TransLiteral Foundation

रसविद्या - भाग १७

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १७
उषःपानरसायनम्

अथ प्रीतमना देवी पप्रच्छ परमेश्वरी ।
श्रीभैरवी ।
आदिभैरव देवेश सृष्टिस्थित्यन्तकारण ॥१॥

सर्वज्ञ शिव लोकेश त्वत्प्रसादान्मया विभो ।
रसायनानि दिव्यानि श्रुतानि विविधानि च ॥२॥

सुसाध्यं सुलभं दिव्यं सद्यः प्रत्ययकारणम् ।
बालस्त्रीषण्ढवृद्धानां रोगार्तानां विशेषतः ॥३॥

योग्यं रसायनार्हाणां ब्रूहि देव कृपानिधे ।
ततः स्मेराननाम्भोजो भैरवो भवभैरवः ॥४॥

श्रीभैरवः ।
शृणु देवि प्रवक्ष्यामि सर्वयोग्यं सुखङ्करम् ।
पावनं सुलभं चान्तर्बहिरंहोविनाशनम् ॥५॥

यस्माज्जगन्ति जातानि प्राणाः प्राणभृतामपि ।
त्रायते विश्वमखिलं सर्वदेवात्मकं प्रिये ॥६॥

त्रिदोषशमनं सौख्यं पथ्यं सर्वरसाधिकम् ।
षड्जीवनादिगुणयुग्रसयुक्तं बलप्रदम् ॥७॥

जीवनं च बलं प्रायः प्राणिनामग्निमूलकम् ।
तस्याग्निरिन्धनं तोयं तस्मात्तोयं पिबेद्बुधः ॥८॥

वैद्युतो बाडवो वह्निर्जाठरश्च त्रयोऽग्नयः ।
अबिन्धनाः स्युरन्येषां काष्ठादीनीन्धनानि हि ॥९॥

तस्माद्देवि शिवं वच्मि शृणु तोयरसायनम् ।
पूरयेन्नूतनघटे प्रातः शोध्यैश्च वारिभिः ॥१०॥

गाङ्गेयैर्वाथ नादेयैस् ताटाकैर्वापि सारसैः ।
कौपैर्वा चापि वै घर्मैर्वार्षिकैर्वा यथाभवैः ॥११॥

तद्घटं स्थापयेन्मञ्चे दिव्यभास्कररश्मिभिः ।
नष्टदोषं निशायां च चन्द्रामृतकराप्लुतम् ॥१२॥

एलोशीरककर्पूरचन्दनैरधिवासितम् ।
पाटलीकेतकीजातिमल्लिकोत्पलवासितम् ॥१३॥

उशीरतालवृन्तेन तोयसिक्तेन मन्द्रतः ।
मुहुर्मुहुर्वीजितं तु हंसोदकमुदाहृतम् ॥१४॥

अनुराधोदयात्पूर्वं नास्पृष्टमलमूत्रकम् ।
पिबेत्तोयं ततः कुर्यान्मलमूत्रविसर्जनम् ॥१५॥

सन्ध्यावन्दनकर्मादि कुर्वन्स्वेच्छाशनो भवेत् ।
एकाब्दबालको नित्यं पिबेत्तोयं पलं पलम् ॥१६॥

एवं षोडशवर्षान्तं प्रत्यब्दं च पलं पलम् ।
वर्धयेत् क्रमशो धीमान्पलषोडशिकावधि ॥१७॥

षोडशाब्दात्परं सेव्यं षोडशप्रसृतं जलम् ।
एवं विंशतिवर्षान्तं नित्यं सेवेत सादरम् ॥१८॥

अनेन व्याधयः सर्वे विनश्यन्ति न संशयः ।
जीवेद्वर्षशतं बुद्धिबलेन्द्रियसुखान्वितः ॥१९॥

प्रसृतं च पिबेदष्टपलं दीर्घायुषाय च ।
यथा वह्निबलं तोयं त्र्यहाद्वा पञ्चवासरात् ॥२०॥

सप्ताहाद्वा क्रमात्प्राज्ञः प्रसृतं प्रसृतं तथा ।
पुनस्तु कुडवं वापि वर्धयेत्तच्छनैः शनैः ॥२१॥

षोडशप्रसृतं यावत्तावत्सेव्यं ततः परम् ।
यथा यथाम्बुनो वृद्धिस्तथा दोषः प्रशाम्यति ॥२२॥

षण्मासं वा वत्सरं वा वाद्यन्तं वा पिबेज्जलम् ।
यथा वृद्धिस्तथा ह्रासो यावच्चुलुकमात्रकम् ॥२३॥

उपवासं दिवा रात्रौ पथ्याशी तत्परित्यजेत् ।
आत्यन्तिके च व्यायामे सति वाञ्जलिमात्रकम् ॥२४॥

