैः ॥५४२॥

लक्षवर्षसहस्राणि निर्वलीपलितो भवेत् ।
शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् ॥५४३॥

वक्त्रे करे च बिभृयात्सर्वायुधनिवारणम् ।
व्योम माक्षिकसत्वं च तारं ताम्रं सुरायुधम् ॥५४४॥

सारलोहं सूतकं च रत्नादिगुणभूषितम् ।
घुटिका सा वरारोहे मधुरत्रयसंयुता ॥५४५॥

वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः ।
शिवः शक्तिश्च देवेशि रत्नानि सितगोनसा ॥५४६॥

हेम तारं तथा भानुः समभागानि कारयेत् ।
स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥५४७॥

सितयेन तथा वेष्ट्यं गुह्यस्थाने निवेशयेत् ।
रणे राजकुले द्यूते दिव्ये कामे जयो भवेत् ॥५४८॥

वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् ।
विभीतकादिसम्भूतकांजिकस्य समं भवेत् ॥५४९॥

समावर्त्य ततः सूते योजयेत्पादयोगतः ।
कुमारीरससंघृष्टा कृतैषा घुटिका शुभा ॥५५०॥

रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ।
पञ्च तारं वरारोहे सूतकद्वयमेव च ॥५५१॥

त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः ।
अर्धं शुल्बं विभागेन गुलिकामरसुन्दरी ॥५५२॥

अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः ।
भस्म सूतपलैकं च मृतकान्तपलं तथा ॥५५३॥

माक्षिकस्य पलं चैव शिलाजतु पलं तथा ।
पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा ॥५५४॥

एकीकृत्य तु तत्सर्वं मध्वाज्येन तु पेषयेत् ।
गुलिकाः कारयेत्तेन षष्ट्याधिकशतत्रयम् ॥५५५॥

एकैकां भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ।
जीवेद्वर्षशतायुः स यथा रुद्रो महाबलः ॥५५६॥

केचन रसायनकल्पाः

अतः परं प्रवक्ष्यामि रसभस्मरसायनम् ।
विज्ञेयं निष्परिहारं साक्षाद्दिव्यौषधं परम् ॥५५७॥

आमलक्यादि कान्तं च पारदं च मनःशिलाम् ।
वाकुचीसमभागानि क्षीरिणीरसपेषितम् ॥५५८॥

मेघनादरसोपेतं मूकमूषागतं पचेत् ।
माषं द्विमाषं त्रिगुणं भक्षयेत्तत्क्रमेण तु ॥५५९॥

वर्षत्रयं परं देवि पादनिष्कार्धकं क्रमात् ।
षट् सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः ॥५६०॥

भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ।
किंचित् काञ्चनसंयुक्तं निष्कं निष्कार्धमेव वा ॥५६१॥

यो भक्षयेत् त्रिभिर् वर्षैः सर्वव्याधीञ्जयत्ययम् ।
अष्टवर्षसहस्रायुर्द्वादशे लक्षवेधकः ॥५६२॥

षोडशे वत्सरे देवि दिव्यरूपः स जायते ।
उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् ॥५६३॥

अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् ।
शतपलमभयानाम् अक्षधात्र्योस्तथैव क्वथितजलसमाष्टौ भागमष्टावशिष्टम् ।
घृतमधुसितयाढ्यं व्योषचित्रं दशैव रसपलदशसिद्धं लोहजीर्णं मृतं च ॥५६४॥

गिरियुतसमम् अभ्रं कान्तभृङ्गं विडङ्गं रससहितविभाव्यं तण्डुलैर् बिल्वमज्जैः ।
हिमकरकृतकल्कं लोहपात्रस्थमासं त्रिदिनतनुविशुद्धं कल्कमेनं वरिष्ठम् ॥५६५॥

लिहति शयनकाले वामनेत्रार्धसेवी घननिबिडसमाधिर् मत्तमातङ्गदर्पः ।
विगतसकलदोषः सर्वदृक् दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥५६६॥

जलद इव वपुष्मान्कुञ्चिताग्राग्रकेशः तुरग इव विशुद्धः सत्कविश्चित्रकारी ।
वृषभगतिविचेष्टो मन्दगम्भीरघोषः सुरगज इव लोके चन्द्रतारार्कजीवी ॥५६७॥

कान्तहेमरविचन्द्रम् अभ्रकैर् गोलकं निहितमिङ्गुदीफले ।
शैलवारिवरिसिद्धगोलकं सुन्दरी ह्यमरसंज्ञिका शुभा ॥५६८॥

