TransLiteral Foundation

रसविद्या - भाग २२

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २२
वन्दाककल्पः

वन्दाको द्विविधः प्रोक्तः पुरुषस्त्रीविभेदतः ।
खर्जूरीपत्रवत्पत्रः पुरुषः सर्वसिद्धिदः ॥१॥

स्त्रीसंज्ञस्तु गुणैरल्पो वृत्तपत्रः प्रतापवान् ।
वन्दाकः पादपरुहः शिखरी तरुरोहिणी ॥२॥

वृक्षादनी कामिनी च वृक्षरुग्बन्धबन्धकम् ।
वन्दाकस्तिक्ततुवरः कफपित्तश्रमापहः ॥३॥

वश्यादिसिद्धिदो वृष्यो विषघ्नश्च रसायनम् ।

वन्दाकाहरणविधिः

कृतोपवासः सुस्नातो रक्तमाल्यानुलेपनः ॥४॥

मुक्तकेशाम्बरो भूत्वा रात्रौ संयतमानसः ।
वृक्षं प्रदक्षिणं कृत्वा गन्धपुष्पाक्षतादिभिः ॥५॥

पूजाद्रव्यैः समभ्यर्च्य बलिं दध्योदनैः किरेत् ।
चिन्तामणिं नृसिंहं च मनुमष्टोत्तरं शतम् ॥६॥

जप्त्वा खड्गेन संछिद्य वन्दाकं विधिनाहरेत् ।
वन्दाकानां तु सर्वेषां विधिरेष उदाहृतः ॥७॥

अश्विन्यां शुचिरश्वत्थवन्दाकं विधिनाहृतम् ।
क्षीरेण पिष्टमालोड्य पिबेदश्वबलो भवेत् ॥८॥

तथैवाश्वत्थवन्दाकमुपरागेऽर्कचन्द्रयोः ।
नृसिंहमन्त्रं प्रजपन् खड्गेनाच्छिद्य चाहरेत् ॥९॥

घृष्ट्वांभसा प्रकोष्ठेण लिप्त्वा गोरोचनान्वितम् ।
विधाय तिलकं पश्येत्सर्ववश्यो भवेद्ध्रुवम् ॥१०॥

न्यग्रोधस्य तु वन्दाकमश्विन्यां विधिनाहरेत् ।
सूत्रेण बन्धयेद्धस्ते ह्यदृश्यो जायते नरः ॥११॥

सर्ववश्यं भवेत्क्षीरैः पिष्ट्वा पाने गदाञ्जयेत् ।
अश्विन्यां तु शिरीषस्य वन्दाकं विधिनाहरेत् ॥१२॥

सूत्रेण बन्धयेद्धस्ते वीर्यस्तम्भो भवेद्ध्रुवम् ।
अश्विन्यामाहरेद्धीमान् पलाशस्य तु बन्धकम् ॥१३॥

हस्ते बद्ध्वा स्पृशेद्यस्तु सा नारी वशगा भवेत् ।
अङ्कोलबन्धम् अश्विन्यां करे बद्ध्वा जगत्प्रियः ॥१४॥

भरण्यां कुशवन्दाकं गृहीत्वा शुभयोगतः ।
बध्नीयाद्दक्षिणे हस्ते तेनादृश्यो भवेन्नरः ॥१५॥

भरण्यां फल्गुवन्दाकं धान्यराशौ विनिक्षिपेत् ।
तेन वै धान्यवृद्धिः स्यान्नात्र कार्या विचारणा ॥१६॥

भरण्यां बदरीणां च वन्दाकं विधिनाहरेत् ।
बन्धयेद्दक्षिणे हस्ते संलभेद् ईप्सितं फलम् ॥१७॥

कृत्तिकायां तु कतकवन्दाकं विधिनाहरेत् ।
वर्तिमध्ये क्षिपेत्तं च तेन संगृह्य कज्जलम् ॥१८॥

स्त्रीणामञ्जनमात्रेण पतिर्वश्यो भवेद्ध्रुवम् ।
कृत्तिकायां शुचिर्भूत्वा जम्बूवन्दाकम् आहरेत् ॥१९॥

क्षीरेण पिष्टं तत्कल्कं पीत्वा रोगैर्विमुच्यते ।
रोहिण्यां तिन्त्रिणीकस्य वन्दाकं विधिनाहरेत् ॥२०॥

