TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २
श्रीभैरवी ।
रसोपदेशदातारं तच्छिष्यं काकिनीस्त्रियम् ।
रसपूजां तु पृच्छामि यथावत् कथयस्व मे ॥१॥

श्रीभैरवः ।

रसोपदेशकलक्षणम्

शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ।
आचार्यो ज्ञानवान्दक्षः शीलवान् गुणवान् शुचिः ॥२॥

धर्मज्ञः सत्यसंधश्च रसशास्त्रविशारदः ।
वेदवेदान्ततत्त्वज्ञो निर्मलः शिववत्सलः ॥३॥

देवीभक्तः सदा शान्तो रसमण्डपकोविदः ।
मन्त्रसिद्धो महावीरो देवतायागतत्परः ॥४॥

रसदीक्षाविधानज्ञो मन्त्रौषधमहारसान् ।
रागसंख्यां बीजकल्पं द्वन्द्वमेलापनं बिडम् ॥५॥

रञ्जनं सारणां तैलं दलानि क्रामणानि च ।
वर्णोत्कर्षं मृदुत्वं च जारणं बालवृद्धयोः ॥६॥

खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्भवेत् ।

शिष्यलक्षणम्

गुरुभक्तः सदाचारो लोभमायाविवर्जितः ॥७॥

निस्पृहो निरहङ्कारः सत्यवाङ्नियमस्थितः ।
निरालस्यः स्वधर्मज्ञः षट्कर्मनिरतः सुधीः ॥८॥

दम्भहिंसादिनिर्मुक्तः शिवाचारेषु दीक्षितः ।
अत्यन्तसाधकः शान्तो मन्त्रानुष्ठानतत्परः ॥९॥

दान्तः शिष्यः स विज्ञेयः शक्तिमान् गतमत्सरः ।

काकिनीलक्षणम्

आकुञ्चितस्निग्धकेशा पद्मपत्रायतेक्षणा ॥१०॥

दीर्घोत्तुङ्गघ्राणकेशा विद्रुमाधरशोभिता ।
दाडिमीबीजदशना कम्बुग्रीवोन्नतस्तनी ॥११॥

शिरीषमालामृदुलबाहुपाशविराजिता ।
संकीर्णोरस्थला निम्ननाभिः सूक्ष्मा चलाङ्गका ॥१२॥

तलोदरी रोमराजिवलित्रयविभूषिता ।
विशालजघनोपेता रम्भोरुः सुभगा प्रिया ॥१३॥

कादलोपमजङ्घा च पाटलाङ्घ्रिसरोरुहा ।
शोणामलनखोपेता राजहंसगतिः शुभा ॥१४॥

कलकोकिलनिध्वानकलकण्ठादिमञ्जुला ।
पिप्पलछदसंकाशस्मरमन्दिरमण्डिता ॥१५॥

युवती श्यामला स्निग्धा सुरूपा शुभलक्षणा ।
चुम्बनस्पर्शनाश्लेषरतिकर्मविचक्षणा ॥१६॥

बहुले या पुष्पवती पक्षे सा काकिनी स्मृता ।
स्वस्ववर्णसद्भूता ग्राह्या वाप्यन्यवर्णजा ॥१७॥

रसकर्मणि दीक्षायां प्रयोगे च रसायने ।

काकिनीत्वापादनम्

काकिन्यभावे तरुणी सुरूपान्याथवा भवेत् ॥१८॥

गन्धकं गोघृतोपेतं निष्कं त्रिः सप्तवासरम् ।
प्रातर्दद्यात्तु सा नारी काकिनीसदृशा भवेत् ॥१९॥

धार्मिकः पापभीरुश्च बलवान् ज्ञानवित्तमः ।
न्यायश्रेष्ठः सर्वसमो रसागमविशारदः ॥२०॥

भूपतिश्चास्य मन्त्री च सर्वशास्त्रविशारदः ।
सर्वधर्मरतः श्रेष्ठो न्यायमार्गप्रवर्तकः ॥२१॥

रसशालानिर्माणम्

रसशालां प्रवक्ष्यामि रसेन्द्रस्य वरानने ।
निर्णयेच्च निरातङ्के देशे च निरुपप्लवे ॥२२॥

आस्तिकप्राणिसुभगे धनधान्यसमाकुले ।
सौराज्ये पूर्णविभवे निरपाये ह्यनिन्दके ॥२३॥

नगरे सर्ववर्णाढ्ये महामाहेश्वरावृते ।
तत्रापि विजये स्थाने पवित्रे च सुरक्षिते ॥२४॥

सव्यालपशुपक्ष्यादिसंबाधपरिवर्जिते ।
समस्थले च प्राकारपरिघार्गलभूषिते ॥२५॥

नारङ्गदाडिमडहजम्बीरफलपूरके ।
तालहिन्तालवकुलनारिकेलाम्लपाटले ॥२६॥

अशोकजम्बूपनससालपुंनागमण्डिते ।
कपित्थपूगसरलदेवदारुसुबिल्वके ॥२७॥

धात्रीन्यग्रोधवरणमधूकाम्रातमण्डिते ।
केतकीमल्लिकाजातीयूथिकामालतीयुते ॥२८॥

मागधीकुन्दकुरवतिलके शतपत्रके ।
कुमुदोत्पलकल्हारपुण्डरीकांबुजोत्पलैः ॥२९॥

हंससारसकारण्डचक्रवाकविराजितैः ।
सरोभिः शीतलजले परितः परिवेष्टिते ॥३०॥

शीतानिलाभिलुलितललितप्रसवाञ्चिते ।
चित्रोद्यानेऽतिरुचिरे रसशालां प्रकल्पयेत् ॥३१॥

षोडशस्तम्भरुचिरां चतुरश्रां समायताम् ।
मनोज्ञां देवदेवेशि मत्तवारणसंयुताम् ॥३२॥

वातायनसमोपेतां कवाटार्गलरक्षिताम् ।
कक्षपताकासंयुक्तां सर्वोपकरणोज्ज्वलाम् ॥३३॥

समालिखितदिक्पालां समर्चितविनायकाम् ।
प्रतिष्ठितोमामाहेशां द्वारपालैश्च रक्षिताम् ॥३४॥

भेरीकाहलघण्टादिदिव्यवाद्यविनादिताम् ।
वास्तुलक्षणसंयुक्तां रसशालां प्रकल्पयेत् ॥३५॥

शालायां वेदिका कार्या सुदृढा दर्पणोपमा ।
इष्टकैः खचिता रम्या ससोपाना सलक्षणा ॥३६॥

कपिलागोमयालिप्ता हिरण्यकलशावृता ।

रसेन्द्रपूजाविधिः

वेदिकायां रसेन्द्रस्य भद्रपीठं प्रकल्पयेत् ॥३७॥

भद्रपीठे लिखेत्सम्यक् सिन्दूरेण द्विहस्तकम् ।
षट्कोणं वसुपत्रं च तद्बहिश्चाष्टपत्रकम् ॥३८॥

कमलं चतुरश्रं च चतुर्द्वारोपशोभितम् ।
रसलिङ्गं न्यसेद्यन्त्रे पुष्पाद्यैश्च समर्चयेत् ॥३९॥