कान्तहेमरविचन्द्रम् अभ्रकं वज्ररत्नरसमहिराजगोलकम् ।
क्षिप्तम् आमलककाष्ठकोदरे भूमिशैलनिहितं समुद्धृतम् ॥५६९॥

शैलतां गतमथाहितं मुखे वज्रकायकरकल्पवासरैः ।
तारहेमवरशुल्बसूतकैर्गोलकं वरणकाष्ठयन्त्रितम् ॥५७०॥

शैलवारिकृतसुन्दरीरसैः खेचरीति गुलिका निगद्यते ॥५७१॥

शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् ।
त्रिसप्तरात्रं दिनमेकमेकं सहस्रजीवी विदितो नरः स्यात् ॥५७२॥

सूतकं चाभ्रकं चैव वज्रतीक्ष्णसमन्वितम् ।
हाटकेन समायुक्तं गुलिका खेचरी भवेत् ॥५७३॥

करञ्जफलमध्यस्थं सूतं तत्रैव निक्षिपेत् ।
धृतः शैलाम्बुमध्यस्थः सहस्रायुः प्रयच्छति ॥५७४॥

तिन्दुके द्विसहस्रायुर् जम्बीरे त्रिसहस्रकम् ।
मातुलुंगे च नारङ्गे चतुःपञ्चसहस्रकम् ॥५७५॥

रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् ।
विभीतकफले चैव दशसाहस्रसंख्यकम् ॥५७६॥

नालिकेरे महाभागे सहस्राणि चतुर्दश ।
त्रिंशत्सहस्रं पथ्यायां लक्षमामलके पुनः ॥५७७॥

अभ्रपत्रभवात् क्वाथाद् अहोरात्रं शिलोदके ।
बध्नाति चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥५७८॥

सारणाक्रमयोगेन वज्रवज्जायते वपुः ।
रसे रसायने चैव लक्षवेधी न संशयः ॥५७९॥

कर्दमं तु कुमार्याश्च रसेन कृतपिण्डिकम् ।
धमनात्पतते सत्त्वं मुखस्थं धारयेन्नरः ॥५८०॥

षण्मासोपप्रयोगेण ह्यजरामरतां व्रजेत् ।
स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् ॥५८१॥

तत्खोटं धारयेद्वक्त्रे ह्यदृश्यो भवति ध्रुवम् ।
यस्य यो विधिराम्नात उदकस्य शिवागमे ॥५८२॥

शतेन बत कालेन कुर्याद्देहे रसायनम् ।

बद्धजारणविधिः

या पूर्वा निर्मिता सेयमधमा बालजारणा ॥५८३॥

उत्तमा दुर्लभा चैव श्रूयतां बद्धजारणा ।
अबद्धं जारयेद्यस्तु क्षीयमाणः क्षयं व्रजेत् ॥५८४॥

बद्धस्य जीर्यते ग्रासो जीर्णस्य च मुखं भवेत् ।
समुखो दुर्मुखं दत्ते सामान्योत्तमलक्षणम् ॥५८५॥

बन्धप्रकाराः

सामान्यो ऽग्निसहत्वेन महारत्नादिजारकः ।
सामान्यः प्रथमः कार्यः सग्रासस्तु समन्ततः ॥५८६॥

वसुदेहकरो देवि सामान्यो हि भवेदयम् ।
ग्रासहीनस्तु यो बद्धो दिव्यसिद्धिकरो भवेत् ॥५८७॥

उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् ।
अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् ॥५८८॥

मूलबन्धस्तु यो बन्धो मूलसंकुचितं महत् ।
सारबन्धस्तु यो बन्धो वासनाबन्ध उच्यते ॥५८९॥

स्याच्चतुः षष्टिमूलेभ्यः किंचिन्मूलेन बन्धनम् ।
प्राण्यङ्गं दैत्यादीनां मूलाङ्गं देवतामयम् ॥५९०॥

पाषाणं चैव सिद्धानां मानुषाणां च पूजितम् ।
पीठिकाद्रुतिसंकोचैस् त्रिविधं बन्धनं भवेत् ॥५९१॥

दिव्याभिरौषधीभिः प्रागुक्तं संकोचबन्धनम् ।
द्रुतिभिर्बध्यते सूतः क्षणबन्ध उदाहृतः ॥५९२॥

अभ्रकं हरबीजं च षोडशांशेन काञ्चनम् ।
ध्मातं प्रकाशमूषायां शोधयेत्काचटङ्कणैः ॥५९३॥

दक्षिणावर्तितं ध्मातं हरबीजेन मेलकम् ।
मूषां त्यक्त्वा वरारोहे तिष्ठते खगबद्धवद्रसः ॥५९४॥