बद्ध्वा हस्ते स्पृशेद्यं यं सर्ववश्यो भवेन्नरः ।
तिमिरादिषु शस्तं तदसाध्यं घृतमञ्जनात् ॥२१॥

क्षौद्रघृष्टेन तेनैव कृतं चक्षुष्यमञ्जनम् ।
बन्धकम् उदुम्बरभवं रोहिण्यां गृह्य वलयकं कुर्यात् ।
तद्वलयोपरि विनिहितभाण्डस्थितमोदकं क्षयं नैति ॥२२॥

अश्वत्थस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥२३॥

गृहे स्थिते च वन्दाके नित्यैश्वर्यं प्रजायते ।
कतकस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥२४॥

अञ्जने नेत्रयुगले निधिं पश्यति निश्चितम् ।
तदेव बन्धयेद्धस्ते सर्ववश्यो भवेद्ध्रुवम् ॥२५॥

उदुम्बरस्य वन्दाकं रोहिण्यां विधिनाहरेत् ।
हस्ते बद्ध्वा निहन्त्याशु ज्वरं चातुर्थिकं प्रिये ॥२६॥

रोहिण्यां मातुलुङ्गस्य बन्धकं तु समाहरेत् ।
धारयेद्दक्षिणे कर्णे जगद्वश्यकरं परम् ॥२७॥

रोहिण्यां बिल्ववन्दाकं करे बद्ध्वा जगत्प्रियः ।
मृगशीर्षे शिरीषस्य वन्दाकं सम्यगाहृतम् ॥२८॥

हस्ते बद्ध्वा स्पृशेन्नारीं नरं वा वशयेद्ध्रुवम् ।
मृगशीर्षे तु वन्दाकं तिन्त्रिणीवृक्षसम्भवम् ॥२९॥

क्षीरेण पिष्ट्वा प्रपिबेददृश्यो जायते नरः ।
तद्दध्ना यः पिबेत्प्रातः सर्वव्याधिहरो भवेत् ॥३०॥

महिषीतक्रपिष्टेन तेन सर्वाङ्गलेपनम् ।
कृत्वा वह्निगतो यस्तु वह्निना च न दह्यते ॥३१॥

तिन्त्रिणीकस्य वन्दाकं गृहे यस्य प्रतिष्ठितम् ।
तस्य चोरभयं नास्ति करे द्यूतजयो भवेत् ॥३२॥

उदुम्बरस्य वन्दाकं मृगशीर्षे समाहरेत् ।
हस्ते बद्ध्वा स्पृशेन्नारीं सा नारी वशगा भवेत् ॥३३॥

स्त्रीणां हस्ते तु बध्नीयादन्नमध्ये विनिक्षिपेत् ।
जायते चान्नवृद्धिस्तु नात्र कार्या विचारणा ॥३४॥

न्यग्रोधस्य तु वन्दाकं मृगशीर्षे समाहरेत् ।
बध्नीयाद्दक्षिणे हस्ते जनवश्यो भवेद्ध्रुवम् ॥३५॥

आदाय माटरूषस्य वन्दाकं समुदाहृतम् ।
बद्ध्वा हस्ते जनैर्दीव्यन् स्याद्द्यूतेष्वपराजितः ॥३६॥

आर्द्रायां तौम्बुरं ग्राह्यं वन्दाकं विधिना हरेत् ।
क्षीरेण प्रपिबेद्यस्तु तस्य स्याल्लोहमोटनम् ॥३७॥

आर्द्रार्के वा पुष्यरवौ वन्दाकं तुम्बुरोर्हरेत् ।
बध्नीयाद्दक्षिणे हस्ते बाणस्तम्भः प्रजायते ॥३८॥

पुनर्वसोर्हृतं वंशवन्दाकं क्षीरपेषितम् ।
पीत्वा स्त्रीपुरुषौ वन्ध्यौ प्रसुवाते सुतान्बहून् ॥३९॥

नक्तमालस्य वन्दाकमाहरेच्च पुनर्वसौ ।
क्षीरेण पिष्ट्वा प्रपिबेद् अखिलामयनाशनम् ॥४०॥

तच्चूर्णस्य मात्रेण नश्यन्ति ग्रहराक्षसाः ।
पुष्ये बन्धूकवन्दाकं गृहीत्वा तं निधापयेत् ॥४१॥

क्षेत्रमध्ये रिपोस्तत्र सस्यनाशश्च जायते ।
आश्लेषायां कर्णिकारवन्दाकं सम्यगाहृतम् ॥४२॥