पादमर्धं त्रिपादं वा यथा सेवाञ्जलिं पिबेत् ।
मध्वाज्यतैलदुग्धाज्यजलाद्यन्यतमैर् युतम् ॥२५॥

हन्याच्छीघ्रं वातरोगमथवास्यस्थभेषजैः ।
तत्तद्रोगोपशमनं भक्षयित्वा च भेषजम् ॥२६॥

ततो जलं वा प्रपिबेन्मुहूर्ते वा गते सति ।
जीर्णे वा सलिले सेव्यं भोजनान्तेऽथवा निशि ॥२७॥

ज्वरादिरोगे संजात उपवासो भवेद्यदि ।
पिबेद् अर्धं च पूर्वस्माल्लघ्वाहारी यथासुखम् ॥२८॥

उपवासो व्रतार्थं चेत् तत्क्षीरं वा पलं निशि ।
रात्रावभोजनं देवि जठरे वारि शुष्यति ॥२९॥

अर्धं वा प्राञ्जलिं वारि पिबेन्नित्यं प्रयत्नतः ।
सर्वत्राहारसत्वाग्निसाम्यं वारि पिबेत्सुधीः ॥३०॥

विण्मूत्रोत्सर्जनं ब्राह्मान्मुहूर्तात्पूर्वतो यदि ।
ततः पीत्वैव सलिलं विण्मूत्रं च विसर्जयेत् ॥३१॥

वारि पूतं विषं त्वल्पं विण्मूत्रोत्सर्जनात्परम् ।
अज्ञातवेले रात्रौ चेत्पिबेत्तोयं पुनः प्रगे ॥३२॥

पादं वाथ चतुर्थांशमञ्जलिं वा पिबेज्जलम् ।

जलपानकल्पे पथ्यम् अपथ्यञ्च

गोधूमषष्टिशाल्यन्नं यवजाङ्गलजामिषम् ॥३३॥

गव्यं सर्पिर्दधि क्षीरमुदश्विन्नवनीतकम् ।
मध्विक्षुदाडिमद्राक्षामोचखर्जूरशर्कराः ॥३४॥

सहकारफलं धात्री नालिकेरजलं नवम् ।
कूष्माण्डालाबुरुनिम्बपत्रफलानि च ॥३५॥

पत्रपुष्पफलं शिग्रोर्मुद्गयूषरसौ कृतौ ।
सुनिषण्णकगोरण्टी जीवन्तीद्वयकं तथा ॥३६॥

राजवृक्षकशोथघ्नी चिल्ली वापि लघुच्छदा ।
शतावरी तण्डुली च मत्स्याक्षी च विदारिका ॥३७॥

उपोदकी च वार्त्ताकी कारवल्लीफलानि च ।
लघुकोशातकी लक्ष्मी पटोलं तालमूलकम् ॥३८॥

मोचायाः कुसुमं दण्डफलानि क्षुद्रदन्तिका ।
सदाफलं च मत्स्याण्डी शृङ्गवेरं च सैन्धवम् ॥३९॥

फलपूराम्लकं पक्वधात्रीफलम् अलर्ककः ।
वायसी कुन्तली चैव वसुकन्यालिका तथा ॥४०॥

कुस्तुम्बरी च सरसी शार्ङ्गेरी चक्रमर्दकः ।
मण्डूकपर्णी पालक्याः पत्रं गाङ्गेरुकं तथा ॥४१॥

आखुकर्णी कासमर्दपत्रं गाङ्गेरुकं तथा ।
संस्कारार्थं च कैडर्यसैन्धवोषणजारकाः ॥४२॥

सर्वेऽपि मधुरप्रायाः स्वादुशीताः सुखप्रदाः ।
कतकस्य च पथ्यायाः शलाटुं लवणाक्तकम् ॥४३॥

नीलोत्पलाब्जयोर् नालपुष्पशालूककेसराः ।
स्नेहयुक्तं भजेत्स्नानं श्वेताम्बरधरः शुचिः ॥४४॥

कस्तूरीचन्दनहिमकर्पूरैर् अनुलेपनम् ।
मन्दानिलं पुष्पमाल्यं कौमुदीरत्नभूषणम् ॥४५॥

पथ्यं रुच्यं जलीयं च स्वादुप्रायं च सद्रवम् ।
घृतक्षीरयुतं भक्तं भुञ्जीतोदकसेवकः ॥४६॥

ताम्बूलचर्वणं कुर्यात् सकर्पूरं सुखासनम् ।
नारिकेलजलं सायं निशि क्षीरं सशर्करम् ॥४७॥