रक्तिकार्धार्धमात्रेण पर्वतानपि वेधयेत् ।
भक्षणात्तस्य देवेशि रुद्रतुल्यो भवेन्नरः ॥५९५॥

क्रीडते सप्तलोकेषु शिवतुल्यपराक्रमः ।

द्रुतिमेलनविधिः

वज्रकन्दं गुडूची च उच्चटादिसमन्वितम् ॥५९६॥

अभ्रकं क्रमते शीघ्रमन्यथा नास्ति सङ्गमः ।
कृष्णागरुनाभिसितैः रसोनपितरामठैः ॥५९७॥

नारीकुसुमपालाशबीजतैलसमन्वितैः ।
सोष्णैर्मिलन्ति मृदिता द्रुतयः सकला रसे ॥५९८॥

वज्रबन्धः॑ दशसङ्कलिकाविधिसिद्धः

पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुरार्चिते ।
गन्धकं भक्षयेन्नारी दिनानामेकविंशतिम् ॥५९९॥

तद्रजो रसराजस्य बन्धने जारणे हितम् ।
वज्रभस्म तु भागैकं भागाः शुद्धरसात्त्रयः ॥६००॥

द्विपदीरजसा मर्द्यं यावत्तत्कल्कतां गतम् ।
पादांशेन सुवर्णेन पत्त्रलेपं तु कारयेत् ॥६०१॥

सोमवल्लीरसं कान्तं टङ्कणालं सुचूर्णितम् ।
दद्यात्तमष्टमांशेन मर्दयेच्च प्रयत्नतः ॥६०२॥

नष्टपिष्टं च शुष्कं तदन्धयित्वा पुटे ततः ।
अन्धमूषागतं ध्मातं क्रामणेन समन्वितम् ॥६०३॥

खोटस्तु जायते देवि शतवेधी महारसः ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा विशोधयेत् ॥६०४॥

अक्षीणो मिलते हेम्ना समावर्तश्च जायते ।
एकोत्तरक्रमे वृद्ध्या संकलैः क्रामयेत्ततः ॥६०५॥

एकगुणेन सूतेन एका सङ्कलिकोच्यते ।
त्रिगुणेन तु सूतेन द्वितीया संकलोच्यते ॥६०६॥

षड्गुणेन तु सूतेन तृतीया सङ्कली भवेत् ।
दशगुणेन सूतेन चतुर्थी सङ्कली भवेत् ॥६०७॥

पञ्चादशगुणेनेशि पञ्चमी सङ्कली भवेत् ।
एकविंशद्गुणेनेशि षष्ठी सङ्कलिका भवेत् ॥६०८॥

अष्टाविंशद्गुणेनेशि सप्तमी सङ्कली स्मृता ।
षट्त्रिंशद्गुणिते बद्धा भवेत्सङ्कलिकाष्टमी ॥६०९॥

पञ्चचत्वारिंशगुणे सङ्कली नवमी मता ।
पञ्चाध्यधिकपञ्चाशद् दशसङ्कलिका स्मृता ॥६१०॥

एवं च क्रमवृद्ध्या तु संकली दशबन्धिता ।
प्रथमे दशवेधी च शतवेधी द्वितीयके ॥६११॥

तृतीये सहस्रवेधी स्याच्चतुर्थेऽयुतवेधिकः ।
पञ्चमे लक्षवेधी स्याद् दशलक्षं तु षष्ठके ॥६१२॥

सप्तमे कोटिवेधी स्याद्दशकोटिं तथाष्टमे ।
धूमवेधी तु नवमे दशमे शब्दवेधकः ॥६१३॥

संकलैः सकलैर्बद्धे वेधो दशगुणो भवेत् ।
दशसंकलिकाबद्धः शब्दवेधी महारसः ॥६१४॥

यथा लोहे तथा देहे क्रामते नात्र संशयः ।
वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥६१५॥

कारयेद्घुटिकां दिव्यां बदरास्थिप्रमाणतः ।
महाकालीं पूजयित्वा धारयेत्सततं बुधः ॥६१६॥

ओं ऐं ह्रीं श्रीं कालि कालि महाकालि मांसशोणितभोजनि ।
ह्रां ह्रीं ह्रं रक्ष कृष्णमुखि देवि रससिद्धिं ददस्व मे ।
श्रीं ह्रीं ऐं ॥६१७॥

पूजयित्वा ततो देवीं सिद्धचक्रं विशेषतः ।
तां क्षिपेच्चक्रमध्ये तु घुटिकां दिव्यरूपिणीम् ॥६१८॥