बद्ध्वा हस्ते दृढं तेन स्पृशन् वशति तेजनात् ।
मधूकस्य च वन्दाकमाश्लेषायां समाहरेत् ॥४३॥

बन्धयेद्दक्षिणे हस्ते व्याघ्रादिभयनाशनम् ।
मघासु मुचुकुन्दस्य वन्दाकं विधिनाहृतम् ॥४४॥

निधापयेद्धान्यमध्ये तद्धान्यं त्वक्षयं भवेत् ।
विभीतकस्य वन्दाकं फल्गुन्योः पूर्वयोर्हृतम् ॥४५॥

स्थापयेद्धान्यमध्येन तदक्षय्यं क्षणाद्भवेत् ।
फल्गुन्योर् अन्ययोर् हस्तेऽप्ययमेव विधिः स्मृतः ॥४६॥

शाकवृक्षस्य वन्दाकं मघायां विधिनाहरेत् ।
धान्यसंचयकृद्द्वारे धान्यवृद्धिश्च जायते ॥४७॥

मौञ्जीवृक्षस्य वन्दाकं मघार्के विधिनाहरेत् ।
शिरसा धारयेन्नित्यं तस्य श्रीर्वशमाप्नुयात् ॥४८॥

पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ।
करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ॥४९॥

तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ।
बद्ध्वा हस्ते समस्तानां सध्वधो भवति द्विषाम् ॥५०॥

कुटजस्य तु वन्दाकं चित्रायां विधिनाहरेत् ।
बध्नीयाद्दक्षिणे हस्ते दुर्लभं चेप्सितं लभेत् ॥५१॥

स्वात्यां लिकुचवन्दाकं गृहीत्वा यत्र वस्तुनि ।
निधापयति तत्सर्वमक्षयं नात्र संशयः ॥५२॥

बब्बूलबन्धकं स्वात्यां बदर्यास्त्वनुराधके ।
बध्नन्यो धारयेद्धस्ते तत्स्पृष्टा स्त्री वशा भवेत् ॥५३॥

आहृत्य धात्रीवन्दाकं विशाखायां यथाविधि ।
शुक्तकारस्य भवने विरुद्धस्य निधापयेत् ॥५४॥

सर्वं मद्यमपेयं स्यान्मोक्षस्तस्मिन्समुद्धृते ।
अनुराधासु विधिना ऐन्द्रीवन्दाकमाहृतम् ॥५५॥

धान्यमध्ये विनिक्षिप्तं धान्यमक्षयतां नयेत् ।
ज्येष्ठायाम् आम्रवन्दाकं हृत्वा वेश्यागृहे खनेत् ॥५६॥

सा दुर्भगा भवेत्सत्यमुद्धृते मोक्ष उच्यते ।
मूले खदिरवन्दाकं गृहीत्वा विधिपूर्वकम् ॥५७॥

बद्ध्वा हस्ते नरः क्षिप्रं दुर्भगः सुभगो भवेत् ।
तदेव पिष्टं क्षीरेण पीतं कुष्ठादिनाशनम् ॥५८॥

मूलार्के गोट्टिकायाश्च वन्दाकं विधिनाहरेत् ।
दक्षिणे बन्धयेद्धस्ते स्त्रीवश्यं भवति ध्रुवम् ॥५९॥

तदेव शिरसा धार्यं सर्वसिद्धिर्भवेद् ध्रुवम् ।
करवीरस्य वन्दाकं पूर्वाषाढासु साधितम् ॥६०॥

धारयेच्छिरसा युद्धे स भवेदपराजितः ।
पूर्वाषाढासु वन्दाकं बदरीवृक्षसम्भवम् ॥६१॥

पिबेत्क्षीरेण या वन्ध्या सा बहूंश्च सुतांल्लभेत् ।
कुरवस्य तु वन्दाकं पूर्वाषाढार्कवारके ॥६२॥

बन्धयेद्दक्षिणे हस्ते ह्यदृश्यो जायते नरः ।
उत्तराषाढनक्षत्रे ग्राह्यं मन्दारबन्धकम् ॥६३॥

पलाशबन्धकं वाथ करे बद्ध्वा वशंकरम् ।
श्रवणे चित्रकोद्भूतं वन्दाकं प्राप्यते न तु ॥६४॥

कङ्कुणीतैलघृष्टेन ताम्रपत्रं च लेपयेत् ।
पुटपाकविधानेन तत्स्वर्णं भवति ध्रुवम् ॥६५॥