रससन्ध्या

अथ सन्ध्यां प्रवक्ष्यामि रसकर्मफलप्रदाम् ।
प्रविशेद्रसशालां च स्नातः शुद्धोऽनुलेपितः ॥४०॥

शुक्लमाल्याम्बरधरः संयतात्मा जितेन्द्रियः ।
यतवाग् गुरुभक्तश्च सत्यवादी दृढव्रतः ॥४१॥

उपविश्य समाचामेत् मृदुले चित्रकम्बले ।
वाङ्मायाश्रीयुतं तोयम् आत्मविद्याशिवात्मकम् ॥४२॥

तत्त्वं च शोधयामीति त्रिवारं विधिवत्पिबेत् ।
ध्यायेद्वरदगायत्रीं त्रिवारं प्रजपेत्प्रिये ॥४३॥

रसभैरवगायत्रीं शृणु भैरवि तत्त्वतः ।
ऐं रसेश्वराय विद्महे रसाङ्कुशाय धीमहि ।
तन्नः सूतः प्रचोदयात् ।
कोटिसूर्यप्रतीकाशं दशकोटीन्दुसंनिभम् ॥४४॥

शुभ्रं पञ्चमुखं देवं त्रिनेत्रं चन्द्रशेखरम् ।
अष्टादशभुजं शान्तं पञ्चकृत्यपरायणम् ॥४५॥

शुक्लमाल्यांबरधरं नागयज्ञोपवीतिनम् ।
स्फटिकसङ्काशं प्रेतारूढं रसेश्वरम् ॥४६॥

नीलकण्ठं च सर्वज्ञं सर्वाभरणभूषितम् ।
वरदं रसशास्त्रं च पारदं भुजङ्गं सुधाम् ॥४७॥

शङ्खभैषज्यकोदण्डशूलखट्वाङ्गसायकम् ।
डमरुं करवालं च गदां पावकमीश्वरि ॥४८॥

आरोग्यं दिव्यमालां च ह्यभयं द्विनवैः करैः ।
रसाङ्कुशीं निजोत्सङ्गे बिभ्राणं वृषवाहनम् ॥४९॥

कपर्दभाररुचिरं मन्दहासाननं शिवम् ।
रसभैरवम् आचिन्त्य तस्योत्सङ्गे रसाङ्कुशीम् ॥५०॥

अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ।
पाशाभयं च बिभ्राणां दक्षिणेतरहस्तयोः ॥५१॥

चतुर्भुजां रक्तवर्णां त्रिणेत्रामिन्दुशेखराम् ।
रक्ताम्बरधरां देवीं कम्बुग्रीवां कृपामयीम् ॥५२॥

रत्नालङ्काररुचिरां मन्दहासविराजिताम् ।
ध्यायेद्रसाङ्कुशीं देवीं देवस्याभिमुखीं शिवाम् ॥५३॥

ततो भस्म समादाय वामहस्तेन धारयेत् ।
नैवाधःपतितं पात्रे गृहीत्वा गोमयं सुधीः ॥५४॥

विशोष्य प्रदहेत्कुण्डे क्रमेण धारयेत्प्रिये ।
पुनरुद्धारणं चैव सद्योजातादिभिर्भवेत् ॥५५॥

निरीक्षणं प्रोक्षणं च ताडनाभ्युक्षणं तथा ।
सद्योजातादिभिर्मन्त्रैरभिमन्त्र्य च तत्पुनः ॥५६॥

मूर्ध्नि वक्त्रे च हृदये गुह्ये चरणयोः क्रमात् ।
ईशानाद्यैः पञ्चमन्त्रैस्तत्तत्स्थानेषु निक्षिपेत् ॥५७॥

सर्वाङ्गोद्धूलनं कुर्यात् भस्मना पञ्चभिश्च तैः ।
संकल्पं विधिवत्कुर्यात् रसाचार्यो महेश्वरः ॥५८॥

प्राणायामत्रयं कृत्वा मूलमन्त्रेण पार्वति ।
प्रोक्षयेन्मन्त्रितं तोयं मूर्ध्नि वामकरस्थितम् ॥५९॥

आचम्य च पुनस्तोयं मूलमन्त्रेण मन्त्रितम् ।
त्रिधा दक्षिणहस्तस्थं पिबेदाचमनं ततः ॥६०॥

अर्घ्यं मूलेन दत्त्वा त्रिः पुनराचम्य पार्वति ।
अष्टोत्तरशतं जप्त्वा मूलमन्त्रमुदारधीः ॥६१॥

समर्पयेच्च सूताय रससन्ध्येयमीश्वरि ।
त्रिकालमेवं कुर्वीत सन्ध्यां सर्वाघनाशिनीम् ॥६२॥

रसांकुशरसांकुशीमूलमन्त्रोद्धारः

वक्ष्येऽहं मूलमन्त्रस्य शृणूद्धारक्रमं प्रिये ।
वाङ्माया कमला चाथ चतुर्थ्यन्तो रसेश्वरः ॥६३॥

ततो महाकालपदं महाबलपदं ततः ।
अघोरभैरवपदं वज्रवीरपदं ततः ॥६४॥

क्रोधकालपदं चैतत्सर्वं सम्बुद्धिसंयुतम् ।
कषष्टवर्गान्तयुतः साधोदन्तः सबिन्दुकः ॥६५॥

इदं पञ्चाक्षरं कूटं ततः कर्षणसंयुतः ।
सविसर्गो ऽप्ययं कूटश्चतुर्वर्णात्मकः प्रिये ॥६६॥

रसेन्द्रभैरवस्यायं मन्त्रो द्वात्रिंशदर्णकः ।
गोपितः सर्वतन्त्रेषु रहस्योऽत्यन्तदुर्लभः ॥६७॥

रसाङ्कुशामन्त्रमहं वक्ष्यामि शृणु भैरवि ।
वाङ्माया भुवनेशी च रमा मकरकेतनः ॥६८॥

रसाङ्कुशा चतुर्थ्यां च नमोऽन्तो द्वादशार्णकः ।
मन्त्रो रसाङ्कुशायाश्च तव देव्याः प्रकीर्तितः ॥६९॥

रसभैरवस्य छन्दो ऽनुष्ठुप् प्रकीर्तितः ।
नन्दिकेश ऋषिः प्रोक्तो देवः श्रीरसभैरवः ॥७०॥

रं बीजं लं भवेत् कीलम् अन्त्यार्णः शक्तिरीरितः ।
रसांकुशायाः स्कन्दस्यार्द्रं बीजं कीलकं रसः ॥७१॥

नमः शक्तिरिति ख्यातं रहस्यं मन्त्रमुत्तमम् ।

रसलिङ्गार्चना

रसलिङ्गार्चनं वक्ष्ये भैरवि शृणु तत्त्वतः ॥७२॥

वामपादं पुरस्कृत्य प्रविशेद्यागमन्दिरम् ।
आसने मृदुले स्थित्वा शुचिः संयतमानसः ॥७३॥

प्राणानायम्य संकल्प्य श्रीगुरुं शिरसि स्थितम् ।
शुद्धस्फटिकसंकाशं प्रशान्तं वरदाभयम् ॥७४॥

स्मरेत्तन्नाम पूर्वं च तदनुज्ञामवाप्य च ।
दिवि स्थिताश्च ये भूता भूमिस्था विघ्नकारिणः ॥७५॥