शाल्मली तूलशय्या च निशि निद्रा यथासुखम् ।
ऊनातिमात्रविष्टम्भिविबन्ध्युष्णखराणि च ॥४८॥

रूक्षाहृद्यस्थिरगुरुपिच्छिलाकालभोजनम् ।
कुल्माषबृहतीचोषद्वयालाबुनिरूढकम् ॥४९॥

कुलुत्थयूषकालिङ्गगुञ्जावृक्षफलं तथा ।
पलाण्डु लशुनं सर्वकन्दं सिद्धार्थकं तथा ॥५०॥

अजाङ्गलं पलं मत्स्यं किंचित्क्षीरान्नभोजनम् ।
अनुक्तशाकमन्नं च फलं क्षीरयुतं पलम् ॥५१॥

सर्वक्षीरयुतान्सर्वान्रसानमधुरानपि ।
तिलतैलं च तत्कल्कम् एतैः संयुक्तम् औषधम् ॥५२॥

बहुभाष्यातपछायासमचिन्ताध्वरोषणम् ।
शोकवाहनभीतिश् चालस्यात्यन्तरतं तथा ॥५३॥

मूर्ध्नि भारवहश्चांभस्तरणं चोपवासकम् ।
व्यायामेर्ष्यादिवास्वापो निशि जागरणं तथा ॥५४॥

पुरोवातो हिमं धूलिर्वातप्रायस्थलं तथा ।
धूमप्रायगृहं तल्पं कार्पासपरिकल्पितम् ॥५५॥

अग्निः श्रमाम्बुजननं तथोष्णाम्बरधारणम् ।
कौशेयधारणं तूर्वोस्ताडनं कठिनासनम् ॥५६॥

उष्णालयक्षारकूपसलिलं कटुतिक्तकौ ।
अम्लः कषायतिक्तश्च रामठं च विरूक्षकम् ॥५७॥

मदिरा च वसा मज्जा मूत्रं दुष्टजलानि च ।
मदं शीतमनारोग्यं भोजनं तैलवर्जितम् ॥५८॥

अभ्यङ्गं काञ्जिकं शीतं रोगाभावे कषायकम् ।
विदाहि शोषणं मूर्ध्नि स्नानमप्युष्णवारिभिः ॥५९॥

कारणं दोषकोपानां निन्द्यमन्यद्विवर्जयेत् ।

पीतजलजीर्णलक्षणम्

स्वस्थः पीत्वा सुखासीनः सलिलं वाग्यतः शुचिः ॥६०॥

विसर्जयेन्मलं मूत्रं ताम्बूलादींश्च वर्जयेत् ।
यावज्जलं पिबेत्तावन्मूत्रं निर्याति चेत् तदा ॥६१॥

जलं जीर्णं विजानीयादौषधेन विना यदा ।
निर्गच्छेत्सलिलं पीतं तदा स्वस्थतरो मतः ॥६२॥

निर्गते पीतसलिले निःशेषे क्षुत्प्रजायते ।
तैलाभ्यङ्गं ततः कुर्याद्विहितं पथ्यमाचरेत् ॥६३॥

जलाजीर्णलक्षणं तत्परिहारश्च

परिहारं विना रोगा जायन्ते नाविचारतः ।
श्रमः क्लमश्च वमनं शिरस्तोदः शिरोभ्रमः ॥६४॥

सलिलस्तम्भशोषौ चाभिष्यन्दो वेगरोधनम् ।
गुल्मोदावर्तकौ वह्निसदनं गात्रभञ्जनम् ॥६५॥

तोदो बस्तौ मेहने च वक्षणे हृदि लोचने ।
जङ्घोद्वेष्टनकं श्वासो भुक्तिद्वेषस्त्वरोचकः ॥६६॥

अश्मरी पीनसः कासस्त्वतिसारश्च दुस्तरः ।
सकृदम्भोविशोषश् चेद् रूक्षायासादिकर्मभिः ॥६७॥

स दोषो न तु विज्ञेयो दोषस्तंभोऽसकृद्यदि ।
प्रपीते सलिले स्तब्धे चिकित्सात्र विधीयते ॥६८॥

कूष्माण्डपत्रैर् उदरं बस्तिं चाच्छादयेत्सुधीः ।
मूत्रमोचनकृल्लेपं विदध्याज्जलमुक्तये ॥६९॥

यद्वाज्यधात्रीलिप्ताङ्गस्नानं कुर्याद्रसायनम् ।
सगुडं वा पिबेत्क्षीरं तक्रं वा शर्करान्वितम् ॥७०॥

नालिकेरोदकैर्वापि ससितोर्वारुबीजकम् ।
कष्टाज्जीर्णं जलं यस्य भुक्तेः प्राक् सर्पिर् आददेत् ॥७१॥