शतवेधेन या बद्धा रसेन घुटिका प्रिये ।
मासमेकं तु वक्त्रस्था जीवेच्चैव यथा विधिः ॥६१९॥

तथा सहस्रवेधेन बद्धा या घुटिका शुभा ।
मासद्वयं तु वक्त्रस्था जीवेच्चन्द्रार्कतारकम् ॥६२०॥

दशसहस्रवेधेन बद्धा या घुटिका यदि ।
शक्रतुल्यं तदायुष्यं त्रिभिर्मासैस्तु जायते ॥६२१॥

लक्षवेधेन या बद्धा घुटिका दिव्यरूपिणी ।
चतुर्मासं तु वक्त्रस्था ब्रह्मायुष्यं प्रयच्छति ॥६२२॥

दशलक्षेण या बद्धा घुटिका दिव्यरूपिणी ।
सप्तमासं तु वक्त्रस्था वैष्णवं लभते फलम् ॥६२३॥

कोटिवेधेन या बद्धा घुटिका दिव्यरूपिणी ।
षण्माससंस्थिता वक्त्रे साक्षाद्वै रुद्रतां नयेत् ॥६२४॥

दशकोटिप्रभेदेन घुटिका दिव्यरूपिणी ।
सप्तमासं तु वक्त्रस्था स भवेद्व्यापको नरः ॥६२५॥

कर्ता हर्ता स्वयं भोक्ता शापानुग्रहकारकः ।
सर्वज्ञः सर्वकर्ता च सूक्ष्मरूपो निरञ्जनः ॥६२६॥

इच्छया कुरुते सृष्टिमिच्छया संहरेज्जगत् ।
स्वच्छन्दगमनो भूत्वा शिवरूपो भवेन्नरः ॥६२७॥

पूज्यते सर्वदेवैश्च ब्रह्मविष्णुमहेश्वरैः ।

अन्यो वज्रबन्धः

पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुदुर्लभम् ॥६२८॥

समांशभक्षणं हेम शुद्धसूतेन कारयेत् ।
मृतवज्रं कलांशेन मर्दयेद् द्विपदीरसैः ॥६२९॥

प्राग्वच्छेषं क्रियाजातं पूर्ववच्च फलं भवेत् ।
वज्रबन्धो भवेत्सिद्धो देवदानवदुर्जयः ॥६३०॥

चतुर्विंशतिसिद्धानां नायकः सर्वसिद्धिमान् ।

अन्यो वज्रबन्धः

वज्रचूर्णसमं सूतं हंसपाद्या विमर्दितम् ॥६३१॥

पुटित्वा मारयेत्तत्र पुनस्तुल्यं रसं क्षिपेत् ।
ध्मातः खोटो भवत्याशु शोधितः काचटङ्कणैः ॥६३२॥

यावच्छुक्रोदयप्रख्यो जायते च रसः प्रिये ।

अन्यो वज्रबन्धः

वज्रसत्त्वं च गगनं रसं हेम च मेलयेत् ॥६३३॥

अमरत्वमवाप्नोति वक्त्रस्थेन सुराधिपे ।
जारयित्वा रसं तद्धि पुनस्तेनैव जारयेत् ॥६३४॥

कोटिवेधी न सन्देहो वक्त्रस्थं खेचरं परम् ।
वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥६३५॥

कारयेद्घुटिकां दिव्यां वज्रसिद्धेन काञ्चने ।
अनेन क्रमयोगेन यावच्छक्यं तु मारयेत् ॥६३६॥

तद्भस्म सूतकं देवि सर्वरोगनिबर्हणम् ।
हेम्ना च सारयित्वा तु चन्द्रार्कं लेपयेत्ततः ॥६३७॥

द्वात्रिंशांशेन हेमार्धं मातृकार्यधिकं भवेत् ।
बदरास्थिप्रमाणेन कारयेद्गुलिकां बुधः ॥६३८॥

यथा लोहे तथा देहे क्रमते नान्यथा क्वचित् ।

अन्यो वज्रबन्धः

वज्रेण द्वंद्वितं हेम कान्तशुल्बकपालिना ॥६३९॥

रञ्जयेत्सप्तवाराणि तं खोटं सूक्ष्मचूर्णितम् ।
भावितं स्त्रीरजेनैव भूर्जपत्रे निवेशितम् ॥६४०॥

द्रुतसूतेन संयुक्तं बद्ध्वा वस्त्रेण पोट्टलीम् ।
स्वेदयेद्देवदेवेशि यावद्भवति गोलकः ॥६४१॥