पाताले ये महाभूताः ते नश्यन्तु शिवाज्ञया ।
अनेनैव च मन्त्रेण दिग्विदिक्ष्व् अक्षतान् क्षिपेत् ॥७६॥

पुष्पमस्त्राय फडिति निक्षिपेद् अन्तरिक्षके ।
सर्वशत्रुप्रमथनी चेति दक्षिणपार्ष्णिकाम् ॥७७॥

त्रिवारं घातयेद्भूमौ प्राणायामो भवेत्पुनः ।
रसेन्द्रभद्रपीठस्य दक्षिणे चतुरश्रकम् ॥७८॥

मण्डलं हस्तमात्रं च सार्धं कुर्यात्सुशोभनम् ।
त्रिकोणवृत्तषट्कोणचतुरश्रं भवेत्क्रमात् ॥७९॥

इन्द्रादिलोकपालांश्च तत्तन्नामपुरःसरम् ।
प्रणवादिनमोऽन्तैश्च पूजयेत्कुसुमाक्षतैः ॥८०॥

वाङ्मायाकमलाबीजैर् हृदयादीन् प्रपूजयेत् ।
प्राच्यामवाच्यां क्रमशः प्रतीच्योत्तरयोः शिवे ॥८१॥

ईशानलासुरमरुत्कोणे नेत्रे प्रपूजयेत् ।
अस्त्रं सर्वासु काष्ठासु चतुर्थ्यन्तं फडन्तकम् ॥८२॥

छोटिका दर्शयेदष्ट पश्चादाधारमाहरेत् ।
तत्रैवावाहयेदग्निमण्डलं बीजमूलकम् ॥८३॥

अग्नेर्दश कलास्तत्र या गन्धाक्षतैः क्रमात् ।
ततः पात्रं समादाय भावयेत्सूर्यमण्डलम् ॥८४॥

मार्तण्डद्वादशकलास्तत्रार्च्याश्चन्दनाक्षतैः ।
गन्धोत्तमान्वितं तोयं पूरयेद् अर्घ्यपात्रकम् ॥८५॥

चिन्तयेदैन्दवं बिम्बं तास्तत्र पूजयेत् ।
मध्ये त्रिकोणमालिख्य शक्तिबीजं समुल्लिखेत् ॥८६॥

तत्र क्षिपेत् गन्धपुष्पं मूलमन्त्रं त्रिधा जपेत् ।
पूर्वादिदिक्षु चतसृषु चतुःपात्राणि धारयेत् ॥८७॥

पूरयेत्पूर्ववत्तानि गन्धपुष्पाक्षतैर्यजेत् ।
प्रोक्षयेन्मूलमन्त्रेण मध्यपात्रोदकेन च ॥८८॥

पात्राणि निजगात्राणि पूजाद्रव्याणि सर्वतः ।
स्वागतश्चतुरश्रं च मण्डलं परिकल्पयेत् ॥८९॥

पूर्ववत्पञ्चपात्राणि पूरयेच्छुद्धवारिणा ।
निक्षिपेन्मध्यगे सूतं रत्नं दक्षिणके क्षिपेत् ॥९०॥

स्वर्णं तद्वामपात्रे च तत्समीपे कुशं न्यसेत् ।
रत्नपात्रसमीपस्थे पात्रे स्यादष्टगन्धकम् ॥९१॥

प्रतिपात्रे त्रिकोणं च लिखेन्मायासमन्वितम् ।
न्यसेद्गन्धाक्षतं पुष्पं त्रिधा मूलेन मन्त्रयेत् ॥९२॥

सप्तधा रसपात्रं च मूलमन्त्रेण मन्त्रयेत् ।
रसपात्रोदकेनैव पूजाद्रव्याणि चात्मनः ॥९३॥

शरीरमुत्तमाङ्गं च प्रोक्षयेत्पीठदीपकम् ।
आसनस्य ऋषिर्मेरुः सुतलं छन्द ईरितम् ॥९४॥

कूर्मरूपी तु भगवान् देवता परिकीर्तिता ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।
अनेनैव तु मन्त्रेण चासने कुसुमं क्षिपेत् ॥९५॥

भूतशुद्धिः

भूतशुद्धिं प्रवक्ष्यामि पृथ्वी पीता सवज्रका ।
कठिना लंबीजयुता जान्वन्ताङ्गुष्ठमूलतः ॥९६॥

ध्येया जान्वादिकट्यन्तम् उपर्यस्यार्धचन्द्रका ।
शुभ्रा वं बीजसहिता विचिन्त्या द्रवरूपिका ॥९७॥

कट्यादि हृदयान्तं च बहिर्ध्येयस्त्रिकोणगः ।
रं बीजं रक्तवर्णश्च स्वस्तिकेन विभूषितः ॥९८॥

हृदादिकण्ठपर्यन्तं वायुः स्मर्यो ऽञ्जनप्रभः ।
यंबीजसहितो देवि षड्बिन्दुपरिभूषितः ॥९९॥

षट्कोणः कर्णदेशाच्च ब्रह्मरन्ध्रान्तमीश्वरि ।
वर्तुलं हंबीजयुतं महाकृष्णं वियत्स्मरेत् ॥१००॥

पृथिवीम् अप्सु च तास्त्वग्नौ स च वायौ स सोऽम्बरे ।
मेलयित्वा द्वादशान्ते स्थापयेत्परमेश्वरि ॥१०१॥

यंबीजेनात्मनो देहं मूलाधाराद्विशोषयेत् ।
षडाधाराणि निर्भिद्य यावत् ब्रह्मबिलं प्रिये ॥१०२॥

रं बीजेन दहेद्देहं सर्वमाप्लावयेत्ततः ।
वंबीजेन द्रवीभूतं ब्रह्मरन्ध्रेन्दुमण्डलात् ॥१०३॥

स्यन्दमानामृतेनैव तनुमाप्लावयेच्छिवे ।
आकाशाद्वायुमादद्यात्तस्माद्वह्निं समाहरेत् ॥१०४॥

वह्नेरापः समादेयास्ताभ्यो भूमिं समाहरेत् ।
एवं पञ्च च भूतानि स्वस्वस्थाने नियोजयेत् ॥१०५॥

वामकुक्षिस्थितं पापपुरुषं कृष्णरूपिणम् ।
ध्यायेत्तं निर्गतं देवि खड्गचर्मधरं परम् ॥१०६॥

न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ।

ऐं ह्रीं श्रीं क्ष्मौं क्ष्मं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् रसेश्वराय महाकालभैरवाय शिखायै वषट् ।
रौद्ररूपाय कृष्णपिङ्गललोचनाय अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ मम महारक्षां कुरु कुरु कारय २ मम रससिद्धिं देहि देहि १८८८ ।
महाकालभैरवाय हृदयाय नमः ।
पूर्ववन्महाबलभैरवाय शिरसे स्वाहा ।
पूर्ववत् अघोरभैरवाय शिखायै वषट् ।
पूर्ववत् वज्रवीरभैरवाय कवचाय हुं ।
पूर्ववत् क्रोधभैरवाय नेत्रत्रयाय वौषट् ।
पूर्ववत् कालभैरवाय अस्त्राय फट् ।
एवमङ्गुलिन्यासः ।