यद्वा तिष्ठेच्चिरं चाप्सु स्नायाद्धात्र्यादिभिर्हिमैः ।
यद्वा स्तब्धे जले पीते स्वादुशीतैर्विशोधयेत् ॥७२॥

कृष्णामदनसिन्धूत्थैः कल्कैर्मधुयुतैर्वमेत् ।
पथ्याचूर्णं नालिकेरजलैः पीत्वा विरेचयेत् ॥७३॥

यद्वा त्रिजातकव्योषक्रिमिघ्नामलकाब्दकैः ।
त्रिवृत्सर्वसमा योज्या ह्येतत्सर्वसमा सिता ॥७४॥

सक्षौद्रगुलिकां कृत्वा लिहेदम्भोविमुक्तये ।
रात्रौ वरा सेविता चेत्सर्वदोषविनाशिनी ॥७५॥

नाभेरधश्चार्द्रपटं क्षणमात्रं निधापयेत् ।
अवगाहेन शीताम्भो मूर्ध्नि वा शीतवारि च ॥७६॥

निक्षिपेदथवा सार्द्रसिकतातल्पशोभिते ।
धारागृहे वा चासीत त्रपुसोर्वारुबीजकम् ॥७७॥

वरीद्राक्षाम्बुना पेयं वा तु काश्मीरजं वृषम् ।
द्राक्षारसेन वा पेयं कर्कटीबीजकानि च ॥७८॥

तण्डुलक्षालनजलैर्मधुकं वाथ शर्कराम् ।
सद्राक्षं च गुडं दार्वीं तण्डुलोदकयोगतः ॥७९॥

यद्वा धात्रीफलरसैर्गोस्तनीं शर्करान्विताम् ।
वरीं वा शर्करायुक्तां द्राक्षां वा मस्तुना सह ॥८०॥

जलेन वा गुडं पेयं नालिकेरजलेन वा ।
तुगाक्षीरीभवं कल्कं वापि कर्कारुबीजकम् ॥८१॥

कल्पं वा तामलक्याश्च मूलं वा यष्टिकल्ककम् ।
पिशाचकदलीपक्वफलं क्षौद्रसितान्वितम् ॥८२॥

नालिकेरजलैर्वापि तक्रैर्वा मस्तुनापि वा ।
रम्भाकन्दजलैर्वापि क्षीरैर्वामलकीरसैः ॥८३॥

यद् वामृतारसैर् वापि कूष्माण्डस्वरसेन वा ।
दाडिमस्य रसैर्वापि त्वभीरोश्च रसैस्तथा ॥८४॥

अलाबोश्च रसैर्वापि पिबेदेलां सशर्कराम् ।
कदलीकन्दयष्ट्याह्वश्वदंष्ट्राश्च कशेरुकाः ॥८५॥

तृणपञ्चकमूलानि शुक्रा चैव शतावरी ।
एतेषां कदलीकन्दप्रमुखानां कषायकम् ॥८६॥

सक्षौद्रं ससितं वापि पेयं जलविमुक्तये ।

उषःपानगुणाः

एवं ब्राह्मे मुहूर्ते यत्पीतं वारि रसायनम् ॥८७॥

दोषान् अशेषान् शमयेद् रोगानपि विनाशयेत् ।
रक्तवातं च वातांश्च हृद्रोगं श्वासकासकम् ॥८८॥

रक्तपित्तं च पित्तानि ग्रहणीछर्द्यरोचकान् ।
क्षयमूर्च्छाकुष्ठमेहमोहगण्डार्बुदान् गदान् ॥८९॥

गुल्मप्लीहाश्मरीशूलानाहाजीर्णविषूचिकाः ।
क्रिमिं पाण्डुं कामिलां च हलीमकविसर्पकाः ॥९०॥

व्रणं च श्वयथुं श्वित्रमग्निसादं त्रिधा विषम् ।
जत्रूर्ध्वगुह्यकान् रोगान् अपस्मारं च विभ्रमम् ॥९१॥

ज्वरान् आध्मानजठरमूत्राघातगुदाङ्कुरान् ।
वलीपलितनिर्मुक्तो जीवेत्त्रिशतवत्सरम् ॥९२॥

स्थिरधीर्बलवान्धीरः कान्तः कान्तामनोभवः ।

नासापानरसायनम्

नासापुटाभ्यां सलिलं यस्तु प्रातः पिबेन्नरः ॥९३॥

शुक्तिमात्रं प्रतिदिनं पथ्याशी विजितेन्द्रियः ।

इन्द्रियाणां पटुत्वं च वलीपलितनाशनम् ॥९४॥

शतायुष्यम् अवाप्नोति नासारन्ध्ररसायनम् ॥९५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:45.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

copper mine

  • तांब्याची खाण 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site