लाङ्गली जीवनी चैव गन्धार्युत्तरवारुणी ।
एतेषां निक्षिपेत्पिण्डे वज्रगोलं तु वेष्टयेत् ॥६४२॥

मूषामध्ये विनिक्षिप्य संधयित्वा प्रयत्नतः ।
भूमौ मूषां विनिक्षिप्य पुटं मूर्ध्नि प्रदापयेत् ॥६४३॥

अनेनैव प्रतापेन बन्धमेति महारसः ।
गोलकं धारयेद्वक्त्रे वर्षमेकं यदा प्रिये ॥६४४॥

जीवेत्कल्पसहस्राणि यथा नागो महाबलः ।
वर्षैर्द्वादशभिः साक्षाज्जायते रसपूरुषः ॥६४५॥

गात्रस्य तस्य प्रस्वेदादष्टौ लोहास्तु काञ्चनम् ।
वज्रभस्म तथा सूतं काञ्चनेन समन्वितम् ॥६४६॥

वक्त्रस्थं कुरुते यस्तु अब्दात्पलितवर्जितः ।

अन्ये वेधोपयोगिनो बन्धाः

कृष्णाभ्रकस्य सत्वं च तारं ताम्रं च हाटकम् ॥६४७॥

माक्षिकं कान्ततीक्ष्णं च समभागानि कारयेत् ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६४८॥

तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलयेत् ।
मृतसत्त्वस्य भागैकं भागाश्चत्वारि गोलकम् ॥६४९॥

मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६५०॥

गुञ्जामात्रं तु तद्भस्म मध्वाज्येन तु लेहयेत् ।
संवत्सरप्रयोगेण ह्ययुतायुर्भवेन्नरः ॥६५१॥

वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ॥६५२॥

अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।
जीवेत्कल्पसहस्राणि यथा नागो महाबलः ॥६५३॥

तस्य मूत्रपुरीषेण लोहान्यष्टौ च काञ्चनम् ।
तत्खोटं रञ्जयेत् पश्चाद् वङ्गाभ्रककपालिना ॥६५४॥

रञ्जयेत्सप्तवाराणि भवेत्कुङ्कुमसन्निभः ।
हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥६५५॥

शतांशेन तु तेनैव शुल्बमध्ये प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥६५६॥

बद्धसूतस्य भागैकं भागैकं कुटिलस्य च ।
अन्धमूषागतं ध्मातं यावद्वङ्गावशेषितम् ॥६५७॥

अनेन क्रमयोगेन वङ्गं निर्वाह्य षड्गुणम् ।
अनेन क्रमयोगेन वहन्नागं च षड्गुणम् ॥६५८॥

ततस्तं रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ।
पक्वसूतस्य भागैकं भागैकं द्रुतसूतकम् ॥६५९॥

मर्दयेन्मध्यमाम्लेन गोलकं भवति क्षणात् ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥६६०॥

मर्दयेत् तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसंकलिकाक्रमात् ॥६६१॥

तद्भस्म तु पुनः पश्चान्मध्यमाम्लेन मर्दयेत् ।
पुटं दद्यात्प्रयत्नेन षष्ट्याधिकशतत्रयम् ॥६६२॥

तद्भस्म जायते दिव्यं सिन्दूरारुणसन्निभम् ।
तेनैव वेधयेत्तारं सहस्रांशेन काञ्चनम् ॥६६३॥

मृतवज्रस्य भागैकं भागाः षोडश सूतकम् ।
देवदालीशङ्खपुष्पीरसेन मृदितं क्रमात् ॥६६४॥

मारयेद्भूधरे यन्त्रे भस्मीभवति तत्क्षणात् ।
पूत्काराणां सहस्रेण धाम्यमानं न गच्छति ॥६६५॥

ईदृशं भस्म सूतं च देहे लोहे च योजयेत् ।
तद्भस्म पलमेकं तु पलमेकं च गन्धकम् ॥६६६॥

अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ।
तं खोटं रञ्जयेत् पश्चात् कपालिक्रमयोगतः ॥६६७॥

सारणात्रययोगेन शुल्बवेधं प्रदापयेत् ।
भस्मसूतपलैकं च पलैकं पन्नगस्य च ॥६६८॥

कान्तपात्रेण तं कृत्वा मर्दयेल्लोहमुष्टिना ।
मृद्वग्निना ततः पाच्यं यावन्नागेन मेलकम् ॥६६९॥

पुटेन जायते भस्म सिन्दूरारुणसप्रभम् ।
तद्भस्म तु पुनः पश्चाद्गोपित्तेन तु मर्दयेत् ॥६७०॥