प्रतिबीजैः समुच्चार्य चतुर्थं रसांकुशम् ॥१०७॥

हृदादिपञ्चस्थानेषु विन्यसेद्बीजपञ्चकम् ।
ततश्चास्त्राय फडिति चोटिकां दिक्षु दर्शयेत् ॥१०८॥

मातृकां च कलान्यासं पाज्योन्यासं च कोलकम् ।
प्रकुर्वीत ततो देवि चान्तर्यजनम् आचरेत् ॥१०९॥

कुम्भकेन हृदम्भोजे सम्फुल्लं विदधाति हि ।
हृत्पद्मकर्णिकायां च रसमूर्तिं च चिन्तयेत् ॥११०॥

मानसैर्गन्धपुष्पाद्यैरुपचारैः प्रपूजयेत् ।
स्वदेहं गन्धपुष्पाद्यैर् अलंकुर्याद् यथासुखम् ॥१११॥

अन्तर्यजनमेवं स्याद् बहिर्यजनम् आचरेत् ।
अस्त्रेण लिङ्गं सम्प्रोक्ष्य लिङ्गशुद्धिं विधाय च ॥११२॥

वस्त्रेन तोयेन पूरितां वर्धनीं प्रिये ।
दक्षपार्श्वे संनिवेश्य पूजयेत्तां विधानतः ॥११३॥

पीठे सिन्दूररजसा विदध्याच्चतुरश्रकम् ।
षट्कोणं विलिखेत्तस्मिन् ऋजुं स्वर्णशलाकया ॥११४॥

वसुपत्रं चाष्टपत्रं सचतुर्द्वारभूगृहम् ।
चतुरश्रं बहिर्भागे दिक्पालान्पूजयेत्प्रिये ॥११५॥

नन्दिनं च महाकालं भृङ्गिं रिटिं महाबलम् ।
कुम्भकर्णं च सुग्रीवं भृङ्गकं च दृढायुधम् ॥११६॥

चतुर्द्वारे तु विन्यस्य द्वौ द्वौ प्रागादिपूजितौ ।
रुक्मं रौप्यं ताम्रसीसं वङ्गकान्तशठं ह्ययः ॥११७॥

प्रागादिद्वार्षु सम्पूज्य क्रमाद्द्वे द्वे महेश्वरि ।
भूगृहाभ्यन्तरे प्राच्यां शुक्रमग्नौ ग्रहं यजेत् ॥११८॥

दक्षिणस्यां यजेद्रुद्रमासुरे च समीरणम् ।
पश्चिमस्यां शिवं वह्निं वायव्याम् उत्तरे ह्युमाम् ॥११९॥

यजेत्पावकमैशान्यां ततश्चाष्टदलाग्रके ।
प्रागादौ गन्धकं तालं कासीसं च मनःशिलाम् ॥१२०॥

कंकुष्ठं माक्षिकं चैव नृपावर्तं च गैरिकम् ।
लेपिका क्षेपिका चैव क्रामिका रञ्जिका तथा ॥१२१॥

लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ।
विभूतिः खेचरी चैव दश दूत्यः क्रमेण च ॥१२२॥

पूज्यास्त्वष्टदले पद्मे ह्यूर्ध्वाधस्ताद्दलेषु च ।
माणिक्यमुक्तावैडूर्यनीलगारुडविद्रुमाः ॥१२३॥

गोमेदः पुष्परागश्च मणयः सर्वसिद्धिदाः ।
द्वितीयवसुपत्रस्य दलाग्रेषु प्रपूजयेत् ॥१२४॥

अष्टादशभुजा रुद्राः पञ्चवक्त्रास् त्रियम्बकाः ।
चन्द्रार्धशोभिमकुटाः नीलग्रीवा वृषध्वजाः ॥१२५॥

स्वस्ववर्णधराः सर्वे त्वष्टविद्येश्वरास्तु ते ।
पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥१२६॥

रसकं विमलं ताप्यं चपलं तुत्थमञ्जनम् ।
षट्कोणस्य दलाग्रेषु सख्यः स्युः सर्वसिद्धिदाः ॥१२७॥

वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।
भूनागः शक्तयश्चैताः षडस्रेषु प्रपूजयेत् ॥१२८॥

हिंगुलं सस्यकं चैव शिलाजत्वग्निजारकम् ।
तत्कर्णिकायां पूर्वादौ पराशक्तिचतुष्टयम् ॥१२९॥

हिंगुलं मालिनी शक्तिः परा शक्तिश्च सस्यकम् ।
शिलाजत्वपरा शक्तिरग्निजारः परापरा ॥१३०॥

प्रणवादिनमोऽन्तैश्च तत्तन्नामपुरःसरम् ।
सचतुर्थ्या यजेदेतान्रसावरणसंस्थितान् ॥१३१॥

मध्ये तु दिव्यशक्तीनां पूजयेद्रसभैरवम् ।
सप्तविंशतिनिष्के तु द्राविते शुद्धहाटके ॥१३२॥

नवनिष्कं सूतराजं विन्यसेच्चैकमानसः ।
मधूच्छिष्टकृते यन्त्रे लिङ्गाकारे सुलक्षणे ॥१३३॥

निष्टप्ते हाटके सूतं प्रतप्ते प्रक्षिपेच्छिवे ।
मुहूर्तात्स्वाङ्गशीतं तं रसलिङ्गं पयोऽन्तरे ॥१३४॥

स्थापयेत् पुनरादाय ह्युपरिस्थं मलं हरेत् ।
संघृष्य च समीकृत्य लिङ्गं संप्रोक्षयेत्ततः ॥१३५॥

एवं रौप्यादिलोहैर्वा व्यस्तैर् वाथ समस्तकैः ।
अभ्रकादिमसत्त्वैर्वा लिङ्गं कुर्यात्स्वशक्तितः ॥१३६॥

रसलिङ्गं द्विधा प्रोक्तं सकलं निष्कलं प्रिये ।
पूर्वोक्तं सकलं लिङ्गं निष्कलं केवलो रसः ॥१३७॥

बुभुक्षूणां हि सकलं निष्कलं मोक्षमिच्छताम् ।
रसलिङ्गं हेमबद्धं ब्रह्मविष्ण्वीशवह्नयः ॥१३८॥

अपूजयन् रूप्यबद्धं गणेशस्कन्दनन्दिनः ।
त्वयाभ्रसत्वसम्बद्धं रसलिङ्गं प्रपूजितम् ॥१३९॥

ताम्रबद्धं रमावाणीकुबेरेन्द्रजलाधिपाः ।
कान्तबद्धं यममरुन्नैरृताः समपूजयन् ॥१४०॥

वङ्गबद्धं सिद्धसाध्यविद्याधरमहर्षयः ।
नागबद्धं नागवसुगन्धर्वोरगकिन्नराः ॥१४१॥

तीक्ष्णबद्धं भद्रकालीयक्षभूतपिशाचकाः ।
मुण्डबद्धं च दुर्गाम्बा चाप्सरोगुह्यकासुराः ॥१४२॥

निष्कलं रसलिङ्गं तु भृङ्ग्याद्या योगिनोऽर्चयन् ।
उक्तानि रसलिङ्गानि मानवाः फलकाङ्क्षिणः ॥१४३॥