एरण्डस्य तु वन्दाकं श्रवणार्के समाहरेत् ।
बन्धयेद्दक्षिणे हस्ते सदा द्यूतजयो भवेत् ॥६६॥

धनिष्ठायां तु बदरीवन्दाकं विधिनाहृतम् ।
बद्ध्वा करे स्पृशेद्यं यं स स दासो भवेद्ध्रुवम् ॥६७॥

हृतं पुन्नागवन्दाकं वारुणेषु यथाविधि ।
क्षीरेण पिष्ट्वा प्रपिबन्महानागबलो भवेत् ॥६८॥

नक्तमालस्य वन्दाकं मघार्के विधिनाहरेत् ।
विधिना धारयेद्बाहौ पिशाचानां च दर्शनम् ॥६९॥

तिन्त्रिणीकस्य वन्दाकं पुन्नर्क्षे विधिनाहरेत् ।
बन्धयेद्दक्षिणे हस्ते नित्यं द्यूतजयो भवेत् ॥७०॥

पुन्नर्क्षे वंशवन्दाकमदृश्यो जायते करे ।
शिरीषस्य तु वन्दाकमुत्तरे विधिनाहरेत् ॥७१॥

करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ।
मघायां स्थापयेत्क्षेत्रे वन्दाकं मधुकोद्भवम् ॥७२॥

पक्षिणां मूषिकानां च जायते तुण्डबन्धनम् ।
पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥७३॥

लिङ्गलेपं प्रकुर्वीत वीर्यस्तम्भो भवेद्ध्रुवम् ।
क्षीरेणालोड्य वल्लीकं क्षौद्रं पिष्ट्वा निषेचयेत् ॥७४॥

वङ्गं तु सप्तधा देवि तद्वङ्गं रजतं भवेत् ।
पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥७५॥

क्षीरेण प्रपिबेद्यस्तु ह्यदृश्यो जायते नरः ।
तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ॥७६॥

बद्ध्वा हस्ते समस्तानामवध्यो भवति द्विषाम् ।
हरीतक्यास्तु वन्दाकं पूर्वभाद्रपदाहृतम् ॥७७॥

क्षीरेण कल्कितं पीत्वा चरेद्वररुचेः समः ।
उत्तरास्वर्कवन्दाकं हृतं भाद्रपदासु तत् ॥७८॥

प्रलेपाद्यैः परं हन्याद्विषं स्थावरजङ्गमम् ।
रेवत्यां बोधिवन्दाकलतया कृतकौतुका ॥७९॥

वन्ध्यापि लभते गर्भं पीत्वा गोपयसा च तत् ।
रेवत्यां वटवन्दाकं वल्मीकमधुघर्षितम् ॥८०॥

अक्षिदोषेष्वतिश्रेष्ठमक्षरावरणादिषु ।
रेवत्यां वटवन्दाकं गृहीत्वा धारयेद्भुजे ॥८१॥

महानागबलोपेतो महागणश्च जायते ।
समुद्धृतं विशाखायां वन्दाकं राजवृक्षकम् ॥८२॥

निवारयति गेहस्थं वैश्वानरभयं गृहे ।
रोहिण्यां वटवन्दाकं कटिस्थं वीर्यवर्धनम् ॥८३॥

अश्वत्थभववन्दाकं रेवत्यां गर्भदं स्मृतम् ।
विषवृक्षोत्थवन्दाकं पूर्वाषाढोद्धृतं यदि ॥८४॥

प्रलिप्तं तनुते भूतपिशाचादिप्रभाषणम् ।
चुल्लिकान्तर्गतं कुर्यात्सभक्तां पानसन्ततिम् ॥८५॥

द्यूते जाम्बववन्दाकं रेवत्यां जयकारकम् ।
कुर्यात् कुरववन्दाकं हस्तस्थं बाणवारणम् ॥८६॥

मधूकवृक्षवन्दाकं धान्यस्थं धान्यवृद्धिदम् ।
पलाशतरुवन्दाकं वाक्प्रदं क्षीरसेवितम् ॥८७॥

वेश्यायां निम्बवन्दाकं गृहान्तर्निहितं यदि ।
वश्यं करोति साश्चर्यम् आ जन्ममरणान्तिकम् ॥८८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:47.5330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

limiting tension ratio

  • परिमित ताण गुणोत्तर 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site