तच्चतुर्दशवारांस्तु पुटयेद्भस्मयेत्ततः ।
तद्भस्म भागमेकं तु भागैकं हेमगोलकम् ॥६७१॥

एकीकृत्याथ संमर्द्य क्रामणेन सहैकतः ।
तारपिष्टं तु तेनैव सहस्रांशेन काञ्चनम् ॥६७२॥

अनेन क्रमयोगेन वङ्गभस्म प्रजायते ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥६७३॥

तच्छुल्बं जायते तारं शङ्खकुन्देन्दुसन्निभम् ।
श्वेताभ्रकं च सत्त्वं च काङ्क्षी कान्तं तथायसम् ॥६७४॥

वङ्गं कान्तं तारं तथा श्वेतं वैक्रान्तं च कदम्बकम् ।
अन्धमूषागतं ध्मातं खोटं कुन्देन्दुसन्निभम् ॥६७५॥

तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलकम् ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकः ॥६७६॥

मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६७७॥

ततश्च जायते भस्म शङ्खकुन्देन्दुसन्निभम् ।
तद्भस्म पलमेकं तु पलमेकं तु गन्धकम् ॥६७८॥

अन्धमूषागतं ध्मातं खोटं भवति तद्रसः ।
तारेण च समावर्त्य सारणात्रयसारितम् ॥६७९॥

सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ।
तीक्ष्णचूर्णपलान्यष्टौ पलाष्टौ द्रुतसूतकम् ॥६८०॥

मर्दयेत्तप्तखल्वेन टेटञ्चिल्वीरसेन च ।
तत्क्षणाज्जायते पिण्डं तीक्ष्णेन सह गोलकम् ॥६८१॥

मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ।
मर्दयेत्तप्तखल्वेन भस्मीभवति तत्क्षणात् ॥६८२॥

मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ।
षोडशांशेन तेनैव वङ्गवेधं प्रदापयेत् ॥६८३॥

तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६८४॥

तस्य खोटस्य भागं च तीक्ष्णचूर्णं च तत्समम् ।
द्वौ भागौ द्रुतसूतस्य सर्वमेकत्र मर्दयेत् ॥६८५॥

तप्तखल्वे तु संमर्द्य गोलकं भवति क्षणात् ।
मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥६८६॥

तत्सर्वं जारयेद्भस्म शङ्खकुन्देन्दुसन्निभम् ।
तद्भस्म कारयेत्खोटं तीक्ष्णेन द्वंद्वितं सह ॥६८७॥

अनेन क्रमयोगेन सप्तसङ्कलिकाक्रमात् ।
तं खोटं जारयेत्पश्चात्सारणात्रयसारितम् ॥६८८॥

लक्षांशेन तु तेनैव वङ्गवेधं प्रदापयेत् ।
भस्मसूतपलैकं तु शुद्धवङ्गं प्रदापयेत् ॥६८९॥

मर्दयेदायसे पात्रे वङ्गं तु म्रियते क्षणात् ।
द्विपलं मृतवङ्गस्य तारचूर्णपलद्वयम् ॥६९०॥

द्विपलं गन्धकं दद्यात्पलैकं टङ्कणस्य च ।
अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥६९१॥

पलैकं खोटचूर्णस्य पलैकं द्रुतसूतकम् ।
मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥६९२॥

षोडशांशेन तेनैव तारारिष्टं तु वेधयेत् ।
मृतवङ्गपलैकं तु पलैकं सूतकस्य च ॥६९३॥

सर्वचूर्णं पलैकं तु त्रयमेकत्र कारयेत् ।
मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥६९४॥

मृतवज्रस्य भागैकं भागश्चत्वारि गोलकम् ।
एकत्र मर्दयेद्भद्रे ओषधीद्रवसंयुतम् ॥६९५॥

मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु ।
तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥६९६॥

सामुद्रं त्रिपलं देवि भस्ममध्ये प्रदापयेत् ।
एकीकृत्याथ संमर्द्य वज्रीक्षीरे दिनत्रयम् ॥६९७॥

विश्वामित्रकपालस्थं पुटं दद्यात्तु भूधरे ।
तत्सर्वं जायते भस्म शङ्खकुन्देन्दुसन्निभम् ॥६९८॥

तेनैव यवमात्रेण वङ्गं स्तम्भयति क्षणात् ।
वङ्गं तारं तथा सत्त्वं समसूतेन गोलकम् ॥६९९॥

अनेन क्रमयोगेन मारयेच्च पृथक् पृथक् ।
तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥७००॥