पूजयेयुः प्रयत्नेन नित्यं सर्वार्थसिद्धये ।
उक्तानां रसलिङ्गानां प्राणसंस्थापनं शृणु ॥१४४॥

प्राणानायम्य विधिवत् प्राणशक्तिं स्मरेच्छिवे ।
शोणिताम्भोधिमध्यस्थरक्ताम्भोजासनां पराम् ॥१४५॥

रक्तांबरधरां रक्तां नानारत्नकिरीटिनीम् ।
विमलेन्दुकलाजूटां रविवह्नीन्दुलोचनाम् ॥१४६॥

कर्णताटङ्ककिरणारुणीकृतकपोलकाम् ।
श्रीपर्णीकुसुमाकारनासावंशविराजिताम् ॥१४७॥

प्रवालपद्मरागाभबिम्बाधरविराजिताम् ।
कुरुविन्ददलाकारश्लक्ष्णदन्ताभिशोभिताम् ॥१४८॥

शङ्खाभिरामकण्ठस्थमुक्ताहारविराजिताम् ।
अङ्गुलीयककेयूरकटकादिविभूषिताम् ॥१४९॥

पाशाङ्कुशेक्षुकोदण्डपुष्पबाणाभयप्रदाम् ।
रुधिरापूर्णपात्रेण शोभमानकराम्बुजाम् ॥१५०॥

पीनस्तनतटोद्भासिहारकुङ्कुममण्डिताम् ।
काञ्चीमञ्जीरकटकपादाङ्गुलिविभूषिताम् ॥१५१॥

प्राणप्रतिष्ठां लिङ्गस्य कुर्वीतैकाग्रमानसः ।
सृणिं मञ्च पाशश्च हंसः सोऽहमिति प्रिये ।
अमुष्य लिङ्गस्य प्राण इह प्राणः ।
अमुष्य लिङ्गस्य जीव इह स्थितः ।
अमुष्य लिङ्गस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु सोऽहं हंसः स्वाहा ।
यरलवशषसहों ।
क्रों ह्रीं आं ।
एतन्मन्त्रं समुच्चार्य प्राणानावाहयेत्प्रिये ।
अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ।
ऋग्यजुःसामानि छन्दांसि ।
श्रीपराशक्तिर्देवता ।
आं बीजम् ।
ह्रीं शक्तिः क्रों कीलकम् ।
अमुष्य लिङ्गस्य प्राणप्रतिष्ठायां विनियोगः ।
आसनं पूजयेत्पूर्वं गन्धपुष्पाक्षतादिभिः ॥१५२॥

हां आधारशक्त्यै नमः ।
ह्रीं कूर्माय नमः ।
ह्रूं अनन्ताय नमः ।
ह्रैं पृथिव्यै नमः ।
ह्रौं कन्दाय नमः ।
अङ्कुराय नालाय कर्णिकेभ्यः दलेभ्यः केसरेभ्यः कर्णिकायै तन्मध्ये धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय नमः ।
हृदम्भोजस्थितं देवं सह देव्या महेश्वरि ।
आवाहयेत्सावरणं स्वाङ्गशक्तिसमन्वितम् ॥१५३॥

पीठे संस्थापयेल्लिङ्गं मूलेनार्घ्यं कुशोदकैः ।
पाद्यं गन्धोदकैर्दद्यात् हैमेनाचमनं भवेत् ॥१५४॥

रत्नोदकैर्भवेत्स्नानं सर्वं मूलेन शाम्भवि ।
एकादशेन रुद्रेण पवमानेन पार्वति ॥१५५॥

चमकैः पुरुषसूक्तैश्च फलैः पञ्चामृतैरपि ।
नालिकेरेक्षुसलिलैः सुगन्धोदकवारिणा ॥१५६॥

संस्नाप्य च ततो लिङ्गं पीठे संस्थापयेच्छिवे ।
लिङ्गस्य परितः ओं वामदेवाय नमः ज्येष्ठाय रुद्राय कालाय कलविकरणाय बलाय बलविकरणाय बलप्रमथनाय सर्वभूतदमनाय इत्यष्टासु दिक्षु मनोन्मनाय इति शिवसन्निधौ पुष्पैरभ्यर्च्य ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुं ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
ह्रां ईशानाय नमः ।
ह्रीं तत्पुरुषाय नमः ।
ह्रूं अघोराय नमः ।
ह्रैं वामदेवाय नमः ।
ह्रौं सद्योजाताय नमः ।
मूलमन्त्रेण देवाय दद्यात्पुष्पाञ्जलिं प्रिये ॥१५७॥

मूलमन्त्रषडङ्गेन न्यासं कुर्याच्छिवस्य च ।
लिङ्गस्य दक्षिणे भागे ऋगादीन्निगमानपि ॥१५८॥

ब्रह्माणं पृथिवीं तोयं विष्णुं रुद्रं हुताशनम् ।
ईश्वरं पवनं चैवमाकाशं च सदाशिवम् ॥१५९॥

श्रीकण्ठममृतांशुं च भैरवं भास्करं तथा ।
परं शिवं परात्मानं पूजयेन्मतिमान् क्रमात् ॥१६०॥

लिङ्गस्य वामपार्श्वे तु ब्राह्म्यादीः सप्त मातरः ।
महालक्ष्मीं महाकालीं दुर्गां स्कन्दविनायकौ ॥१६१॥

योगिन्यः क्षेत्रपालाश्च शक्तयश्चादिपीठकाः ।
ओड्याणशक्तिर् जालंध्री तथा पूर्णा गिरिः प्रिये ॥१६२॥

कामेश्वरीति संपूज्या रुद्रशक्तिः सुरार्चिते ।
लोपामुद्रा कुब्जिका च कालसंकर्षणी तथा ॥१६३॥

मधुरादिरसा गन्धाः सर्वधान्यानि पार्वति ।
दिव्यौषध्यः सुधा हाला विषं चर्मादिधातवः ॥१६४॥

इन्द्रियाणि मनो बुद्धिरहङ्कारश्च चेतनः ।
शब्दाद्या विषयाः पूज्या देहाङ्गानि च शाम्भवि ॥१६५॥

लिङ्गस्य पश्चिमे भागे समुद्राः सरितो नदाः ।
पर्वता मेरुमुख्याश्च भास्कराद्या नव ग्रहाः ॥१६६॥

ज्योतिश्चक्रं ध्रुवश्चैव शिशुमारः प्रजापतिः ।
कलाः काष्ठाश्च घटिका मुहूर्ताः प्रहरा दिनम् ॥१६७॥

रात्रिः पक्षश्च मासश्च ऋतुकालायनानि च ।
संवत्सरा युगाः कल्पा दिशस्तारास्तिथिः शिवे ॥१६८॥

पातालानि च नागेन्द्रास्तथा कालाग्निरुद्रकाः ।
यक्षाः पिशाचभूताश्च राक्षसा दनुजास्तथा ॥१६९॥

गुह्यका दुष्टवेताला राजयक्ष्मादयो गदाः ।
मन्त्राः शस्त्राणि चास्त्राणि सम्पूज्य क्रमशः प्रिये ॥१७०॥

लिङ्गस्य पूर्वभागे तु संपूज्या गुरुपङ्क्तयः ।
सिद्धाः साध्याश्च मुनयो योगिनो ब्रह्मवादिनः ॥१७१॥

विद्याधराः किन्नराश्च गन्धर्वश्चाश्विनौ तथा ।
वसवोऽप्सरसां मुख्या शृङ्गारादिरसा नव ॥१७२॥

गीतं नृत्तानि तद्भेदाः काश्यपाद्यास्तथा दश ।
रुद्राः समनवः पूज्या भास्करा वह्नयस्त्रयः ॥१७३॥

विश्वे देवाश्च पितरो मातरः पितृदेवताः ।
कुलाचार्या रसाचार्याः पूर्वाचार्याः शिवार्चकाः ॥१७४॥

मत्स्यादिदशजन्मानि जिनो लोकायतस्तथा ।
नरकाद्याः सर्वलोका गरुडा गरुडाण्डकाः ॥१७५॥

ब्रह्माण्डाः खेचराः सर्वे भूचराश्च जलेचराः ।
सम्पूज्य देवताः सर्वाः प्रणवादिनमोऽन्तकैः ॥१७६॥

तत्तन्नामचतुर्थ्यन्तैः पुष्पगन्धाक्षतैः प्रिये ।
देवाय वस्त्रयुगलम् उपवीतद्वयं तथा ॥१७७॥

मधुपर्कं दिव्यगन्धमक्षतान् कुसुमानि च ।
सदा कैतकवर्ज्यानि दिव्यानि विदलानि च ॥१७८॥

तत्पुष्पाणि च कह्लारकमलोत्पलकैरवम् ।
जातीचम्पकपुन्नागपूगनारङ्गकैः ॥१७९॥

मागधीमाधवीमल्लीयूथिकाप्रभृतीनि च ।
दमनी मरुवं चैव रसेन्द्राय समर्पयेत् ॥१८०॥

धूपं दशाङ्गं दीपं चापूपान्नं घृतपायसम् ।
सषड्रसानि शाकानि शुद्धगन्धोत्तमान्वितम् ॥१८१॥

लेह्यं चोष्यादि नैवेद्यं पारदेन्द्राय दर्शयेत् ।
हस्तप्रक्षालनं देवि दद्याद्गन्धोदकेन च ॥१८२॥

सुवासितानि पूगानि घनसारयुतानि च ।
अवदातानि साग्राणि नागवल्लीदलानि च ॥१८३॥

मुक्ताफलोद्भवं चूर्णं ताम्बूलं च समर्पयेत् ।
दर्पणं चामरद्वन्द्वं छत्रं नृत्तं च गीतकम् ॥१८४॥

उपचारेषु सर्वेषु दद्यादाचमनं प्रिये ।
सर्वोपचारान्मूलेन दद्यात्स्तोत्रं जपेच्छिवे ॥१८५॥

रसेन्द्रभैरवं देवं ध्यात्वा देवीं रसांकुशाम् ।
माहेश्वरांश्च विनतां गन्धपुष्पादिभिर्यजेत् ॥१८६॥

अङ्गुष्ठानामिकाभ्यां च दद्याद्गन्धोत्तमान्वितम् ।
बिन्दुमूलेन देवाय देव्यै च गुरुपङ्क्तये ॥१८७॥

क्रमादावरणस्थेभ्यो देवीभ्योऽपि च तर्पयेत् ।
ह्रीं आनन्दशिवमूर्तिमाराधयामि ।
ह्रीं परानन्दशिवमूर्तिमाराधयामि ।
ह्रीं परापरानन्दशिवमूर्तिमाराधयामि ।
ह्रीं आनन्दसिद्धमूर्तिमाराधयामि ।
ह्रीं परानन्दसिद्धमूर्तिमाराधयामि ।
ह्रीं परापरानन्दसिद्धमूर्तिमाराधयामि ।
क्लीं आनन्दगुरुमूर्तिमाराधयामि ।
क्लीं परानन्दगुरुमूर्तिमाराधयामि ।
क्लीं परापरानन्दगुरुमूर्तिमाराधयामि ।
तेभ्यो दत्त्वा प्रसादं च तैरनुज्ञापितः स्वयम् ॥१८८॥

कुण्डल्याम् आत्मतत्त्वं च विद्यातत्त्वं च नाभिगम् ।
हृदये शिवतत्त्वं च सर्वतत्त्वं हि तालुगम् ॥१८९॥

त्रितत्त्वम् एवं संचिन्त्य प्रसादं च समन्त्रकम् ।
ततः प्रज्वलितं स्मृत्वा ज्योतिरन्तर्गतं प्रिये ॥१९०॥

स्वीकुर्वीत प्रसादं च यथेष्टं सुरसेविते ।
प्रीणन्ति पितरो हर्षान्मूर्छया सर्वदेवताः ॥१९१॥

अज्ञाना [... औ३ Zएइछेन्झ्] वप्रीतिः स एवाहं न संशयः ।

रसेन्द्रबलिक्रमः

गन्धोत्तमौदनं शुद्धक्षतजं च घृतं मधु ॥१९२॥

संयोज्य पञ्चखण्डं च कृत्वा दद्यात्क्रमेण च ।
दक्षिणोत्तरपूर्वासु पश्चिमायां च मध्यमे ॥१९३॥

तांस्तान्मन्त्रान्समुच्चार्य बलिं दद्यात्ततो नरः ।
प्रणवं मायां कमलां देवीं पुत्रप्रदं ततः ॥१९४॥

ततो वटुकनाथाख्यं कपिलं जटाभारभासुरं च ततः पिङ्गल त्रिणेत्र इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
ओं ह्रीं श्रीं सिद्धयोगिनीभ्यः सर्वमातृभ्यो नमः ।
ओं ह्रीं श्रीं सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः ।
ओं ह्रीं श्रीं स्थानक्षेत्रपाल इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
ओं ह्रीं श्रीं रसेन्द्र क्षेत्रपाल राजराजेश्वर इमां बलिं पूजां गृह्ण गृह्ण स्वाहा ।
बलिं दद्यादिति शिवे सर्वविघ्नोपशान्तये ।
ततश्चाष्टोत्तरशतं जपेन्मूलं रसाग्रतः ॥१९५॥

ततः स्तोत्रं जपेद्देवि रसभैरवतुष्टये ।
संतुष्टाः सर्वदेवाः स्युः तुष्टे तु रसभैरवे ॥१९६॥

अयं नित्यार्चनविधिः प्रोक्तः सर्वत्र दुर्लभः ।

पारदपूजाफलम्

विद्धि मां पारदं देवि तत्स्मर्ता मत्समः प्रिये ॥१९७॥

पारदस्त्वधिको मत्तो मदीयत्वाच्च सारतः ।
रसस्य स्मरणं पुण्यं दर्शनं स्पर्शनं तथा ॥१९८॥

पूजनं भक्षणं दानं षोढा पुण्यमुदीरितम् ।
सात्त्विकं राजसं चैव तामसं त्रिविधं वपुः ॥१९९॥

सात्त्विकं मुक्तिदं शुभ्रं बालं द्विभुजमण्डितम् ।
पूर्णपात्रं सूक्ष्मदण्डं द्विनेत्रं किङ्किणीस्रजम् ॥२००॥