भस्मसूतपलैकं च वङ्गभस्म पलद्वयम् ।
द्वे पले मृततारस्य सत्त्वभस्म पलद्वयम् ॥७०१॥

शङ्खचूर्णं पलं पञ्च सामुद्रस्य पलाष्टकम् ।
टङ्कणस्य पलान्यष्टौ सर्वमेकत्र जारयेत् ॥७०२॥

वज्रीक्षीरेण संवेष्ट्य पुटं दद्याच्चतुर्दश ।
एष सिद्धरसः साक्षाद्दुर्लभस्त्रिदशैरपि ॥७०३॥

वङ्गं तु दापयेत् पश्चाद्भाण्डे चैव तु मृण्मये ।
सिद्धं भस्म भवेल्लोहशलाकेन च चालयेत् ॥७०४॥

वापयेच्च प्रयत्नेन यावत्कठिनतां व्रजेत् ।
अन्धमूषागतं ध्मातं तारं भवति शोभनम् ॥७०५॥

कदाचित् स्फाटिते तारे पुनर्वङ्गं प्रदापयेत् ।
पत्रे दाहे कषे छेदे तत्तारं शाश्वतं भवेत् ॥७०६॥

संतितं दनुगोलं च षोडशांशसमन्वितम् ।
मृतवज्रस्य भगैकमेकत्रैव तु कारयेत् ॥७०७॥

देवदालीशङ्खपुष्पं तद्रसेन तु मर्दयेत् ।
मारयेद् भूधरे यन्त्रे पुटानां सप्तकेन तु ॥७०८॥

तद्भस्म तु पुनः पश्चाद्दीपयन्त्रेण पाचयेत् ।
भस्मसूतपलैकं च श्वेताभ्रकदलद्वयम् ॥७०९॥

शङ्खचूर्णपलैकं तु पलैकं टङ्कणस्य तु ।
एकीकृत्याथ तत्सर्वं वज्रीक्षीरेण पेषयेत् ॥७१०॥

अरण्योत्पलकैः पश्चात्पुटं दद्याच्चतुर्दश ।
रसोऽयं यवमात्रेण वङ्गं स्तम्भयति क्षणात् ॥७११॥

कृष्णाभ्रकपलैकं तु द्विपलेनैव सूतकम् ।
गन्धकस्य पलैकं च एकीकृत्याथ मर्दयेत् ॥७१२॥

मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् ।
मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥७१३॥

मर्दयेत्प्रहरैकं तु भस्मीभवति सूतकः ।
आरण्यगोमयेनैव पुटं दद्यात्तु भूधरे ॥७१४॥

अनेन क्रमयोगेन सप्तसङ्कलिकां कुरु ।
शतांशेन तु तेनैव नागवेधं प्रदापयेत् ॥७१५॥

तं खोटं रञ्जयेत् पश्चाच्छुल्बाभ्रककपालिना ।
पुनस्तां रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ॥७१६॥

पुनस्तं रञ्जयेत् पश्चान्नागाभ्रककपालिना ।
हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥७१७॥

सहस्रांशेन तेनैव शुल्ववेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥७१८॥

वज्रवल्लीभस्मस्नुहीक्षीरे पुटितं दशभिः पुटैः ।
तत्तुल्यं मर्दयेत्सूतं देवदाल्या रसैः पुटेत् ॥७१९॥

तत्तुल्यं पुटयेत्तीक्ष्णं त्रिफलाया रसेन तु ।
तत्तुल्यं पुटयेन्नागम् अहिमाराटरूषकैः ॥७२०॥

हेमवर्णप्रदं तद्धि विंशत्यंशेन योजितम् ।
चतुःषष्ट्यंशकेनेदं शुद्धतारं च रञ्जयेत् ॥७२१॥

अष्टमांशेन तेनैव नागपत्राणि लेपयेत् ।
पुटयेन्मारयेन्नागं सिन्दूरारुणसन्निभम् ॥७२२॥

तत्तुल्यं मारयेद्धेम काञ्चनाररसे पुटेत् ।
तत्तुल्यं मारयेच्छुल्बं गृहकन्यारसेन च ॥७२३॥

पश्चादम्लेन पुटयेद्यावत्सिन्दूरसन्निभम् ।
चन्द्रार्कौ रञ्जयेत्तेन शतांशेन तु पाचितम् ॥७२४॥

सबीजं बीजवर्जं वा वज्रेण सह सूतकः ।
तद्भस्म मर्दयेत्पश्चात् स्वर्णपत्ररसेन च ॥७२५॥