राजसं भुक्तिदं रक्तं किरीटशशिशेखरम् ।
चतुर्भुजं च तरुणं नीलकण्ठं त्रिलोचनम् ॥२०१॥

सर्वैश्वर्यप्रदं ध्यायेत् शूलपात्रवराभयम् ।
तामसं कृष्णवर्णं च ज्वलदूर्ध्वशिरोरुहम् ॥२०२॥

अष्टादशभुजं त्र्यक्षं पूर्वोक्तं चिन्तयेद्रसम् ।
सर्वसिद्धिप्रदं देवि सर्वकामफलप्रदम् ॥२०३॥

स्मरणं रसराजस्य सर्वोपद्रवनाशनम् ।
हृदम्भोजस्थितं ध्यायेन्नश्यन्त्येनांसि भैरवि ॥२०४॥

दर्शनं पारदेन्द्रस्य हन्ति पापं त्रिकालजम् ।
सेतुकेदारपर्यन्तदिव्यलिङ्गौघदर्शने ॥२०५॥

यत्पुण्यं लभते मर्त्यः तत्कोटिगुणितं भवेत् ।
पृथिव्यां सर्वतीर्थेषु सागरान्तेषु दर्शनात् ॥२०६॥

स्नानपानादिभिः पुण्यं तत्कोटिगुणितं भवेत् ।
गोहत्यानियुतं देवि भ्रूणहत्याशतानि च ॥२०७॥

ब्रह्महत्यासहस्राणि नश्यन्ति रसदर्शनात् ।
गवां कोटिप्रदानेन स्वर्णकोटिशतेन च ॥२०८॥

अश्वमेधसहस्रेण यत्पुण्यं तच्च दर्शनात् ।
रसस्य स्पर्शनं हन्यादगम्यागमनं प्रिये ॥२०९॥

परद्रव्यापहारं च पापं प्राणिवधार्जितम् ।
सप्तद्वीपे धरण्यां च पाताले गगने दिवि ॥२१०॥

यान्यर्चयति लिङ्गानि तत्पुण्यं रसपूजया ।
स्वायंभुवेषु लिङ्गेषु दिव्येषु कृतपूजया ॥२११॥

यत्पुण्यं रसलिङ्गस्य पूजया तत्फलं भवेत् ।
योगिनोऽष्टाङ्गनिरता यत्पदं ब्रह्मवादिनः ॥२१२॥

तत्पदं समवाप्नोति रसलिङ्गस्य पूजया ।
कुंकुमागरुकस्तूरीकर्पूरान्तर्गतं रसम् ॥२१३॥

मूर्छितं रसलिङ्गाय दद्यादिष्टार्थसिद्धये ।
भक्षणाद्रसराजस्य सर्वपापं विनश्यति ॥२१४॥

अनादिमायामलिनमात्मानं च विशोषयेत् ।
भवरोगं हरेच्छीघ्रं त्रितापं च विनाशयेत् ॥२१५॥

रसराजस्य दानेन चतुरब्ध्यन्तमेदिनीम् ।
महामेरुसमं स्वर्णं दत्त्वा यत्तत् फलं भवेत् ॥२१६॥

ब्रह्मरूपी शुद्धरसो विष्णुरूपी स मूर्छितः ।
भस्मीकृतो रुद्ररूपी बद्धः सूतः सदाशिवः ॥२१७॥

कामरूपी जलूकाभः कालरूपी च दोषवान् ।
मूर्छितो भस्मितो बद्धः पारदेन्द्रो महेश्वरि ॥२१८॥

व्याधिमृत्युदरिद्रत्वं हरतेऽसौ कृपाकरः ।

रसेन्द्रस्तोत्रम्

ददासि त्वं रसेन्द्राशु शब्दस्पर्शनधूमतः ॥२१९॥

स्वर्णमर्बुदकोट्यन्तं त्राहि खेचरसिद्धिद ।
नमस्ते कालकालाय नमः सर्वगुणात्मने ॥२२०॥

वलीपलितनाशाय महावीर्यप्रदायिने ।
नमः शस्त्रास्त्रहन्त्रे च मायाम्भोनिधिपारद ॥२२१॥

पारदेन्द्र नमस्तुभ्यं कामिनीकेलिमन्मथ ।
सुधारूप त्रिदोषघ्न नमस्ते षड्रसात्मने ॥२२२॥

घनत्वात्पृथिवीरूप द्रवत्वाज्जलरूपिणे ।
तेजोऽधिकत्वात्तेजस्विन् चाञ्चल्याद्वायुरूपिणे ॥२२३॥

सूक्ष्मत्वाद्रसरूपाय नमस्ते भूतरूपिणे ।
नमस्ते योगयोग्याय प्रसीदामरवन्दित ॥२२४॥

वेदगोद्विजराजेन्द्रगुरुवीरादिहिंसया ।
सम्भूतक्षयकुष्ठादीन्रोगान्हरसि पावन ॥२२५॥

नष्टेन्द्रियार्थानज्ञानान् त्राता त्वमसि पारद ।
सर्वौषधीभ्योऽप्यधिको ह्यणुमात्रोपयोगतः ॥२२६॥

एकोऽपि सर्वदोषघ्नोऽरुचिनाशन ते नमः ।
त्वया सृष्टा महेन्द्राद्याः सुरा ब्रह्मादयः कलाः ॥२२७॥

चन्द्रार्कग्रहनक्षत्रशिवभैरवशक्तयः ।
ज्ञानाज्ञानगुणा लोका गन्धर्वोरगराक्षसाः ॥२२८॥

दिव्यौषधानि सर्वाणि सर्वसिद्धिकराण्यपि ।
सूतेन्द्र भवतः श्रीमन् कलां नार्हन्ति षोडशीम् ॥२२९॥

प्रत्यक्षशम्भो सूतेन्द्र किमन्यैर्भवति स्थिते ।
अणिमादिगुणोपेते नानासिद्धिप्रदायके ॥२३०॥

योगिनो हेममुख्यानि लोहान्यक्षयतां सदा ।
अमृतत्वं प्राप्नुवन्ति सेवया तत्र कोज्वल ॥२३१॥

दृश्यादृश्यस्वरूपं त्वां भोगमोक्षप्रदं परम् ।
यो न जानाति सूतेन्द्र स मां वेत्ति कथं नरः ॥२३२॥

गुरुर्माता पिता भ्राता धनं विद्या गतिः सुहृत् ।
रस त्वमेव भूतानां त्वत्तः कोऽन्यो हितंकरः ॥२३३॥

रसेन्द्र तव योगे च शास्त्रे स्तोत्रे रसायने ।
यस्तु भक्तियुतो लोके स एवाहं न संशयः ॥२३४॥

ब्रह्मज्ञानेऽपि निष्णातो यस्त्वां निन्दति पारद ।
त्याज्योऽसौ सर्वलोकेषु नैवाहं रक्षितुं क्षमः ॥२३५॥

यस्त्वां नास्तीति च वदेत् तस्य सिद्धिर्न कुत्रचित् ।
यस्त्वामस्तीति च वदेत्तस्य सिद्धिर्भवेत्सदा ॥२३६॥