तेनैव वेधयेच्छुल्बं शुल्बं तारेण योजयेत् ।

वज्रहेमद्वन्द्वमेलापनम्

वज्रेण द्वंद्वयेद्धेम हेम्ना च द्वंद्वयेद्रसम् ॥७२६॥

रसेन द्वंद्वयेद्देहं स देहो ह्यजरामरः ।
कदलीटङ्कसौवीरं कण्टकारीरसप्लुतम् ॥७२७॥

क्रामणं सर्वधातूनां सर्वद्वन्द्वेषु मेलनम् ।
तिमिरस्य तु पञ्चाङ्गं पेटारीबीजसंयुतम् ॥७२८॥

एकीकृत्याथ संमर्द्य वज्रं तेनैव वेष्टयेत् ।
वज्रमूषागतं ध्मातं हेमद्वन्द्वं तु कारयेत् ॥७२९॥

कान्तपाषाणचूर्णे तु भूलता रामठं मधु ।
गुञ्जाटङ्कणकाचं च कर्कटास्थि स्नुहीपयः ॥७३०॥

तत्सर्वं तु समं योज्यं स्त्रीस्तन्येन तु मर्दयेत् ।
मूषालेपः कृतः प्राज्ञो वज्रमेलापकः सुखम् ॥७३१॥

हठाग्नौ वज्रमूषाभिर्दृढं वज्रा मिलन्ति च ।
सुसूक्ष्मा रवका भूत्वा ह्येकीभावं व्रजन्ति च ॥७३२॥

काचटङ्कणयोगेन ध्मातः शुद्धिमवाप्नुयात् ।
बहुभिश्चैव मूषाभिस्तेजःपुञ्जोऽपि जायते ॥७३३॥

मृतवज्रस्य भागैकं भागाः षोडश हाटकम् ।
श्वेतकाचस्य सूतं तु भागं षोडश दापयेत् ॥७३४॥

अन्धमूषागतं ध्मातं वज्रद्वन्द्वं तु कारयेत् ।
अनेन क्रमयोगेन सप्तवारांश्च दापयेत् ॥७३५॥

मिलते तत्क्षणाद् वज्रं हेम्ना तु सलिलं यथा ।
चूर्णे नरकपालस्य मृतवज्रं च दापयेत् ॥७३६॥

अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात् ।
भृङ्गपत्रं नृकेशं च मुखं कान्तस्य टङ्कणम् ॥७३७॥

बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।
अन्धमूषागतं ध्मातं वज्रं मिलति तत्क्षणात् ॥७३८॥

क्षीरेणोत्पलसारिण्या मृतवज्रं तु भावयेत् ।
हेमपिष्टिकया मध्ये वज्रं तत्रैव निक्षिपेत् ॥७३९॥

वेष्टयेद्भूर्जपत्रेण बाह्ये वस्त्रेण वेष्टयेत् ।
धान्यमध्ये तु संस्थाप्य पक्षमेकं निरन्तरम् ॥७४०॥

उद्धरेत्तत्प्रयत्नेन वज्रबन्धं तु कारयेत् ।

रत्नद्रुतिबन्धः

द्रुता वज्रास्तु सूतेन मेलनीयास्तु पार्वति ॥७४१॥

द्रुतिबन्धः स विज्ञेयः शतसाहस्रवेधकः ।
रत्नानां द्रुतयः सर्वा मेलयित्वा यथाविधि ॥७४२॥

शतसहस्रवेधी च देहसिद्धिप्रदायकः ।
मुसली चित्रकं वन्ध्या कुक्कुटीकन्दपद्मिनी ॥७४३॥

कञ्चुकी नीलिसिन्दूरी पाठा नागबला यथा ।
कंसपात्रे रसश्चैव रत्नानां द्रुतयस्तथा ॥७४४॥

आतपे धारयित्वा वै अधः कर्षानलं यथा ।
ओषधीनां रसं दत्त्वा स्वच्छं कृत्वा पुनः पुनः ॥७४५॥

याममात्रं तु घर्मे च द्रुतिर्मिलति वै रसम् ।
न तेषां क्रामणे शक्तिर्वक्तुं वक्त्रशतैरपि ॥७४६॥

सैन्धवं निंबपत्राणि वाकुची द्वेषिणीजके ।
द्रुताभ्रस्य रसेनैव मेलनं परमं मतम् ॥७४७॥

वज्रद्वन्द्वानम् ईशानि वज्रेण रसमारणम् ।
सबीजं सारणं प्रोक्तं खोटबन्धनमेव च ॥७४८॥

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥७४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:47.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

BRAHMATĪRTHA(ब्रह्मतीर्थ)

RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.