रसेन्द्रं यस्तु लोकेऽस्मिन्कुलीनो वाधमान्वयः ।
संस्कृतं कुरुते सूत त्वामष्टादशकर्मभिः ॥२३७॥

स पुण्यः स व्रती धन्यः स श्लाघ्यः स च बुद्धिमान् ।
स पुमान्स च सर्वज्ञः स सिद्धः स च दैवतम् ॥२३८॥

तत्कुलं पावनं भूमिः पुण्या राजा जयान्वितः ।
तत्पुरं सोत्सवं नित्यं कृतार्था च तदम्बिका ॥२३९॥

तस्य संदर्शनं पुण्यं स्पर्शनं भाषणं तथा ।
प्रत्यक्षादिप्रमाणेन पारद त्वं सदाशिवः ॥२४०॥

त्वत्तो देहादि लोहानि वज्रत्वं यान्ति हेमताम् ।
रसेन्द्र त्वत्प्रसादेन मानिन्यो मृगलोचनाः ॥२४१॥

चक्रवाकसमोत्तुङ्गपीनवृत्तस्तनोज्ज्वलाः ।
चञ्चला मन्मथासक्ता विद्रुमाधरशोभिताः ॥२४२॥

शुकतुण्डप्रतीकाशवक्रतीक्ष्णनखाङ्कुराः ।
शिरीषमालासुभुजाः चम्पकस्रक्समप्रभाः ॥२४३॥

निम्ननाभिसमुद्भूतरोमराजिविराजिताः ।
सर्वाङ्गसौष्ठवाः कान्ताः स्निग्धा वश्या भवन्ति च ॥२४४॥

सूतेन्द्र शुष्ककाष्ठानां राशिमग्निर्यथा दहेत् ।
तथैव जन्मदारिद्र्यमृत्युदुःखमहामयान् ॥२४५॥

जारणार्थेऽग्निमध्ये त्वां धारयेत्कति वासरान् ।
तावत्कल्यसहस्राणि शिवलोके सुखं वसेत् ॥२४६॥

तव कार्येषु सूतेन्द्र किंचिद्द्रव्यं व्ययेन्नरः ।
तेषां ददासि तद्वित्तं कोटिकोटिगुणाधिकम् ॥२४७॥

परमा पारदी विद्या सर्वलोकेषु दुर्लभा ।
भोगमोक्षप्रदा पुण्या पुत्रारोग्यप्रवर्धनी ॥२४८॥

ये त्वां निन्दन्ति सूतेन्द्र मार्जालखरवायसाः ।
जम्बूका ऋषभाः श्वानः क्लीबान्धबधिरा जडाः ॥२४९॥

मूकाः कुब्जाः पङ्गवश्च व्यङ्गा वन्ध्याश्च रोगिणः ।
कैवर्ताः पापकर्माणो जायन्तेऽनेकजन्मसु ॥२५०॥

भवतो निन्दकैः सार्धं भाण्डपक्वान्नमिश्रणम् ।
यः कुर्यादासनं शय्यां भोजनालापसंगतिम् ॥२५१॥

स पापिष्ठो भवेत्त्याज्यः सर्वधर्मबहिष्कृतः ।
इति स्तोत्रं मया प्रोक्तं पारदेन्द्रस्य भैरवि ॥२५२॥

यः पठेत् शृणुयाद्भक्त्या त्रिसन्ध्यं रससिद्धये ।
ब्रह्महत्यादिपापैश्च पातकैरुपपातकैः ॥२५३॥

त्रिकर्मकलिभिर्देवि मुच्यते नात्र संशयः ।
घोरे युद्धे महारण्ये दिग्भ्रमे शत्रुसंकटे ॥२५४॥

नदीप्रतरणे देवि चोरव्याघ्रादिसङ्कटे ।
जपेत्स्तोत्रमिदं देवि ध्यात्वा श्रीरसभैरवम् ॥२५५॥

इति स्तुत्वा सूतराजं सर्वं कर्म समर्पयेत् ।
रसो दाता रसो भोक्ता रसः कर्ता च कारणम् ॥२५६॥

रसो होता च हव्यं च सर्वव्यापी रसः सदा ।
अनेनैव च मन्त्रेण रसेन्द्राय समर्पयेत् ॥२५७॥

ततो न्यासं च मूलेन कुर्याद्ध्यात्वा च पूर्ववत् ।
संहारमुद्रां कृत्वाथ वहेन्नद्यां रसेश्वरम् ॥२५८॥

हृत्पद्मे स्थापयेद्देवं साङ्गावरणशक्तिकम् ।
शिवोऽहमिति सद्भावं चिन्तयेद्रसदेशिकः ॥२५९॥

पूजास्थानं च संमार्ज्य प्रोक्षयेदुदकेन च ।
ततो होमालयं प्राप्य समाचम्य च देशिकः ॥२६०॥

शालायामग्निदिग्भागे योनिकुण्डे त्रिमेखलम् ।
दर्भैः प्रागुदगग्रैश्च परिस्तीर्णं यथाविधि ॥२६१॥

न्यासं मूलेन संकल्प्य प्राणायामं विधाय च ।
पञ्चभूसंस्कृतं कृत्वा स्वस्त्रिया वा द्विजेन वा ॥२६२॥

आनीय वह्निं निक्षिप्य कुण्डे प्रज्वालयेत्ततः ।
वह्निं पिङ्गजटाजूटं त्रिनेत्रं शुक्लवाससम् ॥२६३॥

रक्ताम्भोजस्थितं देवं माल्याभरणभूषितम् ।
सप्तहस्तं चतुःशृङ्गं द्विशीर्षं च त्रिपादकम् ॥२६४॥

त्रिधा बद्धं च ऋषभं शक्त्याद्यायुधधारिणम् ।
ध्यात्वा तस्यार्घ्यपाद्यादि कुर्यात्सर्वोपचारकम् ॥२६५॥

गन्धाक्षतसुपुष्पैश्च पूजयेज्जातवेदसम् ।
तस्मिन्नावाहयेद्देवं संचिन्त्य रसभैरवम् ॥२६६॥

न्यासं देवस्य कुर्वीत मूलमन्त्रेण होमयेत् ।
तिलाज्यव्रीहिभिर्मन्त्रं शतमष्टोत्तरं प्रिये ॥२६७॥

अष्टाविंशति वा कुर्यात् मूलात्पूर्वाहुतिं हुनेत् ।
प्राणायामं ततो न्यासं कृत्वा च हृदि धारणम् ।
एवं नित्यार्चनविधिः प्रोक्तस्तव सुरार्चिते ॥२६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:41.6430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सारक

  • न. ( कों . ) १ सुरमाडाची झावळी , फांदी . २ सुरमाडाचा लोंगरासारखा अवयव . याचे तंतु बांधावयाच्या उपयोगास येतात . सारकाचा झेला शेतास पाणी देण्यासाठीं वापरतात . सारकी - स्त्री . सुरमाडाच्या फांदीचा लहान झेला . 
  • वि. १ जुलाबाचें ; मलशुध्दि करण्याचा गुण अंगीं असलेलें ; रेचक ( औषध ). २ पुढें ढकलणारा , सारणारा . 
  • a  Purgative. That pushes. 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.